अध्यायः 290
					 वीरभद्रेण दक्षयज्ञभङ्गः ॥ 1 ॥ दक्षकृतस्तुतिप्रसन्नेन रुद्रेण
						दक्षाय वरदानम् ॥ 2 ॥ 
					
					
						प्राचेतसस्य दक्षस्य कथं वैवस्वतेन्तरे ।
							विनाशमगमद्ब्रह्मन्हयमेधः प्रजापतेः ।
						
						`कथं स चाभवद्ब्रह्मन्हयमेव प्रजापतेः ॥'
						
					 
					
						देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः ।
							प्रसादात्तस्य दक्षेण स यज्ञः संधितः कथम् ।
						
						एतद्वेदितुमिच्छेयं तन्मे ब्रूहि यथातथम् ॥
						
						वैशंपायन उवाच । 
					 
					
						पुरा हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ।
						गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥
					 
					
						गन्धर्वाप्सरसाकीर्णे नानाद्रुमलतावृते ।
						ऋषिसङ्घैः परिवृतं दक्षं धर्मभृतां वरम् ॥
					 
					
						पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः ।
						सर्वे प्राज्जलयो भूत्वा उपतस्थुः प्रजापतिम् ॥
					 
					
						देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।
						हाहा हूहूश्च गन्धर्वौ तुम्बुरुर्नारदस्तथा ॥
					 
					
						विश्वावसुर्विश्वसेनो गन्धर्वाप्सरसस्तथा ।
						आदित्या वसवो रद्राः साध्याः सह मरुद्गणैः ॥
					 
					
						इन्द्रेण सहिताः सर्वे आगता यज्ञभागिनः ।
						ऊष्मपाः सोमपाश्चैव धूमपा आज्यपास्तथा ॥
					 
					
						ऋषयः पितरश्चैव आगता ब्रह्मणा सह ।
						एते चान्ये च बहवो भूतग्रामाश्चतुर्विधाः ॥
					 
					
						जरायुजाण्डजाश्चैव सहसा स्वेदजोद्भिजैः ।
						आहूता मन्त्रिताः सर्वे देवाश्च सह पत्निभिः ॥
					 
					
						विराजन्ते विमानस्था दीप्यमाना इवाग्नयः ।
						तान्दृष्ट्वा मन्युनाऽऽविष्टो दधीचिर्वाक्यमब्रवीत् ॥
					 
					
						नायं यज्ञो न वा धर्मो यत्र रुद्रो न इज्यते ।
						वधबन्धं प्रपन्ना वै किंनु कालस्य पर्ययः ॥
					 
					
						किंनु मोहान्न पश्यन्ति विनाशं पर्युपस्थितम् ।
						उपस्थितं भयं घोरं न बुध्यन्ति यहाध्वरे ॥
					 
					
						इत्युक्त्वा स महायोगी पश्यति ध्यानचक्षुषा ।
						स पश्यति महादेवं देवीं च वरदां शुभाम् ॥
					 
					
						नारदं च महात्मानं तस्या देव्याः समीपतः ।
						संतोषं परमं लेभे इति निश्चित्य योगवित् ॥
					 
					
						एकमन्त्रास्तु ते सर्वे येनेशो न निमन्त्रितः ।
						तस्माद्देशादपक्रम्य दधीचिर्वाक्यमब्रवीत् ॥
					 
					
						अपूज्यपूजनाच्चैव पूज्यानां चाप्यपूजनात् ।
						नृघातकसमं पापं शश्वत्प्राप्नोति मानवः ॥
					 
					
						अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
						देवतानामृषीणां च मध्ये सत्यं ब्रवीम्यहम् ॥
					 
					
						आगतं पशुभर्तारं स्रष्टारं जगतः पतिम् ।
						अध्वरे ह्यग्रभोक्तारं ह्यर्वेषां पश्यत प्रभुम् ॥
						दक्ष उवाच । 
					 
					
						सन्ति नो बहवो रुद्राः शूलहस्ताः कपर्दिनः ।
						एकादशस्थानगता नाहं वेद्मि महेश्वरम् ॥
						दधीचिरुवाच । 
					 
					
						सर्वेषामेव मन्त्रोऽयं येनासौ न निमन्त्रितः ।
							यथाऽहं शंकरादूर्ध्वं नान्यं पश्यामि दैवतम् ।
						
						तथा दक्षस्य विपुलो यज्ञोऽयं नभविष्यति ॥
						
						दक्ष उवाच । 
					 
					
						एतन्मखेशाय सुवर्णपात्रे
							हविः समस्तं विधिमन्त्रपूतम् ।
						
						विष्णोर्नयाम्यप्रतिमस्य भागं
							प्रभुर्विभुश्चाहवनीय एषः ॥
						
						देव्युवाच । 
					 
					
						किं नाम दानं नियमं तपो वा
							कुर्यामहं येन पतिर्ममाद्य ।
						
						` लभेत भागं च तथैव सर्वं
							प्रभुर्विभुश्चाहवनीय एषः ।'
							लभेत भागं भगवानचिन्त्यो
							ह्यर्धं तथा भागमथो तृतीयम् ॥
						
