अध्यायः 062
					 भीष्मेण युधिष्ठिरंप्रति ब्राह्मणैस्त्याज्यधर्मकथनम् ॥ 1 ॥ तथा
						क्षत्रियादिधर्मकथनपूर्वकं राजधर्मप्रशंसनम् ॥ 2 ॥ 
					
					
						ज्याकर्षणं शत्रुनिवर्हणं च
							कृपिर्वणिज्या पशुपालनं च ।
						
						शुश्रूषणं चापि तथाऽर्थहेतो
							रकार्यमेतत्परमं द्विजस्य ॥
						
					 
					
						सेव्यं तु ब्रह्म षट््कर्म गृहस्थेन मनीषिणा ।
						कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते ॥
					 
					
						राजप्रेष्यं कृषिधनं जीवनं च वणिज्यया ।
						कौटिल्यं कौलटेयं च ब्राह्मणस्य विगर्हितम् ॥
					 
					
						शूद्रो राजन्भवति ब्रह्मबन्धु
							र्दुश्चारित्रो यश्च धर्मादपेतः ।
						
						वृपलीपतिः पिशुनो नर्तनश्च ।
							ग्रामप्रेष्यो यश्च भवेद्विकर्मा ॥
						
					 
					
						`एवंविधो ब्राह्मणः कौरवेन्द्र
							वृत्तापेतो यो भवेन्मन्दचेताः । '
						
						जपन्वेदानजपंश्चापि राजन्
							समः शूद्रैर्दासवच्चापि भोज्यः ।
							एते सर्वे शूद्रसमा भवन्ति
							राजन्नेतान्वर्जयेद्देवकृत्ये ॥
						
					 
					
						निर्मर्यादे वाक्छठे क्रूरवृत्तौ ।
							हिंसाकामे त्यक्तवृत्तस्वधर्मो ।
						
						हव्यं कव्यं यानि चान्यानि राजन्
							देयान्यदेयानि भवन्ति तस्मिन् ॥
						
					 
					
						तस्माद्धर्मो विहितो ब्राह्मणस्य
							दमः शौचं चार्जवं चापि राजन् ।
						
						तथा विप्रस्याश्रमाः सर्व एव
							पुरा राजन्ब्रह्मणा संनिसृष्टाः ॥
						
					 
					
						यः स्याद्दान्तः सोमपाश्चार्यशीलः
							सानुक्रोशः सर्वसहो निराशीः ।
						
						ऋजुर्मृदुरनृशंसः क्षमावान्
							स वै विप्रो नेतरः पापकर्मा ॥
						
					 
					
						विप्रं वैश्यं राजपुत्रं च राजन्
							लोकाः सर्वे संश्रिता धर्मकामाः ।
						
						तस्माद्वर्णाञ्जातिधर्मेषु सक्ता
							ञ्जेतुं विष्णुर्नेच्छति पाण्डुपुत्र ॥
						
					 
					
						लोकश्चायं सर्वलोकस्य न स्या
							च्चातुर्वर्ण्यं वेदवादाश्च न स्युः ।
						
						सर्वाश्चेज्याः सर्वलोकक्रियाश्च
							सद्यः सर्वे चाश्रमाश्चैव न स्युः ॥
						
					 
					
						यच्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम् ।
						कर्तुमाश्रमदृष्टांश्च धर्मास्ताञ्शृणु पाण्डव ॥
					 
					
						शुश्रूषोः कृतकार्यस्य कृतसंतानकर्मणः ।
						अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते ॥
					 
					
						अल्पान्तरगतस्यापि देशधर्मगतस्य वा ।
						आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् ॥
					 
					
						भैक्षचर्यां नचैवाहुस्तस्य तद्धर्मवादिनः ।
						तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि ॥
					 
					
						कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः ।
						वैश्यो गच्छेदनुज्ञातो नृपेणाश्रमसंश्रयम् ॥
					 
					
						वेदानधीत्य धर्मेण राजशास्त्राणि चानघ ।
						संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च ॥
					 
					
						पालयित्वा प्रजाः सर्वा धर्मेण वदतांवर ।
						राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च ॥
					 
					
						आनयित्वा यथान्यायं विप्रेभ्यो दत्तदक्षिणः ।
						संग्रामे विजयं प्राप्य तथाऽल्पं यदि वा बहु ॥
					 
					
						स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव ।
						अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ ॥
					 
					
						अर्चयित्वा पितॄञ्श्राद्धैः पितृयज्ञैर्यथाविधि ।
						देवान्यज्ञैर्ऋषीन्वेदैरर्चयित्वा तु यत्नतः ॥
					 
