अध्यायः 065
					 भीष्मेण युधिष्ठिरंप्रति वर्णाश्रमधर्मकथनम् ॥ 1 ॥ 
					
					
						श्रुता मे कथिताः पूर्वं चत्वारो मानवाश्रमाः ।
						व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह ॥
						भीष्म उवाच । 
					 
					
						विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर ।
						यथा मम महाबाहो विदिताः साधुसंमताः ॥
					 
					
						यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर ।
							धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप ।
						
					 
					
						सर्वाण्येतानि कौन्तेय विद्यन्ते भरतर्षभ ।
						साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् ॥
					 
					
						अकामद्वेषसंयुक्तो दण़्डनीत्या युधिष्ठिर ।
						समदर्शी च भूतेषु भैक्ष्याश्रमपदं भवेत् ॥
					 
					
						वेत्ति दानं विसर्गं च विग्रहानुग्रहौ तथा ।
						यथोक्तवृत्तो धीरश्च क्षमाश्रमपदं भवेत् ॥
					 
					
						अर्हान्पूजयतो नित्यं संविभागेन पाण्डव ।
						सर्वतस्तस्य कौन्तेय भैक्ष्याश्रमपदं भवेत् ॥
					 
					
						ज्ञातिसंबन्धिमित्राणि व्यापन्नानि युधिष्ठिर ।
						समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् ॥
					 
					
						लोकमुख्येषु सत्कारं लिङ्गिमुख्येषु चासकृत् ।
						कुर्वतस्तस्य कौन्तेय वन्याश्रमपदं भवेत् ॥
					 
					
						आह्निकं पितृयज्ञांश्च भूतयज्ञान्समानुषान् ।
						कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत् ॥
					 
					
						संविभागेन भूतानामतिथीनां तथाऽर्चनात् ।
						देवयज्ञैश्च राजेन्द्र वन्याश्रमपदं भवेत् ॥
					 
					
						मर्दनं परराष्ट्राणां शिष्टार्थं सत्यविक्रम ।
						कुर्वतः पुरुषव्याघ्र वन्याश्रमपदं भवेत् ॥
					 
					
						पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात् ।
						दीक्षा बहुविधा राजन्सत्याश्रमपदं भवेत् ॥
					 
					
						वेदाध्ययननित्यत्वं क्षमाऽथाचार्यपूजनम् ।
						तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् ॥
					 
					
						आह्निकाञ्जपमानस्य देवान्पूजयतः सदा ।
						धर्मेण पुरुषव्याघ्र धर्माश्रमपदं भवेत् ॥
					 
					
						मृत्युर्वा रक्षणं वेति यस्य राज्ञो विनिश्चयः ।
						प्राणद्यूते व्यवस्थाप्य ब्रह्माश्रमपदं भवेत् ॥
					 
					
						अजिह्नमशठं मार्गं वर्तमानस्य भारत ।
						सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् ॥
					 
					
						वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत ।
						प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत् ॥
					 
					
						सर्वभूतेष्वनुक्रोशं कुर्वतस्तव भारत ।
						आनृशंस्ये प्रवृत्तस्य नियतः पुण्यसंचयः ॥
					 
					
						बालवृद्धेषु कौन्तेय सर्वावस्थं युधिष्ठिर ।
						अनुक्रोशक्रिया पार्थ धर्म एष सनातनः ॥
					 
					
						बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह ।
						शरणागतेषु कौरव्य परं कारुण्यमाचर ॥
					 
					
						चराचराणां भूतानां रक्षणं चापि सर्वशः ।
						यथार्हपूजां च तथा कुर्वन्गार्हस्थ्यमावसेत् ॥
					 
					
						ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम् ।
						निग्रहानुग्रहौ पार्थ गार्हस्थ्यममितं तपः ॥
					 
					
						साधूनामर्चनीयानां पूजासु विदितात्मनाम् ।
						पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् ॥
					 