					 
					
						एवं ब्रुवाणां भगवान्स्वपत्नीं
							प्रहृष्टरूपः क्षुभितामुवाच ।
						
						न वेत्सि मां देवि कृशोदराङ्गि
							किं नाम युक्तं वचनं मखेशे ॥
						
					 
					
						अहं विजानामि विशालनेत्रे
							ध्यानेन हीना न विदन्त्यसन्तः ।
						
						तवाद्य मोहेन च सेन्द्रदेवा
							लोकास्त्रयः सर्वत एव मूढाः ॥
						
					 
					
						मामध्वरे शंसितारः स्तुवन्ति
							रथन्तरं सामगाश्चोपगान्ति ।
						
						मां ब्राह्मणा ब्रह्मविदो यजन्ते
							ममाध्वर्यवः कल्पयन्ते च भागम् ॥
						
						देव्युवाच । 
					 
					
						सुप्राकृतोऽपि पुरुषः सर्वः स्त्रीजनसंसदि ।
						स्तौति गर्वायते चापि स्वमात्मानं न संशयः ॥
						श्रीभगवानुवाच । 
					 
					
						नात्मानं स्तौमि देवेशि पश्य मे तनुमध्यमे ।
						यं स्रक्ष्यामि वरारोहे यागार्थे वरवर्णिनि ॥
					 
					
						इत्युक्त्वा भगवान्पत्नीमुमां प्राणैरपि प्रियाम् ।
						सोऽसृजद्भगवान्वक्राद्भूतं घोरं प्रहर्षणम् ॥
					 
					
						तमुवाचाक्षिप मखं दक्षस्येति महेश्वरः ।
						ततो वक्राद्विमुक्तेन सिंहेनैकेन लीलया ॥
					 
					
						देव्या मन्युव्यपोहार्थं हतो दक्षस्य वै क्रतुः ।
						मन्युना च महाभीमा महाकाली महेश्वरी ॥
					 
					
						आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा ।
						देवस्यानुमतं मत्वा प्रणम्य शिरसा ततः ॥
					 
					
						आत्मनः सदृशः शौर्याद्बलरूपसमन्वितः ।
						स एव भगवान्क्रोधः प्रतिरूपसमन्वितः ॥
					 
					
						अनन्तबलवीर्यश्च अनन्तबलपौरुषः ।
						वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः ॥
					 
					
						सोऽसृजद्रोमकूषेभ्यो रौम्यान्नाम गणेश्वरान् ।
						रुद्रतुल्या गणा रौद्रा रुद्रवीर्यपराक्रमाः ॥
					 
					
						ते निपेतुस्ततस्तूर्णं दक्षयज्ञविहिंसया ।
						भीमरूपा महाकायाः शतशोऽथ सहस्रशः ॥
					 
					
						ततः किलकिलाशब्दैराकाशं पूरयन्ति च ।
						तेन शब्देन महता त्रस्तास्तत्र दिवौकसः ॥
					 
					
						पर्वताश्च व्यशीर्यन्त चकम्पे च वसुंधरा ।
						मारुताश्चैव घूर्णन्ते चुक्षुभे वरुणालयः ॥
					 
					
						अग्नयो नैव दीप्यन्ते नैव दीप्यति भास्करः ।
						ग्रहा चैव प्रकाशन्ते नक्षत्राणि न चन्द्रमाः ॥
					 
					
						ऋषयो न प्रकाशन्ते न देवा न च मानुषाः ।
						एवं तु तिमिरीभूते निर्दहन्त्यपमानिताः ॥
					 
					
						प्रहरन्त्यपरे घोरा यूपानुत्पाटयन्ति च ।
						प्रमर्दन्ति तथा चान्ये विमर्दन्ति तथाऽपरे ॥
					 
					
						आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः ।
						चूर्ण्यन्ते यज्ञपात्राणि दिव्यान्याभरणानि च ॥
					 
					
						विशीर्यरमाणा दृश्यन्ते तारा इव नभस्तले ।
						दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः ॥
					 
					
						क्षीरनद्योऽथ दृश्यन्ते धृतपायसकर्दमाः ।
						दधिमण्डेदका दिव्याः खण्डशर्करवालुकाः ॥
					 
					
						षड्रसा निवहन्त्येता गुडकुल्या मनोरमाः ।
						उच्चावचानि मांसानि भक्ष्याणि विविधानि च ॥
					 
					
						पानकानि च दिव्यानि लेह्यचोष्याणि यानि च ।
						भृञ्जते विविधैर्वक्रैर्विलुम्पन्त्याक्षिपन्ति च ॥
					 
					
						रुद्रकोपान्महाकायाः कालाग्निसदृशोपमाः ।
						क्षोभयन्सुरसैन्यानि भीक्षयन्तः समन्ततः ॥
					 
