अध्यायः 013
कृष्णादिभिर्भागीरथीतीरे व्याससमीपसमासीनद्रौणिदर्शनम् ॥ 1 ॥ तद्दर्शिना द्रौणिना अपाण्डवहेतोर्ब्रह्मशिरोस्त्रप्रयोगः ॥ 2 ॥
वैशम्पायन उवाच । 
					एवमुक्त्वा कुरुश्रेष्ठं सर्वयादवनन्दनः ।
						सर्वायुधवरोपेतमारुरोह रथोत्तमम् ॥
					युक्तं परमकाम्भोजैस्तुरगैर्हेममालिभिः ।
						उदितादित्यसङ्काशं सर्वरत्नविभूषितम् ॥
					दक्षिणे ह्यावहच्छैब्यः सुग्रीवः सव्यतो धुरम् ।
						णर्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ ॥
					विश्वकर्मकृता दिव्या रत्नधातुविभूषिता ।
						उच्छ्रिता च रथे तस्मिन्ध्वजयष्टिरदृश्यत ॥
					वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् ॥
						तस्य सत्यवतः केतुर्भुजगारिरदृश्यत ॥
					अथारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् ।
						अर्जुनः स च धर्मात्मा कुरुराजो युधिष्ठिरः ॥
					अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ ।
						रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् ॥
					उभावारोप्य दाशार्हः स्यन्दनं लोकपूजितम् ।
						प्रतोदेन जवोपेतान्परमाश्वानचोदयत् ॥
					ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् ।
						आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च ॥
					वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् ।
						प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव ॥
					ते समर्था महाबाहुं क्षणेन भरतर्षभ ।
						भीमसेनं महेष्वासमनुसस्रुः सुवेगिताः ॥
					क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् ।
						नाशक्नुवन्वारयितुं समेत्यापि महारथाः ॥
					स तेषामग्रतः शूरः श्रीमतां दृढधन्विनाम् ।
							ययौ भागीरथीतीरं हरिभिर्भृशवेगितैः ।
						
						यत्र स श्रूयते द्रौणिः पुत्रहन्ता दुरात्मवान् ॥
						
					स ददर्श महात्मानमुदकान्ते यशस्विनम् ।
						कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह ॥
					तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् ।
						रजसा ध्वस्तमासीनं ददर्श द्रौणिमन्तिके ॥
					तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः ।
						भीमसेनो महाबाहुस्तिष्ठतिष्ठेति चाब्रवीत् ॥
					तं दृष्ट्वा भीमकर्माणं प्रगृहीतशरासनम् ।
							भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ ।
						
						व्यथितात्माऽभवद्द्रौणिः प्राप्तं चेदममन्यत ॥
						
					स तद्दिव्यमदीनात्मा परमास््रमचिन्तयत् ।
						जग्राह च शरैषीकां द्रौणिः सव्येन पाणिना ॥
					स तामापदमासाद्य दिव्यमस्त्रमुदैरयत् ।
							अमृष्यमाणस्ताञ्छूरान्दिव्यायुधधरान्स्थितान् ।
						
						अपाण्डवायेति रुषा वाचमुत्सृज्य दारुणम् ॥
						
					इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् ।
						सर्वलोकप्रमोहार्थं तदस््रं प्रमुमोच ह ॥
					ततस्तस्यामिषीकायां पावकः समजायत ।
						प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्कयमोपमः ॥ ॥
					इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि त्रयोधशोऽध्यायः ॥ 13 ॥
10-13-19 अपाण्डवाय पाण़्डवानामभावाय ॥ 10-13-13 त्रयोदशोऽध्यायः ॥
श्रीः