					
						आश्रमस्थानि भूतानि यस्य वेश्मनि भारत ।
						भुञ्जते विपुलं भोज्यं तद्गार्हस्थ्यं युधिष्ठिर ॥
					 
					
						यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् ।
						आश्रमाणां हि सर्वेषां फलं प्राप्नोत्यनामयम् ॥
					 
					
						यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा ।
						आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर ॥
					 
					
						स्थानमानं कुलेमानं वयोमानं तथैव च ।
						कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर ॥
					 
					
						देशधर्मांश्च कौन्तेय कुलधर्मास्तथैव च ।
						पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् ॥
					 
					
						काले विभूतिं भूतानामुपहारांस्तथैव च ।
						अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत् ॥
					 
					
						देशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते ।
						सर्वलोकस्य कौन्तेय राजा भवति सोश्रमी ॥
					 
					
						ये धर्मकुशला लोके धर्मं कुर्वन्ति भारत ।
						पालिता यस्य विषये पादांशस्तस्य भूपतेः ॥
					 
					
						धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान् ।
						पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते ॥
					 
					
						ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर ।
						ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ ॥
					 
					
						सर्वाश्रमपदेऽप्याहुर्गार्हस्थ्यं दीप्तनिर्णयम् ।
						पावनं पुरुषव्याघ्र यद्वयं पर्युपास्महे ॥
					 
					
						आत्मोपमस्तु भूतेषु यो वै भवति मानवः ।
						न्यस्तदण्डो जितक्रोधः प्रेत्येह लभते सुखम् ॥
					 
					
						धर्मोच्छ्रिता सत्यजला शीलयष्टिर्दमध्वजा ।
						त्यागवाताध्वगा शीघ्रा नौस्तया सन्तरिष्यति ॥
					 
					
						यदा सर्वत्र निर्मुक्तः कामो नास्य हृदि स्थितः ।
						यदा सत्यान्वितो वृत्तैस्तदा ब्रह्म सम श्नुते ॥
					 
					
						सुप्रसन्नस्तु भावेन योगेन च नराधिप ।
						धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥
					 
					
						वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् ।
						पालने यत्नमातिष्ठ सर्वलोकस्य चानघ ॥
					 
					
						वने चरन्ति ये धर्ममाश्रमेषु च भारत ।
						रक्षणात्तच्छतगुणं धर्मं प्राप्नोति पार्थिवः ॥
					 
					
						एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः ।
						युधिष्ठिर त्वमेनं वै पूर्वं दृष्टं सनातनम् ॥
					 
					
						चातुराश्रम्यमैकाग्र्यं चातुर्वर्ण्यं च पाण्डवं ।
						धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥ 
					 12-65-4 एतानि चातुराश्रम्यकारिणां लिङ्गानि सतां राज्ञां
						राजधर्मेष्वेव वर्तन्ते इत्यर्थः ॥ 12-65-5 भैक्ष्याश्रमः ब्रह्मचर्यम् ॥ 12-65-6 क्षमाश्रमो गार्हस्थ्यम् ॥ 12-65-7 भैक्ष्याश्रमः संन्यासः ॥ 12-65-8
						दीक्षाश्रमो वैखानसः ॥ 12-65-12 शिष्टार्थं शिष्टसंरक्षणार्थम् ॥ 12-65-13
						सत्याश्रमः क्षात्राश्रमः ॥ 12-65-15 धर्माश्रमः यत्याश्रमः ॥ 12-65-19
						सर्वावस्थं पदं भवेत् इति झ. पाठः ॥ 12-65-31 सोश्रमी सः आश्रमी
						सर्वाश्रमफलभागित्यर्थः ॥ 12-65-37 धर्मे स्थिता सत्ववीर्या धर्मसेतुवटारका ।
						त्यागवाताध्वगाशीघ्रा नौस्तं सन्तारयिष्यति । इति झ. पाठः । तत्र धर्मसेतुः
						सास्त्रं सैव वटारका बन्धनरज्जुर्यत्रेत्यर्थः ॥