					
						क्रीडन्ति विविधाकाराश्चिक्षिषुः सुरयोषितः ।
						रुद्रक्रोधात्प्रयत्नेन सर्वदेवैः सुरक्षितम् ॥
					 
					
						तं यज्ञमदहच्छीघ्नं रुद्रकर्मा समन्ततः ।
						चकार भैरवं नादं सर्वभूतभयंकरम् ॥
					 
					
						छित्त्वा शिरो वै यज्ञस्य ननाद च मुमोद च ।
						ततो ब्रह्मादयो देवा दक्षश्चैव प्रजापतिः ॥
					 
					
						ऊचुः प्राञ्जलयः सर्वे कथ्यतां को भवानिति ।
						
						वीरभद्र उवाच ।
						नाहं रुद्रो न वा देवी नैव भोक्तुमिहागतः ॥
						
					 
					
						देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः ।
						द्रष्टुं वा नैव विप्रेन्द्रान्नैव कौतूहलेन वा ॥
					 
					
						तव यज्ञविघातार्थं संप्राप्तं विद्धि मामिह ।
						वीरभद्र इति ख्यातो रुद्रकोपाद्विनिःसृतः ॥
					 
					
						भद्रकालीति विख्याता देव्याः कोपाद्विनिः सृता ।
						प्रेषितौ देवदेवेन यज्ञान्तिकमिहागतौ ॥
					 
					
						शरणं गच्छ विप्रेन्द्र देवदेवमुमापतिम् ।
						वरं क्रोधोऽपि देवस्य वरदानं न चान्यतः ॥
					 
					
						वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः ।
						तोषयामास स्तोत्रेण प्रणिपत्यं महेश्वरम् ॥
					 
					
						प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम् ।
						महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥
					 
					
						दक्षप्रजापतेर्यज्ञेः द्रव्यैस्तैः सुसमाहितैः ।
						आहूता देवताः सर्वा ऋषयश्च तपोधनाः ॥
					 
					
						देवो नाहूयते तत्र विश्वकर्मा महेश्वरः ।
						तत्र क्रुद्धा महादेवी गणांस्तत्र व्यसर्जयत् ॥
					 
					
						प्रदीप्ते यज्ञवाटे तु विद्गुतेषु द्विजातिषु ।
						तारागणमनुप्राप्ते रौद्रे दीप्ते महात्मनि ॥
					 
					
						शूलनिर्भिन्नहृदयैः कूजद्भिः परिचारकैः ।
						निखातोत्पाटितैर्यूरपविद्धैरितस्ततः ॥
					 
					
						उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृद्धिभिः ।
						पक्षवातविनिर्धूतैः शिवाशतनिनादितैः ॥
					 
					
						यक्षगन्धर्वसङ्घैश्च पिशाचोरगराक्षमैः ।
						प्राणापानौ संनिरुध्य वक्रस्थानेन यत्नतः ॥
					 
					
						विचार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् ।
						सहसा देवदेवेशो ह्यग्निकुण्डात्समुत्थितः ॥
					 
					
						विभ्रत्सूर्यसहस्रस्य तेजः संवर्तकोपमः ।
						स्मितं कृत्वाऽव्रवीद्वाक्यं ब्रूहि किं करवाणि ते ॥
					 
					
						श्राविते च मखाध्याये देवानां गुरुणा ततः ।
						तमुवाचाज्जलिं कृत्वा दक्षो देवं प्रजापतिः ॥
					 
					
						भीतशङ्कितवित्रस्तः सवाष्पवदनेक्षणः ।
						यदि प्रसन्नो भगवान्यदि चाहं भवत्प्रियः ॥
					 
					
						यदि वाऽहभनुग्राह्यो यदि वा वरदो मम ।
						यद्दग्धं भक्षितं पीतमशित्तं यच्च नाशितम् ॥
					 
					
						चूर्णीकृतापविद्धं च यज्ञसंभारमीदृशम् ।
							दीर्घकालेन महता प्रयत्नेन सुसंचितम् ।
						
						तन्न मिथ्या भवेन्मह्यं वरमेतमहं वृणे ॥
						
					 
					
						तथाऽस्त्वित्याह भगवान्भगनेत्रहरो हरः ।
						धर्माध्यक्षो विरूपाक्षस्त्र्यक्षो देवः प्रजापतिः ॥
					 
					
						जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद्वरम् ।
						नाम्नामष्टसहस्रेण स्तुतवान्वृषभध्वजम् ॥
						युधिष्ठिर उवाच । 
					 
					
						यैर्नामघेयैः स्तुतवान्दक्षो देवं प्रजापतिः ।
						वक्तुमर्हसि मे तात श्रोतुं श्रद्धा ममानघ ॥
						भीष्म उवाच । 
					 
					
						श्रूयतां देवदेवस्य नामान्यद्भूतकर्मणः ।
						गूढव्रतस्य गुह्यानि प्रकाशानि च भारत ॥
					 
