अध्यायः 015
					 युधिष्ठिरंप्रत्यर्जुनवाक्यम् ॥ 1 ॥ 
					
					
						याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत् ।
						अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् ॥
						अर्जुन उवाच । 
					 
					
						दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
						दण़्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥
					 
					
						दण्डः संरक्षते धर्मं तथैवार्यं जनाधिप ।
						कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ॥
					 
					
						दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते ।
						एतद्विद्वानुपादाय स्वभावं पश्य लौकिकम् ॥
					 
					
						राजदण्डभयादेके नराः पापं न कुर्वते ।
						यमदण्डभयादेके परलोकभयादपि ॥
					 
					
						परस्परभयादेके पापाः पापं न कुर्वते ।
						एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥
					 
					
						दण्डस्यैव भयादेके न खादन्ति परस्परम् ।
						अन्धेतमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥
					 
					
						यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि ।
						दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥
					 
					
						वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् ।
						धनदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते ॥
					 
					
						असंमोहाय मर्त्यानामर्थसंरक्षणाय च ।
						मर्यादा स्थापिता लोके दण्डसंज्ञा विशांपते ॥
					 
					
						यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः ।
						प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥
					 
					
						ब्रह्मचारी गृहस्थश्च वानप्रस्थस्च भिक्षुकः ।
						दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ॥
					 
					
						नाभीतो यजते राजन्नाभीतो दातुमिच्छति ।
						नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ॥
					 
					
						नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् ।
						नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥
					 
					
						नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः ।
							इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ।
						
						`माहेन्द्रं च गृहं लेभे लोकानां चेश्वरोऽभवत् ॥' 
					 
					
						य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् ।
						हन्तारुद्रस्तथास्कन्दः शक्रोऽग्निर्वरुणो यमः ॥
					 
					
						हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः ।
						वसवो मरुतः साध्या विश्वेदेवाश्च भारत ॥
					 
					
						एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः ।
						न ब्रह्माणं न धातारं न पूषाणं कथंचन ॥
					 
					
						मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान् ।
						यजन्ते मानवाः केचित्प्रशान्तान्सर्वकर्मसु ॥
					 
					
						न हि पश्यामि जीवन्तं लोके कंचिदर्हिसया ।
						सत्वैः सत्वा हि जीवन्ति दुर्बलैर्बलवत्तराः ॥
					 
					
						नकुलो मूषिकानत्ति बिडालो नकुलं तथा ।
						बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ॥
					 
					
						तानत्ति पुरुषः सर्वान्पश्य धर्मो यथा गतः ।
						प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ॥
					 
					
						विधानं दैवविहितं तत्र विद्वान्न मुह्यति ।
						यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ॥
					 
					
						विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः ।
						विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ॥
					 
					
						उदके बहवः प्राणाः पृथिव्यां च फलेषु च ।
						न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनम् ॥
					 
					
						सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् ।
						पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥
					 
					
						ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः ।
						वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ॥
					 
					
						भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून् ।
						मनुष्यास्तन्वये यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ॥
					 
					
						दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः ।
						कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ॥
					 
					
						दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः ।
						जले मत्स्यानिवाभक्ष्यन्दुर्बलान्बलवत्तराः ॥
					 
					
						सत्यं बतेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधुनीतः ।
						पश्याग्नयः पूतिमांसस्य भीताः सन्तर्जिता दण्डभयाज्ज्वलन्ति ॥
					 
					
						अन्धंतम इवेदं स्यान्न प्रज्ञायेत किंचन ।
						दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ॥
					 
					
						येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः ।
						तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः ॥
					 
					
						सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः ।
						दण्डस्य हि भयाद्भीतो भोगायैव प्रकल्पते ॥
					 
					
						चातुर्वर्ण्यप्रमोदाय सुनीतिकरणाय च ।
						दण्डो विधात्रा विहितो धर्मार्थौं भुवि रक्षितुम् ॥
					 
					
						यदि दण्डान्न विभ्येयुर्वयांसि श्वापदानि च ।
						अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ॥
					 
					
						न ब्रह्मचार्यधीयीत न काल्यं दुहते च गौः ।
						न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ॥
					 
					
						विष्वग्लोपः प्रवर्तेत भिद्येरन्सर्वसेतवः ।
						ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥
					 
					
						न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः ।
						विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ॥
					 
					
						चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः ।
						न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥
					 
					
						न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः ।
						न विद्यां प्राप्नुर्यानानि यदि दण्डो न पालयेत् ॥
					 
					
						न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित् ।
						तिष्ठेत्पितुर्मते धर्मे यदि दण्डो न पालयेत् ॥
					 
					
						दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः ।
						दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ॥
					 
					
						न तत्र कूटं पापं वा वञ्चना वाऽपि दृश्यते ।
						यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ॥
					 
					
						हविः श्वा प्रलिहेद्दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत् ।
						हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ॥
					 
					
						यदीदं धर्मतो राज्यं विहितं यद्यधर्मतः ।
						कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च ॥
					 
					
						सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः ।
						संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् ॥
					 
					
						अर्थे सर्वे समारम्भाः समायत्ता न संशयः ।
						स च दण्डे समायत्तः पश्य दण्डस्य गौस्वम् ॥
					 
					
						लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् ।
						अहिंसाऽसाधुहिंसेति श्रेयान्धर्मपरिग्रहः ॥
					 
