अध्यायः 051
					 भीष्मेण कृष्णंप्रति स्वस्य शस्त्रसंछिन्नशरीरतया
						धर्मकथनापाटवप्रकटनम् ॥ 1 ॥ कृष्णेन भीष्माय शरीरदार्ढ्यादिप्रदानम् ॥ 2 ॥ ततः
						सायं सर्वेषां स्वस्वस्थानगमनम् ॥ 3 ॥ 
					
					
						ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम् ।
						श्रुत्वा शान्तनवः कृष्णं प्रत्युवाच कृताञ्जलिः ॥
					 
					
						लोकनाथ महाबाहो शिव नारायणाच्युत ।
						तव वाक्यमुपश्रुत्य हर्षेणास्मि परिप्लुतः ॥
					 
					
						किंचाहमभिधास्यामि वाक्पते तव सन्निधौ ।
						यदा वाचोगतं सर्वं तव वाचि समाहितम् ॥
					 
					
						यच्च किंचित्कृतं लोके कर्तव्यं क्रियते च यत् ।
						त्वत्तस्तन्निः सृतं देव लोके बुद्धिमतो हिते ॥
					 
					
						कथयेद्देवलोकं यो देवराजसमीपतः ।
						धर्मकामार्थमोक्षाणां सोऽर्थं ब्रूयात्तवाग्रतः ॥
					 
					
						शराभितापाद्व्यथितं मनो मे मधुसूदन ।
						गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति ॥
					 
					
						न च मे प्रतिभा काचिदस्ति किंचित्प्रभाषितुम् ।
						पीड्यमानस्य गोविन्द विपानलसमैः शरैः ॥
					 
					
						बलं मे प्रजहातीव प्राणाः सत्वरयन्ति च ।
						मर्माणि परितप्यन्ति भ्रान्तचित्तस्तथा ह्यहम् ॥
					 
					
						दौर्बल्यात्सज्जते वाङ्भे स कथं वक्तुमुत्सहे ।
						साधु मे त्वं प्रसीदस्व दाशार्हकुलवर्धन ॥
					 
					
						तत्क्षमस्व महाबाहो न ब्रूयां किंचिदच्युत ॥
						त्वत्सन्निधौ च सीदेद्धि वाचस्पतिरपि ब्रुवन् ॥
					 
					
						न दिशः संप्रजानामि नाकाशं न च मेदिनीम् ।
						केवलं तव वीर्येण तिष्ठामि मधुसूदन ॥
					 
					
						स्वयमेव भवांस्तस्माद्धर्मराजस्य यद्धितम् ।
						तद्ब्रवीत्वाशु सर्वेषामागमानां त्वमागमः ॥
					 
					
						कथं त्वयि स्थिते कृष्णे शाश्वते लोककर्तरि ।
						प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते ॥
						वासुदेव उवाच । 
					 
					
						उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे ।
						महावीर्ये महासत्वे स्थिरे सर्वार्थदर्शिनि ॥
					 
					
						यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति ।
						गृहाणात्र वरं भीष्म मत्प्रसादकृतं प्रभो ॥
					 
					
						न ते ग्लानिर्न ते मूर्च्छा न तापो न च ते रुजा ।
						प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत ॥
					 
					
						ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ ।
						न च ते क्वचिदासत्तिर्बुद्धेः प्रादुर्भविष्यति ॥
					 
					
						सत्वस्थं च मनो नित्यं तव भीष्म भविष्यति ।
						रजस्तमोभ्यां निर्मुक्तं घनैर्मुक्त इवोडुराट् ॥
					 
					
						यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि च ।
						चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति ॥
					 
					
						इमं च राजशार्दूल भूतग्रामं चतुर्विधम् ।
						चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम ॥
					 
					
						चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा ।
						भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले ॥
						वैशंपायन उवाच । 
					 
					
						ततस्ते व्याससहिताः सर्व एव महर्षयः ।
						ऋग्यजुःसामसहितैर्वचोभिः कृष्णमार्चयन् ॥
					 
					
						ततः सर्वार्तवं दिव्यं पुष्पवर्षं न भस्तलात् ।
						पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः ॥
					 
					
						वादित्राणि च सर्वाणि जगुश्चाप्सरसां गणाः ।
						न चाहितमनिष्टं च किंचित्तत्र व्यदृश्यत ॥
					 
					
						ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः ।
						शान्तायां दिशिशन्ताश्च प्रावदन्मृगपक्षिणः ॥
					 
					
						ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः ।
						दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत ॥
					 
					
						ततो महर्षयः सर्वे समुत्थाय जनार्दनम् ।
						भीष्ममामन्त्रयांचक्रू राजानं च युधिष्ठिरम् ॥
					 
					
						ततः प्रणाममकरोत्केशवः सहपाण्डवः ।
						सात्यकिः स़ञ्जयश्चैव स च शारद्वतः कृपः ॥
					 
					
						ततस्ते धर्मनिरताः सम्यक् तैरभिपूजिताः ।
						श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः ॥
					 
					
						तथैवामन्त्र्य गाङ्गेयं केशवः पाण्डवास्तथा ।
						प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् ॥
					 
					
						ततो रथैः काञ्चनचित्रकूबरै
							र्महीधराभैः समदैश्च दन्तिभिः ।
						
						हयैः सुपर्णैरिव चाशुगामिभिः
							पदातिभिश्चात्तशरासनादिभिः ॥
						
					 
					
						ययौ रथानां पुरतो हि सा चमू
							स्तथैव पश्चादतिमात्रसारिणी ।
						
						पुरश्च पश्चाच्च यथा महानदी
							तमृक्षवन्तं गिरिमेत्य नर्मदा ॥
						
					 
					
						ततः पुरस्ताद्भगवान्निशाकरः ।
							समुत्थितस्तामभिहर्षयंश्चमूम् ।
						
						दिवाकरापीतरसा महौषधीः
							पुनः स्वकेनैव गुणेन योजयन् ॥
						
					 
					
						ततः पुरं सुरपुरसंमितद्युति
							प्रविश्य ते यदुवृषपाण्डवास्तदा ।
						
						यथोचितान्भवनवरान्समाविशन्
							श्रमान्विता मृगपतयो गुहा इव ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥ 
					 12-51-3 वाचोगतं वाचां विषयः सर्वोऽपि तव वाचि वेदे ॥ 12-51-4
						हिते प्रिये । लोके देवलोके इह परत्र च । तत्सर्वं त्रैकालिकम् । त्वत्तो
						निःसृतमिति उक्तेर्थे हेतुरुक्तः ॥ 12-51-12 आगमानां समागममिति ट. ड. पाठः ॥ 12-51-17 आसत्तिरवसन्नता ॥