अध्यायः 050
					अथ दानधर्मपर्व ॥ 1 ॥
					 भीष्मेण युधिष्ठिरम्प्रति स्त्रीस्वभावप्रदर्शनाय
						दृष्टान्ततयाऽष्टावक्रोपाख्यानकथनारम्भः ॥ अष्टावक्रेण भार्यात्वाय
						वदान्यंप्रति कन्यायाचनम् ॥ 2 ॥ तथा वदाव्यनियोगादुत्तरदिगन्तगमनम् ॥ 3 ॥
						तथोत्तरदिगभिमानिन्या जरतीरूप धारिण्या संवादः ॥ 4 ॥ 
					
						युधिष्ठिर उवाच । 
					
						यदिदं सहधर्मेति प्रोच्यते भरतर्षभ ।
						पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥
					 
					
						आर्ष एष भवेद्धर्मः प्राजापत्योऽथवाऽसुरः ।
						यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥
					 
					
						सन्देहः सुमहानेष विरुद्ध इति मे मतिः ।
						इह यः सहधर्मो वै प्रेत्यायं विहितः क्वनु ॥
					 
					
						स्वर्गो मृतानां भवति सहधर्मः पितामह ।
						पूर्वमेकस्तु म्रिय********कस्तिष्ठते वद ॥
					 
					
						नानाधर्मफलोपेता नानाकर्मनिवासिताः ।
						नानानिरयनिष्ठान्ता मानुपा बहवो यदा ॥
					 
					
						अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति ।
						यदाऽनृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥
					 
					
						अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते ।
						धर्मो यः पूर्विको दृष्ट उपचारः क्रियाविधिः ॥
					 
					
						गहरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् ।
						निःसन्देहमिदं सर्वं पितामह यथाश्रुतिः ॥
					 
					
						यदैतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् ।
						निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥
						भीष्म उवाच । 
					 
					
						अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
							अष्टावक्रस्य संवादं दिशया सह भारत ॥ i
					 
					
						निर्विष्टुकामस्तु पुरा अष्टावक्रो महातपाः ।
						ऋषेरथ वदान्यस्य वव्रे कन्यां महात्मनः ॥
					 
					
						सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि ।
						गुणप्रभावशीलेन चारित्रेण च शोभनाम् ॥
					 
					
						सा तस्यर्षेर्मनो दृष्टा जहार शुभलोचना ।
						वनराजी यथा चित्रा वसन्ते कुसुमाञचिता ॥
					 
					
						ऋषिस्तमाह देया मे सुता तुभ्यं हि तच्छृणु ॥
						
					 
					
						`अनन्यस्त्रीजनः प्राज्ञो ह्यप्रवासी प्रियंवदः ।
						सुरूपः सम्मतो वीरः शीलवान्भोगभुक्छुचिः ॥
					 
					
						दारानुमतयज्ञश्च सुनक्षत्रामथोद्वेहेत् ।
						सभृत्यः स्वजनोपेत इह प्रेत्य च मोदते ॥
					 
					
						गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥
						
						अष्टावक्र उवाच । 
					 
					
						किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् ।
						तथेदानीं मयो कार्यं यथा वक्ष्यति मां भवान् ॥
						वदान्य उवाच । 
					 
					
						धनदं समतिक्रम्य हिमवन्तं च पर्वतम् ।
						रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥
					 
					
						संहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः ।
						दिव्याङ्गरागैः पैशाचैरन्यैर्नानाविधैः प्रभोः ॥
					 
					
						पाणितालसुतालैश्च शम्पातालैः समैस्तथा ।
						सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥
					 
					
						इष्टं किल गिरौ स्थानं तद्दिव्यमिति शुश्रुम ।
						नित्यं सन्निहितो देवस्तथा ते पार्षदाः स्मृताः ॥
					 
					
						तत्र देव्या तपस्तप्तं सङ्करार्थं सुदुश्चरम् ।
						अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥
					 
					
						पूर्वे तत्र महापार्श्वे देवस्योत्तरतस्तथा ॥
						ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥
					 
					
						देवं चोपासते सर्वे रूपिणः किल तत्र ह ।
						तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥
					 
					
						ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसन्निभम् ।
						रमणीयं मनोग्राहि तत्र वै द्रक्ष्यसे स्त्रियम् ॥
					 
					
						तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् ।
						द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः ॥
					 
					
						तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि ।
						यद्येष समयः सर्वः साध्यतां तत्र गम्यताम् ॥
						अष्टावक्र उवाच । 
					 
					
						तथाऽस्तु साधयिष्यामि तत्र यास्याम्यसंशयम् ।
						यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् ॥
						भीष्म उवाच । 
					 