					
						नमस्ते देवदेवेश देवारिबलसूदन ।
						देवेन्द्रबलविष्टम्भ देवदानवपूजित ॥
					 
					
						सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय ।
						सर्वतः पाणिपादान्त सर्वतोक्षिशिरोमुखं ॥
					 
					
						सर्वतः श्रुतिमंल्लोके सर्वमावृत्य तिष्ठसि ।
						शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय ॥
					 
					
						गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोस्तु ते ।
						शतोदर शतावर्त शतजिह्न नमोस्तु ते ॥
					 
					
						गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
						ब्रह्माणं त्वा शतक्रतुमूर्ध्वं खमिव मेनिरे ॥
					 
					
						मूर्तौ हि ते महामूर्ते समुद्राम्बरसन्निभ ।
						सर्वा वै देवता ह्यस्मिन्गावो गोष्ठ इवासते ॥
					 
					
						भवच्छरीरे पश्यामि सोममग्निं जलेश्वरम् ।
						आदित्यमथ वै विष्णुं ब्रह्माणं च बृहस्पतिम् ॥
					 
					
						भगवान्कारणं कार्यं क्रिया करणमेव च ।
						असतश्च सतश्चैव तथैव प्रभवाप्ययौ ॥
					 
					
						नमो भवाय शर्वाय रुद्राय वरदाय च ।
						पशूनां पतये नित्यं नमोस्त्वन्धकघातिने ॥
					 
					
						त्रिजटाय त्रिशीर्षाय त्रिशूलवरपाणिने ।
						त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥
					 
					
						नमश्चण्डाय कृण्डाय अण्डायाण्डधराय च ।
						दण्डिने समकर्णाय दण्डिमुण्डाय वै नमः ॥
					 
					
						नमोर्ध्वदंष्ट्रकेशाय शुक्लायावतताय च ।
						विलोहिताय धूम्राय नीलग्नीवाय वै नमः ॥
					 
					
						नमोस्त्वप्रतिरूपाय विरूपाय शिवाय च ।
						सूर्याय सूर्यमालाय सूर्यध्वजपताकिने ॥
					 
					
						नमः प्रमथनाथाय वृषस्कन्धाय धन्विने ।
						शत्रुंदमाय दण्डाय पर्णचीरपटाय च ॥
					 
					
						नमो हिरण्यगर्भाय हिरण्यकवचाय च ।
						हिरण्यकृतचूडाय हिरण्यपतये नमः ॥
					 
					
						नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ।
						सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥
					 
					
						नमो होत्रेऽथ मन्त्राय शुक्लध्वजपताकिने ।
						नमो नाभाय नाभ्याय नमः कटकटाय च ॥
					 
					
						नमोस्तु कृशनासाय कृशाङ्गाय कृशाय च ।
						संहृष्टाय विहृष्टाय नमः किलकिलाय च ॥
					 
					
						नमोस्तु शयमानाय शयितायोत्थिताय च ।
						स्थिताय धावमानाय मुण्डाय जटिलाय च ॥
					 
					
						नमो नर्तनशीलाय मुखवादित्रवादिने ।
						नाद्योपहारलुब्धाय गीतवादित्रशालिने ॥
					 
					
						नमो ज्येष्ठाय श्रेष्ठाय वलप्रमथनाय च ।
						कालनाथाय कल्याय क्षयायोपक्षयाय च ॥
					 
					
						भीमदुन्दुभिहासाय भीमव्रतधराय च ।
						उग्राय च नमो नित्यं नमोस्तु दशबाहवे ॥
					 
					
						नमः कपालहस्ताय चितिभस्मप्रियाय च ।
						विभीषणाय भीष्माय भीमव्रतधराय च ॥
					 
					
						नमो विकृतवक्राय खङ्गजिह्वाय दंष्ट्रिणे ।
						पक्वाममांसलुब्धाय तुम्बीवीणाप्रियाय च ॥
					 
					
						नमो वृषाय वृष्याय गोवृषाय वृषाय च ।
						कटंकटाय दण्डाय नमः पचपचाय च ॥
					 
					
						नमः सर्ववरिष्ठाय वराय वरदाय च ।
						वरमाल्यगन्धवस्त्राय वरातिवरदे नमः ॥
					 
					
						नमो रक्तविरक्ताय भावनायाक्षमालिने ।
						संभिन्नाय विभिन्नाय च्छायायातपनाय च ॥
					 
					
						अघोरघोररूपाय घोरघोरतराय च ।
						नमः शिवाय शान्ताय नमः शान्ततमाय च ॥
					 
					
						एकपाद्वहुनेत्राय एकशीर्ष्णे नमोस्तु ते ।
						रुद्राय क्षुद्रलुब्धाय संविभागप्रियाय च ॥
					 
