अध्यायः 055
					 मित्रावरुणाश्रमे नारदाद्भीमदुर्योधनयोर्गदायुद्धोपक्रमश्राविणा
						बलरामेण तद्दिदृक्षया कुरुक्षेत्रं प्रत्यागमनम् ॥ 1 ॥ 
					
					
						कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा देयांश्च सात्वतः ।
						आश्रमं सुमहत्पुण्यमगमज्जनमेजय ॥
					 
					
						मधूकाम्रवणोपेतं प्लुक्षन्यग्रोधसङ्कुलम् ।
						चिरबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम् ॥
					 
					
						तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् ।
						पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् ॥
					 
					
						ते तु सर्वे महात्मानमूचू राजन्हलायुधम् ।
						शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः ॥
					 
					
						अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् ।
						अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः ॥
					 
					
						अत्रैव ब्राह्मणी वृद्वा कौमारब्रह्मचारिणी ।
						योगयुक्ता दिवं याता तपोयुक्ता विशाम्पते ॥
					 
					
						बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः ।
						सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी ॥
					 
					
						साऽपि प्राप्य परं योगं गता स्वर्गमनुत्तमम् ।
						भुक्त्वाऽश्रमेऽश्वमेधस्य फलं फलवतः शुभम् ॥
					 
					
						गता स्वर्गं महाराज पूजिता च महात्मभिः ।
						अभिगम्याश्रमं पुण्यं स दृष्ट्वा यदुनन्दनः ॥
					 
					
						ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः ।
						सन्ध्याकार्याणि सर्वाणि निर्वर्त्यारुरुहेऽचलम् ॥
					 
					
						नातिदूरं ततो गत्वा नगं तालध्वजो बली ।
						पुण्ये तीर्थवरे स्नात्वा विस्मयं परमं गतः ॥
					 
					
						प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः ।
						सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् ॥
					 
					
						हलायुधस्तु तत्रापि दत्त्वा दानं महाबलः ।
							आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ ।
						
						सन्तर्पयामास पितॄन्देवांश्च रणदुर्मदः ॥
						
					 
					
						तत्रोष्यैकां तु रजनीं यतिभिर्ब्राह्मणैः सह ।
						मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः ॥
					 
					
						इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवम् ।
						तं देशं कारपचनात्स तस्मादाजगामह ॥
					 
					
						स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च ।
							ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः ।
						
						उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः ॥
						
					 
					
						तथा तु तिष्ठतां तेषां नारदो भगवानृषिः ।
						आजगामाथ तं देशं यत्र रामो व्यवस्थितः ॥
					 
					
						जटामण्डलसंवीतः कुशचीरी महातपाः ।
						हेमदण्डधरो राजन्कमण्डलुधरस्तथा ॥
					 
					
						महतीं सुखशब्दां तां गृह्य वीणां मनोरमाम् ।
						नृत्ये गीते च कुशलो देवब्राह्मणपूजितः ॥
					 
					
						प्रभवः कलहानं च नित्यं च कलहप्रियः ।
						तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः ॥
					 
					
						प्रत्युत्थाय च तं रामः पूजयित्वा यतव्रतम् ।
						देवर्षिं पर्यपृच्छत्स यथावृत्तं कुरून्प्रति ॥
					 
					
						तदाऽस्याकथयद्राजन्नारदः सर्ववेदवित् ।
						सर्वमेतद्यथावृत्तमतीतं कुरुसंक्षयम् ॥
					 
					
						ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा ।
						किमवस्थं तु तत्क्षत्रं ये तु तत्राभवन्नृपाः ॥
					 
					
						श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन ।
						विस्तरश्रवणे जातं कौतूहलमतीव मे ॥
						नारद उवाच । 
					 
					
						पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा ।
						हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः ॥
					 
					
						भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् ।
						एते चान्ये च बहवो हतास्तत्र महाबलाः ॥
					 
					
						प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै ।
						राजानो राजपुत्राश्च समरेष्वनिवर्तिनः ॥
					 
					
						अहतांस्तु महाबाहो शृणु मे तत्र माधव ॥
						
					 
					
						धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः ।
							कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान् ।
						
						तेऽपि वै विद्रुता राम दिशो दश भयात्तदा ॥
						
					 
					
						दुर्योधनो हते सैन्ये विद्रुतेषु पदातिषु ।
						हदं द्वैपायनं नाम विवेश भृशदुःखितः ॥
					 
					
						शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा ।
						पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् ॥
					 
					
						स तुद्यमानो बलवान्वाग्भी राम समन्ततः ।
						उत्थितः स हदाद्वीरः प्रगृह्य महतीं गदाम् ॥
					 
					
						स चाप्युपागतो योद्धुं भीमेन सह साम्प्रतम् ।
						भविष्यति तयोरद्य युद्धं राम सुदारुणम् ॥
					 
					
						यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् ।
						पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे ॥
						वैशम्पायन उवाच । 
					 
					
						नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् ।
							सर्वान्विसर्जयामास ये तेनाभ्यागताः सह ।
						
						गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः ॥
						
					 
					
						सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् ।
							ततः प्रीतमनाः रामः श्रुता तीर्थफलं महत् ।
						
						विप्राणां सन्निधौ श्लोकमगायदिममच्युतः ॥
						
					 
					
						सरस्वतीवाससमा कुतो रतिः
							सरस्वतीवाससमाः कुतो गुणाः ।
						
						सरस्वतीं प्राप्य दिवं गता जनाः
							सदा स्मरिष्यन्ति नदीं सरस्वतीम् ॥
						
					 
					
						सरस्वती सर्वनदीषु पुण्या
							सरस्वती लोकशुभावहा सदा ।
						
						सरस्वतीं प्राप्य जनाः सुदुष्कृतं
							सदा न शोचन्ति परत्र चेह च ॥
						
					 
					
						ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् ।
						हयैर्युक्तं रथं शुभ्रमारुरोह परन्तपः ॥
					 
					
						स शीघ्रगामिना तेन रथेन यदुपुङ्गवः ।
						दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्वमुपस्थितम् ॥
					 
					
						एवं तदभवद्युद्वं तुमुलं जनमेजयं ।
						यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥
						धृतराष्ट्र उवाच । 
					 
					
						राम सन्निहितं श्रुत्वा गदायुद्ध उपस्थिते ।
						मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय ॥ ॥
					 
					 इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥ समाप्तं हदप्रवेशपर्व ॥ 2 ॥ 
					 9-55-10 स्कन्धावाराणि सर्वाणीति क.ङ.छ.पाठः ॥ 9-55-12
						प्लक्षप्रस्रवणं विलमिति क.पाठः ॥ 9-55-19 कच्छपीं सुखशब्दां तामिति
						क.छ.झ.पाठः ॥ 9-55-30 दुर्योधनो हते शल्ये विद्रुतेषु कृपादिषु इति झ.पाठः ॥ 9-55-38 सरस्वतीं हीनविदेशवासिनः सदा रमरिष्यन्ति इति ङ.पाठः ।
						सरस्वतीहीनविदेशवासिनः इति क.पाठः ॥ 9-55-55 पञ्चपञ्चाशत्तमोऽध्यायः ॥ 
					
					
					
					
					श्रीः