					
						ततोऽगच्छत्स भगवानुत्तरामुत्तरां दिशम् ।
						हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥
					 
					
						स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् ।
						अभ्यगच्छन्नदीं पुण्यां बाहुदां पुण्यदायिनीम् ॥
					 
					
						अशोके विमले तीर्थे स्नात्वा वै तर्प्य देवताः ।
						तत्र वासाय शयने कौशे सुखमुवास ह ॥
					 
					
						ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः ।
						स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैवं विधानतः ॥
					 
					
						रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् ।
						विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ॥
					 
					
						सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया ।
						मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ॥
					 
					
						अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् ।
						प्रत्युत्थिता भगवन्तं माणिभद्रपुरोगमाः ॥
					 
					
						स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् ।
						निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ॥
					 
					
						ते राक्षसास्तथा राजन्भगवन्तमथाब्रुवन् ।
						असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ॥
					 
					
						विदितो भगवानस्य कार्यमागमनस्य यत् ।
						पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ॥
					 
					
						ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् ।
						विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥
					 
					
						सुखं प्राप्तो भवान्कच्चित्किंवा मत्तश्चिकीर्षति ।
						ब्रूहि सर्वं करिष्यामि यन्मां वक्ष्यसि वै द्विज ॥
					 
					
						भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम ।
						सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ॥
					 
					
						प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् ।
						आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ॥
					 
					
						अथोपविष्टयोस्तत्र माणिभद्रपुरोगमाः ।
						निषेदुस्तत्र कौबेरा यक्षगन्धर्वकिन्नराः ॥
					 
					
						ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् ।
						भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ॥
					 
					
						आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा ।
						संवर्ततामित्युवाच मुनिर्मधुरया गिरा ॥
					 
					
						यथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा ।
						अलम्बुसा घृताची च चित्रा चित्राङ्गदारुचिः ॥
					 
					
						मनोहरा सुकेशी च सुमुखी हासिनी प्रभा ।
						विद्युता प्रशमी दान्ता विद्योता रतिरेव च ॥
					 
					
						एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः ।
						अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ॥
					 
					
						अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपाविशत् ।
						दिव्यं संवत्सरं तत्रारमतैष महातपाः ॥
					 
					
						ततो वैश्रवणो राजा भगवन्तमुवाच ह ।
						साग्रः संवत्सरो यातो विप्रेह तव पश्यतः ॥
					 
					
						हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः ।
						छन्दतो वर्ततां विप्र यथा वदति वा भवान् ॥
					 
					
						अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् ।
						सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ॥
					 
					
						अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत ।
						अर्चितोस्मि यथान्यायं गमिष्यामि धनेश्वर ॥
					 
					
						प्रीतोस्मि सदृशं चैव तव सर्वं धनाधिप ।
							तव प्रसादाद्भगवन्महर्षेश्च महात्मनः ।
						
						नियोगादद्य यास्यामि वृद्दिमानृद्धिमान्भव ॥
						
					 
					
						अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः ।
						`कैलासे सङ्करावासमभिवीक्ष्य प्रणम्य च ॥
					 
					
						गौरीशं शङ्करं दान्तं शरणागतवत्सलम् ।
							गङ्गाधरं गोपतिनं गणावृतमकल्पषम् ॥'
						
					 
					
						कैलासं मन्दरं हैमं सर्वाननुचचार ह ।
						तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् ॥
					 
					
						प्रदक्षिणं तथा चक्रे प्रयतः शिरसा नतः ।
						धरणीमवतीर्याथ पूतात्माऽसौ तदाऽभकवत् ॥
					 
					
						स तं प्रदक्षिणं कृत्वा निर्यातश्चोत्तरामुखः ।
						समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ॥
					 
					
						ततोऽपरं वनोद्देशं रमणीयमपश्यत ।
							सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितैः ।
						
						रमणीयैर्वनोद्देशैस्तत्रतत्र विभूषितम् ॥
						
					 
					
						तत्राश्रमपदं दिव्यं ददर्श भगवानथ ॥
						
					 
					
						शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् ।
						मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ॥
					 
					
						अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ ।
						भृशं तस्य मनो रमे महर्षेर्भावितात्मनः ॥
					 
					
						स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् ।
						ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम् ॥
					 
					
						महान्तो यत्र विविधा मणिकाञ्चनपर्वताः ।
						विमानानि च रम्याणि रत्नानि विविधानि च ॥
					 
					
						मन्दारपुष्पैः सङ्कीर्णां तथा मन्दाकिनीं नदीम् ।
						स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ॥
					 
					
						नानाविधैश्च भवनैर्विचित्रमणितोरणैः ।
						मुक्ताजालविनिक्षिप्तैर्मणिरत्नविभूषितैः ॥
					 