					
						पञ्चालाय सिताङ्गाय नमः शमशमाय च ।
						नमश्चण्डिकघण्टाय घण्टायाघण्टघण्टिने ॥
					 
					
						सहस्राध्मातघण्टाय घण्टामालाप्रियाय च ।
						प्राणघण्टाय गन्धाय नमः कलकलाय च ॥
					 
					
						हूंहूंहूंकारपाराय हूंहूंकारप्रियाय च ।
						नमः शमशमे नित्यं गिरिवृक्षालयाया च ॥
					 
					
						गर्भमांससृगालाय तारकाय तराय च ।
						नमो यज्ञाय यजिने हुताय प्रहुताय च ॥
					 
					
						यज्ञवाहाय दान्ताय तप्यायातपनाय च ।
						नमस्तटाय तट्याय तटानां पतये नमः ॥
					 
					
						अन्नदायान्नपतये नमस्त्वन्नभुजे तथा ।
						नमः सहस्रशीर्षाय सहस्रचरणाय च ॥
					 
					
						सहस्रोद्यतशूलाय सहस्रनयनाय च ।
						नमो बालार्कवर्णाय बालरूपधराय च ॥
					 
					
						बालानुचरगोप्ताय बालक्रीडनकाय च ।
						नमोवृद्धाय लुब्धाय क्षुब्धाय क्षोभणाय च ॥
					 
					
						तरङ्गाङ्कितकेशाय मुञ्जकेशाय वै नमः ।
						नमः षट््कर्मतुष्टाय त्रिकर्मनिरताय च ॥
					 
					
						वर्णाश्रमाणां विधिवत्पृथक्कर्मनिवर्तिने ।
						नमो घुष्याय घोषाय नमः कलकलाय च ॥
					 
					
						श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च ।
						प्राणभग्नाय दण्डाय स्फोटनाय कृशाय च ॥
					 
					
						धर्मकामार्थमोक्षाणां कथनीयकथाय च ।
						साङ्ख्याय साङ्ख्यमुख्याय साङ्ख्ययोगप्रवर्तिने ॥
					 
					
						नमो रथ्यविरथ्याय चतुष्पथरथाय च ।
						कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ॥
					 
					
						ईशानवज्रसंघातहरिकेश नमोस्तु ते ।
						त्र्यम्बकाम्बिकनाथाय व्यक्ताव्यक्त नमोस्तु ते ॥
					 
					
						काम कामद कामघ्न तृप्तातृप्तविचारिणे ।
						सर्व सर्वद सर्वघ्न संन्ध्याराग नमोस्तु ते ॥
					 
					
						`महाबल महाबाहो महासत्व महाद्युते ।
							महामेघचलप्रख्य महाकाल नमोस्तु ते ।
						
						स्थूलजीर्णाङ्गजटिले वत्कलाजिनधारिणे ॥
						
					 
					
						दीप्तसूर्याग्निजटिने वत्कलाजिनवाससे ।
						रसहस्रसूर्यप्रतिम तपोनित्य तमोस्तु ते ॥
					 
					
						उन्मादनुशतावर्त गङ्गातोयार्द्रमूर्धज ।
						चन्द्रवर्त युगावर्त मेघावर्त नमोस्तु ते ॥
					 
					
						त्वमन्नमत्ता भोक्ता च अन्नदोऽन्नभुगेव च ।
						अन्नस्रष्टा च पक्ता च पक्कभुक्पवनोऽनलः ॥
					 
					
						जरायुजाण्डजाश्चैव स्वेदजाश्च तथोद्भिजाः ।
						त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः ॥
					 
					
						चराचरस्य स्रष्टा त्वं प्रतिहर्ता तथैव च ।
						त्वामाहुर्ब्रह्मविदुषो ब्रह्म ब्रह्मविदांवर ॥
					 
					
						मनसः परमा योनिः खं वायुर्ज्योतिषां निधिः ।
						ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ॥
					 
					
						हायिहायि हुवाहायि हावुहायि तथाऽसकृत् ।
						गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥
					 
					
						यजुर्मयो ऋङ्भयश्च त्वमाहुतिमयस्तथा ।
						पठ्यसे स्तुतिभिश्चैव वेदोपनिषदां गणैः ॥
					 
					
						ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये ।
						त्वमेव मेघसङ्घाश्च विद्युत्स्तनितगर्जितः ॥
					 
					
						संवत्सरस्त्वामुतवो मासो मासार्धमेव च ।
						युगं निमेषाः काष्ठास्त्वं नक्षत्राणि ग्रहाः कलाः ॥
					 
					
						वृक्षाणां ककुदोसि त्वं गिरीणां शिखराणि च ।
						व्याघ्रो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥
					 
					
						क्षीरादो ह्युदधीनां च यन्त्राणां धनुरेव च ।
						वज्रः प्रहरणानां च व्रतानां सत्यमेव च ॥
					 
					
						त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे ।
						व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥
					 
					
						त्वं गदी त्वं शरी चापी खट्वाङ्गी झर्झरी तथा ।
						छेत्ता भेत्ता प्रहर्ता त्वं नेता मन्ता पिता मतः ॥
					 
					
						दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च ।
						गङ्गा समुद्राः सरितः पल्वलानि संरासि च ॥
					 