					
						अन्तकाले च संप्राप्ते य इच्छेदाश्रमान्तरम् ।
						सोनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात् ॥
					 
					
						राजर्षित्वेन राजेन्द्र भैक्ष्यचर्याद्यसेवया ।
						अपेतगृहधर्मापि चरेज्जीवितकाम्यया ॥
					 
					
						न चैतन्नैष्ठिकं कर्म त्रयाणां भूरिदक्षिण ।
						चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम् ॥
					 
					
						बाह्वायत्तं क्षत्रियैर्मानवानां
							लोकश्रेष्ठं धर्ममासेवमानैः ।
						
						सर्वे धर्माः सोपधर्मास्त्रयाणां
							राज्ञो धर्मं नीतिशास्त्रे शृणोमि ॥
						
					 
					
						यथा राजन्हस्तिपदे पदानि
							संलीयन्ते सर्वसत्वोद्भवानि ।
						
						एवं धर्मान्राजधर्मेषु सर्वान्
							सर्वावस्थान्संप्रलीनान्निबोध ॥
						
					 
					
						अल्पाश्रयानल्पफलान्वदन्ति
							धर्मानन्यान्धर्मविदो मनुष्याः ।
						
						महाश्रयं बहुकल्याणरूपं
							क्षात्रं धर्मं नेतरं प्राहुरार्याः ॥
						
					 
					
						सर्वे धर्मा राजधर्मप्रधानाः
							सर्वे वर्णाः पाल्यमाना भवन्ति ।
						
						सर्वस्त्यागो राजधर्मेषु राजं
							स्त्यागं धर्मं चाहुरग्र्यं पुराणम् ॥
						
					 
					
						मज्जेत्रयी दण्डनीतौ हतायां
							सर्वे धर्माः प्रक्षयेयुर्विरुद्धाः ।
						
						सर्वे धर्माश्चाश्रमाणां हताः स्युः
							क्षात्रे नष्टे राजधर्मे पुराणे ॥
						
					 
					
						सर्वे भोगा राजधर्मेषु दृष्टाः
							सर्वा दीक्षा राजधर्मेषु चोक्ताः ।
						
						सर्वा विद्या राजधर्मेषु युक्ताः
							सर्वे लोका राजधर्मे प्रविष्टाः ॥
						
					 
					
						`सर्वे धर्मा राजधर्मेषु दृष्टाः
							सर्वे भोगा राजधर्मेषु राजन् ।'
						
						सर्वे योगा राजधर्मेषु चोक्ताः
							सर्वे धर्मा राजधर्मे प्रविष्टाः ।
							तस्माद्धर्मो राजधर्माद्विशिष्टो
							नान्यो लोके विद्यतेऽजातशत्रो ॥
						
					 
					
						सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम ।
						भवन्ति जीवलोकाश्च क्षत्रधर्मे प्रतिष्ठिताः ॥
					 
					
						यथा जीवाः प्राकृतैर्वध्यमाना
							धर्मश्रुतीनामुपपीडनाय ।
						
						एवं धर्मा राजधर्मैर्वियुक्ताः
							संचिन्वन्तो नाद्रियन्ते स्वधर्मम् ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥ 
					 12-62-3 कौटिल्यमनार्जवम् । कौलटेयं कुलटाप्रधानं जारकर्म ।
						कुसीदं च विवर्जयेत् इति झ. पाठः । तत्र कुसीदं वृद्धिजीविकामित्यर्थः ॥ 12-62-5
						राजप्रेष्यादिर्वेदान् जपन्नजपन्वा शूद्रइव पङ्क्तेर्वहिर्भोजनीय एवेति भावः ॥ 12-62-11 यो राजा त्रयाणां ब्राह्मणवैश्यशूद्राणां स्वराज्ये आश्रमधर्मसेवनं
						यथोक्तं इच्छेत् तेनावश्यज्ञातव्यान्धर्माञ्शृणु ॥ 12-62-12
						शुश्रूषोर्वेदान्तेष्वनधिकारात्पुराणद्वारा आत्मानं श्रोतुमिच्छोः । कृतकार्यस्य
						यावच्छरीरसामर्थ्यं सेवितत्रैवर्ण्यस्य ॥ 12-62-13 अल्पान्तरगतस्य आचारनिष्ठया
						त्रैवर्णिकसमस्य आश्रमाः सर्वे विहिताः । शूद्रोऽपि नैष्ठिकं ब्रह्मचर्यं
						वानप्रस्थं वा सकलविक्षेपककर्मत्यागरूपं संन्यासं वाऽनुतिष्ठेदेव । निराशिषं
						शान्तिदान्त्यादिकल्याणगुणरहितम् ॥ 12-62-22 अपेतगृहधर्मोऽपीति ख. पाठः ॥