					
						मनोद्दष्टिहरै रम्यैः सर्वतः संवृतं शुभैः ।
						ऋषिभिश्चावृतं तत्र आश्रमं तं मनोहरम् ॥
					 
					
						ततस्तस्याभवच्चिन्ता कुत्र वासो भवेदिति ।
						अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् ॥
					 
					
						अतिथिं समनुप्राप्तमभिजानन्तु येऽत्र वै ॥
						
					 
					
						अथ कन्याः परिवृता गृहात्तस्माद्विनिर्गताः ।
						नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ॥
					 
					
						यांयामपश्यत्कन्यां वै सासा तस्य मनोऽहरत् ।
							न च शक्तो वारयितुं मनोऽस्याथावसीदति ।
						
						ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः ॥
						
					 
					
						अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति ।
							स च तासां सुरुपेण तस्यैव भवनस्य च ।
						
						कौतूहलं समाविष्टः प्रविवेश गृहं द्विजः ॥
						
					 
					
						तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् ।
						वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् ॥
					 
					
						स्वस्तीति तेन चैवोक्ता सा स्त्री प्रत्यवदत्तदा ।
						प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ॥
						अष्टावक्र उवाच । 
					 
					
						सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु ।
						प्रज्ञाता या प्रशान्ता या शेषा गच्छन्तु च्छन्दतः ॥
					 
					
						ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा ।
							निश्चक्रमुर्गृहात्तस्मात्सा वृद्धाऽथ व्यतिष्ठतः ।
						
						तया सम्पूजितस्तत्र शयने चापि निर्मले ॥
						
					 
					
						अथ तां संविशन्प्राह शयने भास्वरे तदा ।
						त्वयाऽपि सुप्यतां भद्रे रजनी ह्यतिवर्तते ॥
					 
					
						संलापात्तेन विप्रेण तथा सा तत्र भाषिता ।
						द्वितीये शयने दिव्ये संविवेश महाप्रभे ॥
					 
					
						अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा ।
						व्यपदिश्य महर्षेर्वै शयनं व्यवरोहत ॥
					 
					
						स्वागतेनागतां तां तु भगवानभ्यभाषत ।
						सा जुगूह भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ॥
					 
					
						निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा ।
						दुखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह ॥
					 
					
						ब्रह्मन्नकामकरोस्ति स्त्रीणां पुरुषतो धृतिः ।
						कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् ॥
					 
					
						प्रहृष्टो भव विप्रर्षे समागच्छ मया सह ।
						उपगूह च भां विप्र कामार्ताऽहं भृशं त्वयि ॥
					 
					
						एतद्वि तव धर्मात्मंस्तपसः पूज्यते फलम् ।
						प्रार्थितं दर्शनादेव भजमानां भजस्व माम् ॥
					 
					
						सद्म चेदं धनं सर्वं यच्चान्यदपि पश्यसि ।
						प्रभुस्त्वं भव सर्वत्र मयि चैव न संशयः ॥
					 
					
						सर्वान्कामान्विधास्यामि रमस्व सहितो मया ।
						रमणीये वने विप्र सर्वकामफलप्रदे ॥
					 
					
						त्वद्वशाऽहं भविष्यामि रंस्यसे च मया सह ।
						सर्वान्कामानुपाश्नीमो ये दिव्या ये च मानुषाः ॥
					 
					
						नातः परं हि नारीणां विद्यते च कदाचन ।
						यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥
					 
					
						आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।
						न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥
						अष्टावक्र उवाच । 
					 
					
						परदारानहं भद्रे न गच्छेयं कथञ्चन ।
						दूषितं धर्मशास्त्रज्ञैः परदाराभिमर्शनम् ॥
					 
					
						`शुद्धक्षेत्रे ब्रह्महत्याप्रायश्चित्तमथोच्यते ।
						पुनश्च पातकं दृष्टं विप्रक्षेत्रे विशेषतः' ॥
					 
					
						भद्रे निर्वेष्टुकामोऽहं तत्रावकिरणं मम ।
						`प्रायश्चित्तं महदतो दारग्रहणपूर्वकम् ॥
					 
					
						बीजं न शुद्ध्यते वोढुरन्यथा कृतनिष्कृतेः ।
							मातृतः पितृतः शुद्धो ज्ञेयः पुत्रो यथार्थतः ॥'
						
					 
					
						विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः ।
						एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः ॥
					 
					
						भद्रे धर्मं विजानीहि ज्ञात्वा चोपरमस्व ह ॥
						
						स्त्र्युवाच । 
					 
					
						नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज ।
						प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ॥
					 
					
						सहस्रे किल नारीणां प्राप्येतैका कदाचन ।
						तथा शतसहस्रेषु यदि काचित्पतिव्रता ॥
					 