					
						लता वल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ।
						द्रव्यकर्मसमारम्भः कालः पुष्पफलप्रदः ॥
					 
					
						आदिश्चान्तश्च देवानां गायत्र्योङ्कार एव च ।
							हरितो रोहितो नीलः कृष्णो रक्तस्तथाऽरुणः ।
						
						कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा ॥
						
					 
					
						अवर्णश्च सुवर्णश्च वर्णकारो घनोपमः ।
						सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥
					 
					
						त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनलः ।
						उपप्लवश्चित्रभानुः स्वर्भानुर्भानुरेव च ॥
					 
					
						होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः ।
						त्रिसौपर्णं तथा ब्रह्म यजुषां शतरुद्रियम् ॥
					 
					
						पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ।
						गिरिको हिण्डुको वृक्षो जीवः पुद्गल एव च ॥
					 
					
						प्राणः सत्त्वं रजश्चैव तमश्चाप्रमदस्तथा ।
						प्राणोपानः समानश्च उदानो व्यान एव च ॥
					 
					
						उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च ।
						लोहितान्तर्गता दृष्टिर्महावक्रो महोदरः ॥
					 
					
						सूचीरोमा हरिश्मश्रुरूर्ध्वकेशश्चलाचलः ।
						गीतवादित्रतत्त्वज्ञो गीतवादनकप्रियः ॥
					 
					
						मत्स्यो जलचरो जाल्योऽकलः केलिकलः कलिः ।
						अकालश्चातिकालश्च दुष्कालः काल एव च ॥
					 
					
						मृत्युः क्षुरश्च कृत्यश्च पक्षोऽपक्षक्षयंकरः ।
						मेघकालो महादंष्ट्रः संवर्तकबलाहकः ॥
					 
					
						घण्टोऽघण्टो घटी घण्टी चरुचेली मिलीमिली ।
						ब्रह्मकायिकमग्नीनां दण्डी मुण्डस्त्रिदण्डधृक् ॥
					 
					
						चतुर्युगश्चतुर्वेदश्चातुर्होत्रप्रवर्तकः ।
						चातुराश्रम्यवेता च चातुर्वर्ण्यकरश्च यः ॥
					 
					
						सदा चाक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः ।
						रक्तमाल्याम्बरघरो गिरिशो गिरिकप्रियः ॥
					 
					
						शिल्पिकः शिल्पिनांश्रेष्ठः सर्वशिल्पप्रवर्तकः ।
						भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनः ॥
					 
					
						स्वाहास्वधावषट््कारो नमस्कारो नमो नमः ।
						गूढव्रतो गुह्यतपास्तारकस्तारकामयः ॥
					 
					
						धाता विधाता संधाता विधाता धारणो धरः ।
						ब्रह्मा तपश्च सत्यं च ब्रह्मचर्यमथार्जवम् ॥
					 
					
						भूतात्मा भूतकृद्भूतो भूतभव्यवोद्भवः ।
						भूर्भुवः स्वरितश्चैव ध्रुवो दान्तो महेश्वरः ॥
					 
					
						दीक्षितोऽदीक्षितः क्षान्तो दुर्दान्तोऽदान्तनाशनः ।
						चन्द्रावर्तयुगावर्तः संवर्तः संप्रवर्तकः ॥
					 
					
						कामो विन्दुरणुः स्थूलः कर्णिकारस्रजप्रियः ।
						नन्दीमुखो भीममुखः सुमुखो दुर्मुखोऽमुखः ॥
					 
					
						चतुर्मुखो बहुमुखो रणेष्वग्निमुखस्तथा ।
						हिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् ॥
					 
					
						अधर्महा महापार्श्वश्चण्डधारो गणाधिपः ।
						गोनर्दो गोप्रतारश्च गोवृषेश्वरवाहनः ॥
					 
					
						त्रैलोक्यगोप्ता गोविन्दो गोमार्गोऽमार्ग एव च ।
						श्रेष्ठः स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥
					 
					
						दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ।
						दुर्धर्पो दुष्प्रकम्पश्च दुर्विषो दुर्जयो जयः ॥
					 
					
						शशः शशाङ्कः शमनः शीतोष्णक्षुज्जराधिकृत् ।
						आधयो व्याधयश्चैव व्याधिहा व्याधिरेव च ॥
					 
					
						मम यज्ञमृगव्याधो व्याधीनामागमो गमः ।
						शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः ॥
					 
					
						दण्डधारस्त्र्यम्बकश्च उग्रदण्डोऽण्डनाशनः ।
						विषाग्निपाः सुरश्रेष्ठः सोमपास्त्वं मरुत्पतिः ॥
					 
					
						अमृतपास्त्वं जगन्नाथ देवदेव गणेश्वरः ।
							विषाग्निपा मृत्युपाश्च क्षीरपाः सोमपास्तथा ।
						
						मधुश्च्युतानामग्रपास्त्वं त्वमेव तुषिताद्यपाः ॥
						
					 
					