					
						नात्यन्तं गुणवत्किंचिन्न चाप्यत्यन्तनिर्गुणम् ।
						उभयं सर्वकार्येषु दृश्यते साध्वसाधु च ॥
					 
					
						पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्सु तान् ।
						वहन्ति बहवो भारान्बध्नन्ति दमयन्ति च ॥
					 
					
						एवं पर्याकुले लोके वितथैर्जर्झरीकृते ।
						तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर ॥
					 
					
						यज देहि प्रजा रक्ष धर्मं समनुपालय ।
						अमित्राञ्जहि कौन्तेय मित्राणि परिपालय ॥
					 
					
						मा च ते निघ्नतः शत्रून्मन्युर्भवतु पार्थिव ।
						न तत्र किल्विषं किंचिद्धन्तुर्भवति भारत ॥
					 
					
						आततायी हि यो हन्यादाततायिनमागतम् ।
						न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमार्च्छति ॥
					 
					
						अवध्यः सर्वभूतानामन्तरात्मा न संशयः ।
						अवध्ये चात्मनि कथं वध्यो भवति कस्यचित् ॥
					 
					
						यथा हि पुरुषः शालां पुनः संप्रविशेन्नवाम् ।
						एव जीवः शरीराणि तानितानि प्रपद्यते ॥
					 
					
						देहान्पुराणानुत्सृज्य नवान्संप्रतिपद्यते ।
						एवं मृत्युमुखं प्राहुर्जना ये तत्त्वदर्शिनः ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥ 
					 12-15-6 संसिद्धिके पशुवत् दण्डार्हस्वभावे ॥ 12-15-8 दमयति
						ताडनादिना । दण्डयति वित्तमपहरति ॥ 12-15-9 भुज्यत इति भुजं भक्तं
						तन्मात्रार्पणं वेतनप्रदानमित्यर्थः ॥ 12-15-11 श्यामः दृढाभिघातेन
						दण्ड्यस्यान्ध्यजनकत्वात् । लोहिताक्षो दण्डयितुः क्रोधातिशयात् । सूद्यतः
						सुतरामुद्यतः । साधु यथापराधम् ॥ 12-15-20 सत्वैः सत्वानीति ट. ड. थ. पाठः ॥ 12-15-21 व्यालमृगश्चित्रव्याघ्रः ॥ 12-15-22 पश्य कालो यथा गत इति झ. पाठः ।
						पश्य धर्मं यथागतमिति ड. त. पाठः ॥ 12-15-23 यथासृष्टः शौर्यं तेजो
						धृतिर्दाक्ष्यमित्याद्युक्तस्वभावः क्षत्रियः सृष्टोऽसि धात्रा ॥ 12-15-24
						विनीतावपनीतौ क्रोधहर्षौ यैस्ते । मन्दाः क्षत्रियाः । वधं कन्दमूलादिवधम् ॥ 12-15-26 स्कन्धपर्ययो देहस्य नाशः ॥ 12-15-29 दण्डयुक्ता
						नीतिर्दण्डनीतिस्तस्यां प्रणीतायां प्रवर्तितायाम् ॥ 12-15-30 अभक्ष्यन्
						भक्षयेयुः ॥ 12-15-31 पश्याग्नयश्च प्रतिशाम्येति झ.पाठः । संतर्जिताः
						फूत्कारेण ॥ 12-15-33 भोगाय पालनाय । मर्यादाया इति शेषः ॥ 12-15-36 हन्युः
						पशूनिति ट. ड. पाठः ॥ 12-15-37 न कल्याणीं दुहेत गामिति झ. पाठः । तत्र
						कल्याणीमपत्यवतीं न दुहेत लोक इत्यर्थः । उद्वहनं न गच्छेत् किंतु व्यभिचरेदेव ॥ 12-15-38 विश्वलोप इति ट. थ. पाठः । सेतवो मर्यादाः । ममत्वं परिच्छिन्नं न
						जानीयुः । सर्वः सर्वत्र ममत्वं कुर्यादित्यर्थरः ॥ 12-15-39
						तिष्ठेयुरनुतिष्ठेयुः ॥ 12-15-42 न तिष्ठेद्युवतीधर्म इति झ. पाठः ॥ 12-15-46
						यदि दण्डवतो राज्यं विहितं यद्यधर्मतः । कार्यं तत्र न कार्यं च इति ड. थ.
						पाठः ॥ 12-15-47 संवर्षन्तः फलैदीनैरिति झ. पाठः ॥ 12-15-51 नस्मु नासिकासु ।
						भिन्दन्ति मस्तकमिति पाठे मस्तकं भिन्दन्ति शृङ्गवृद्धिर्माभूदितीत्यर्थः ॥ 12-15-52 जर्झरीकृते दण्डेन । तदभावे भारवहनादिकार्यं न स्यादतः पुराणमेव
						धर्ममाचर । नत्वत्र प्रवाहायातं हिंसादिदोषमवेक्षस्वेति भावः ॥ 12-15-54
						मन्युर्दैन्यम् ॥ 12-15-55 आततायी शस्त्रपाणिः । मन्युः क्रोधः । मन्युं
						क्रोधमार्च्छति । आ सर्वत ऋच्छति प्राप्नोति । मन्युः कर्ता नाहं कर्तेति
						श्रुतेस्तत्र न भ्रूणहा भवतीत्यर्थः ॥