अध्यायः 317
भीष्मेण युधिष्ठिरंप्रति जगत्प्रलयप्रकारादिप्रतिपादकजनकयाज्ञवल्क्यसंवादानुवादः ॥ 1 ॥
याज्ञवल्क्य उवाच । 
					तत्त्वानां सर्गसङ्ख्या च कालसङ्ख्या तथैव च ।
						मया प्रोक्ताऽनुपूर्वेण संहारमपि मे शृणु ॥
					यता संहरते जन्तून्ससर्ज च पुनः पुनः ।
							अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ।
						
					अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा ।
						चोदयामास भगवानव्यक्तोऽहंकृतं नरम् ॥
					ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः ।
						कृत्वा द्वादशधाऽऽत्मानमादित्यो ज्वलदग्निवत् ॥
					चतुर्विधं प्रजाजातं निर्दहत्याशु तेजसा ।
						जराय्वण्डस्वेदजातमुद्भिज्जं स नराधिप ॥
					एतदुन्मेषमात्रेण विनष्टं स्थाणुजङ्गमम् ।
						कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ॥
					जगद्दग्ध्वाऽमितबलः केवलां जगर्ती ततः ।
						अम्भसा बलिना क्षिप्रमापूरयति सर्वशः ॥
					ततः कालाग्निमासाद्य तदम्भो याति संक्षयम् ।
						विनष्टेऽम्भसि राजेन्द्र जाज्वलत्यनलो महान् ॥
					तमप्रमेयातिबलं ज्वलमानं विभावसुम् ।
						ऊष्माणं सर्वभूतानां सप्ताचिंपमथाञ्जसा ॥
					भक्षयामास भगवान्वायुरष्टात्मको बली ।
						विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥
					तमप्रतिबलं भीममाकाशं ग्रसते पुनः ।
						आकाशमप्यभिनदन्मनो ग्रसति चारिकम् ॥
					मनो ग्रसति सर्वात्मा सोहंकारः प्रजापतिः ।
						अहंकारो महानात्मा भूतभव्यभविष्यवित् ॥
					तमप्यनुपमात्मानं विश्वं शंभुः प्रजापतिः ।
						अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥
					सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
						सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥
					हृदयं सर्वभूतानां पर्वणाऽङ्गुष्ठमात्रकः ।
						अणुग्रसत्यनन्तो हि महात्मा विश्वमीश्वरः ॥
					ततः समभवत्सर्वमक्षयाव्ययमव्रणम् ।
						भूतभव्यभविष्याणां स्रष्टारमनघं तथा ॥
					एषोप्ययस्ते राजेन्द्र यथावत्समुदाहृतः ।
						अध्यात्ममधिभूतं च श्रूयतां चाधिदैवतम् ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तदशाधिकत्रिशततमोऽध्यायः ॥ 317 ॥
12-317-4 संदधेऽयं महीमिति ड. थ. पाठः ॥ 12-317-8 पुत्रान्देवानिति ड. थ. पाठः । पुत्रान्पूर्वंमेव महानृषिरिति । पितॄणां पितर इति झ. पाठः ॥ 12-317-13 अन्योन्यस्य हिते रता इति झ. ध. पाठः ॥ 12-317-21 एतद्वशे हि भूतानीति ट. ड. थ. पाठः ॥