						हिरण्यरेताः पुरुषस्त्वमेव
							त्वं स्त्री पुमांस्त्वं च नपुंसकं च ।
						
						बालो युवा स्थविरो जीर्णदंष्ट्रस्त्वं
							नागेन्द्र शक्रस्त्वं विश्वकृद्विश्वकर्ता ॥
						
					 
					
						विश्वकृद्विश्वकृतां वरेण्यस्त्वं विश्वबाहो
							विश्वरूपस्तेजस्वी विश्वतोमुखः ।
						
						चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः ।
						
					 
					
						महोदधिः सरस्वती वाग्बलमनलोऽ
							निलः अहोरात्रं निमेषोन्मेषकर्मा ॥
						
					 
					
						न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते ।
						माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥
					 
					
						या मूर्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम् ।
						त्राहि मां सततं रक्ष पिता पुत्रमिवौरसम् ॥
					 
					
						रक्ष मां रक्षणीयोऽहं तवानघ नमोस्तु ते ।
						भक्तानुकम्पी भगवान्भक्तश्चाहं सदा त्वयि ॥
					 
					
						यः सहस्राण्यनेकापि पुंसामावृत्य दुर्दृशः ।
						तिष्ठत्येकः समुद्रान्ते स मे गोप्ताऽस्तु नित्यशः ॥
					 
					
						यं विनिद्रा जितश्वासाः सत्वस्थाः संयतेन्द्रियाः ।
						ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥
					 
					
						जटिले दण्डिने नित्यं लम्बोदरशरीरिणे ।
						कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥
					 
					
						यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ।
						कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥
					 
					
						संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते ।
						यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥
					 
					
						प्रविश्य वदनं राहोर्यः सोमं पिबते निशि ।
						ग्रसत्यर्कं च स्वर्भानुर्भूत्वा मां सोऽभिरक्षतु ॥
					 
					
						ये चानुपतिता गर्भा यथा भागानुपासते ।
						नमस्तेभ्यः स्वधा स्वाहा प्राप्नुवन्तु मुदं तु ते ॥
					 
					
						येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् ।
						रक्षन्तु ते हि मां नित्यं नित्यं चाप्याययन्तु माम् ॥
					 
					
						येन रोदन्ति देहस्था देहिनो रोदयन्ति च ।
						हर्षयन्ति न हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ॥
					 
					
						ये नदीषु समुद्रेषु पर्वतेषु गुहासु च ।
						वृक्षमूलेषु गोष्ठेषु कान्तारे गहनेषु च ॥
					 
					
						चतुष्पथेषु रथ्यासु चत्वरेषु तटेषु च ।
						हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥
					 
					
						येषु पञ्चसु भूतेषु दिशासु विदिशासु च ।
						चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥
					 
					
						रसातलगता ये च ये च तस्मै परं गताः ।
						नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्योस्तु नित्यशः ॥
					 
					
						येषां न विद्यते सङ्ख्या प्रमाणं रुपमेव च ।
						असंख्येयगुणा रुद्रा नमस्तेभ्योस्तु नित्यशः ॥
					 
					
						सर्वभूतकरो यस्मात्सर्वभूतपतिर्हरः ।
						सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥
					 
					
						त्वमेव हीज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः ।
						त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥
					 
					
						अथवा मायया देव सूक्ष्मया तव मोहितः ।
						एतस्मात्कारणाद्वाऽपि तेन त्वं न निमन्त्रितः ॥
					 
					
						प्रसीद मम भद्रं ते भव भावगतस्य मे ।
						त्वयि मे हृदयं देव त्वयि बुद्धिर्मनस्त्वयि ॥
					 
					
						स्तुत्वैवं स महादेवं विरराम प्रजापतिः ।
						भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥
					 
					
						परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत ।
						बहुनात्र किमुक्तेन मत्समीपे भविष्यसि ॥
					 
					
						अश्वमेधसहस्रस्य वाजपेयशतस्य च ।
						प्रजापते मत्प्रसादात्फलभागी भविष्यसि ॥
					 
					
						अथैनमब्रवीद्वाक्यं लोकस्याधिपतिर्भवः ।
						आश्वासनकरं वाक्यं वाक्यविद्वाक्यसंमितम् ॥
					 
					
						दक्ष दक्ष न कर्तव्यो मन्युर्विघ्नमिमं प्रति ।
						अहं यज्ञहरस्तुभ्यं दृष्टमेतत्पुरातनम् ॥
					 
					
						भूयश्च ते वरं दद्मि तं त्वं गृह्णीष्व सुव्रत ।
						प्रसन्नवदनो भूत्वा तदिहैकमनाः शृणु ॥
					 
					
						वेदात्षडङ्गादुद्धृत्य साङ्ख्ययोगाच्च युक्तितः ।
						तपः सुतप्तं विपुलं दुश्चरं देवदानवैः ॥
					 
					
						अपूर्वं सर्वतोभद्रं सर्वतोमुखमव्ययम् ।
						अब्दैर्दशाहसंयुक्तं गूढमप्राज्ञनिन्दितम् ॥
					 
					
						वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ।
						गतान्तैरध्यवसितमत्याश्रममिदं व्रतम् ॥
					 
					
						मया पाशुपतं दक्ष शुभमुत्पादितं पुरा ।
						तस्य चीर्णस्य तत्सम्यक्फलं भवति पुष्कलम् ॥
					 
					
						तच्चास्तु ते महाभाग त्यज्यतां मानसो ज्वरः ।
							एवमुक्त्वा महादेवः सपत्नीकः सहानुगः ।
						
						अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥
						
					 
					
						दक्षप्रोक्तं स्तवमिमं कीर्तयेद्यः शृणोति वा ।
						नाशुभं प्राप्नुयात्किंचिद्दीर्घमायुरवाप्नुयात् ॥
					 
					
						यथा सर्वेषु देवेषु वरिष्ठो भगवाञ्छिवः ।
						तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मसंमितः ॥
					 
					
						यशोराज्यसुखैश्वर्यकामार्थधनकाङ्क्षिभिः ।
						श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥
					 
					
						व्याधितो दुःखितो दीनश्चोरग्रस्तो भयार्दितः ।
						राजकार्याभियुक्तो वा मुच्यते महतो भयात् ॥
					 
					
						अनेनैव तु देहेन गणानां समतां व्रजेत् ।
						तेजसा यशसा चैव युक्तो भवति निर्मलः ॥
					 
					
						न राक्षसाः पिशाचा वा न भूता न विनायकाः ।
						विघ्नं कुर्युर्गृहे तस्य यत्रायं पठ्यते स्तवः ॥
					 
					
						शृणुयाच्चैव या नारी तद्भक्ता ब्रह्मचारिणी ।
						पितृपक्षे मातृपक्षे पूज्या भवति देववत् ॥
					 
					
						शृणुयाद्यः स्तवं कृत्स्नं कीर्तयेद्वा समाहितः ।
						तस्य सर्वाणि कर्माणि सिद्धिं गच्छन्त्यभीक्ष्णशः ॥
					 
					
						मनसा चिन्तितं यच्च यच्च वाचाऽनुकीर्तितम् ।
						सर्वं संपद्यते तस्य स्तवस्यास्यानुकीर्तनाम् ॥
					 
					
						देवस्य च गुहस्यापि देव्या नन्दीश्वरस्य च ।
						बलिं सुविहितं कृत्वा दमेन नियमेन च ॥
					 
					
						ततस्तु युक्तो गृह्णीयान्नामान्याशु यथाक्रमम् ।
						ईप्सिताँल्लभते सोर्थान्भोगान्कामांश्च मानवः ॥
					 
					
						मृतश्च स्वर्गमाप्नोति तिर्यक्षु च न जायते ।
						इत्याह भगवान्व्यासः पराशरसुतः प्रभुः ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवत्यधिकद्विशततमोऽध्यायः ॥ 290 ॥ 
					 12-290-12 वधं च संप्रपन्ना वै किन्तु कालस्येति ध. पाठः ॥ 12-290-24 क्षुभितो ह्युवाचेति ध. पाठः ॥ 12-290-28 यं ददामि वरारोहे योगार्थे
						इति ध. पाठः ॥ 12-290-41 प्रहरन्त्यध्वरे घोरा इति ध. पाठः ॥ 12-290-47
						क्षोभयन्त्यशुभैर्वकैरिति ध. पाठः ॥ 12-290-62 यज्ञघातविनिर्घातैः
						शिवाशतनिनादितैरिति ध. पाठः ॥ 12-290-63 वकस्थानेन पद्मासनापरपर्यायेण
						योगासनेन ॥ 12-290-69 तृणीकृतापविद्धं चेति ध. पाठः ॥ 12-290-78 स्वमिव येमिरे
						इति ध. पाठः ॥ 12-290-84 नमश्चण्डाय मुण़्डायेति ध. पाठः ॥ 12-290-85
						शुद्धायात्मकृताय चेति ध. पाठः ॥ 12-290-90 महामात्राय मन्त्रायेति ध. पाठः ॥ 12-290-97 बहुजिह्वाय दंष्ट्रिणि इति ध. पाठः ॥ 12-290-98 क्रिडक्रिडाय
						चण़्डायेति ध. पाठः ॥ 12-290-103 नमश्चण्डिकदण्डाय चण्डायादन्डदण़्डिने इति ध.
						पाठः ॥ 12-290-104 सहस्रधातुचण्डाय रुण़्डमालाप्रियाय चेति ध. पाठः ॥ 12-290-109 बालसूर्यधराय चेति ध. पाठः ॥ 12-290-110 बालातुराणां गोपायेति ध.
						पाठः ॥ 12-290-114 सांख्याय सांख्ययोगायेति ध. पाठः ॥ 12-290-116
						ईशानब्रह्मसंभूतेति ध. पाठः ॥