					
						नैता जानन्ति पितरं न कुलं न च मातरम् ।
						न भ्रातॄन्न च भर्तारं न च पुत्रान्न देवरान् ॥
					 
					
						लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः ।
						दोषान्सर्वाश्च मत्वाऽऽशु प्रजापतिरभाषत ॥
						भीष्म उवाच । 
					 
					
						ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत ।
						आस्यतांरुचितश्छन्दः किञ्च कार्यं ब्रवीहि मे ॥
					 
					
						सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः ।
						वस तावन्महाभाग कृतकृत्यो भविष्यसि ॥
					 
					
						ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर ।
						वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ॥
					 
					
						अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयाऽर्दिताम् ।
						चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् ॥
					 
					
						यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा ।
						नारमत्तत्रतत्रास्य दृष्टी रूपविरागिता ॥
					 
					
						देवतेयं गृहस्यास्य शापात्किंनु विरूपिता ।
						अस्याश्च कारणं वेत्तुं न युक्तं सहसा भया ॥
					 
					
						इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः ।
						व्यगमद्रात्रिशेषः स मनसा व्याकुलेन तु ॥
					 
					
						अथ सा स्त्री तथोवाच भगवन्पश्य वै रवेः ।
						रूपं सन्ध्याभ्रसंरक्तं किमुपस्थाप्यतां तव ॥
					 
					
						स उवाच ततस्तां स्त्रीं स्नानोदकमिहानय ।
						उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः ॥ ॥
					 
					 इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥ 
					 7-50-1 सहोभौ चरतां धर्मं क्षौमे वसानौ जायापती
						अग्निमादधीयातामिति धर्मपत्नीसाहित्यं शास्त्रे दृश्यमानमाक्षिपति यदिदमिति ।
						पाणग्रहणात्प्राक्साहित्याभावात्सहोभाविति वाक्यं व्याकुप्येतेति भावः ॥ 7-50-3
						इहैव साहित्यं दंपत्योर्दृश्यते परलोके तयोः साहित्यं क्वनु । न क्वापीत्यर्थः ॥ 7-50-6 सूत्रकारो धर्मप्रवक्ता । अनृतं साहसं माया मूर्खत्वमतिलोभतेति
						स्त्रीधर्मानाह ॥ 7-50-8 गह्वरं गहनं दुर्बोधमित्यर्थः ॥ 7-50-10 दिशया
						दिगभिमानिदेवतया ॥ 7-50-11 निर्वेष्टुकामः दारसंग्रहार्थी ॥ 7-50-21 तालैः
						कांस्यमयैर्वाद्यभाण्डैः । शम्पातालैः विद्युद्वदतिचपलैर्भ्रमणादिघटितैः
						गीतनृत्यक्रियामानविशेषैः । समैर्भ्रमणादिरहितैस्तैरेव ॥ 7-50-24 महापार्श्वे
						पर्वते । ततः कोपो महान्पार्श्वे इति ट. थ. पाठः । ततः कालो महान्पार्श्वे इति ध.
						पाठः ॥ 7-50-30 उत्तरां श्रेष्ठाम् ॥ 7-50-45 भवच्छन्दं भवदिच्छाम् ॥ 7-50-52
						हार्यः हरतीति हार्यः ॥ 7-50-54 भगवान् अष्टावक्रः ॥ 7-50-55
						वृद्धिरुपचयस्तद्वान् । ऋद्धिः सम्पत् तद्वान् ॥ 7-50-58 कैरातं किरातवेषधारिणो
						महादेवस्य सम्बन्धि ॥ 7-50-59 धरणीमवतीर्येत्यनेनाकाशमार्गेणाष्टावक्रो
						गच्छतीति गम्यते ॥ 7-50-72 सप्त इतरदिग्देवताः ॥ 7-50-75 उत्तराधिष्ठात्री तु
						देवता मुख्याऽष्टमी सैव जरायुक्ता ॥ 7-50-77 प्रज्ञाता अत्यन्तं ज्ञानवती ।
						प्रशान्ता निर्जितचिता ॥ 7-50-82 जुगूह आलिङ्गितवती ॥ 7-50-84
						ब्रह्मन्नकामतोऽन्यास्तीति झ. पाठः । तत्र अकामतोऽनिच्छातः स्वभावत इत्यर्थः ।
						पुरुषतः पुरुषं प्राप्य स्त्रीणां धृतिर्धैर्यमन्या परकीयास्ति ।पुंयोगे
						स्त्रीणां धृतिः स्वकीया सर्वथा नास्तीत्यर्थः ॥ 7-50-85 प्रहृष्टः कामुको भव ।
						उपनृह अलिङ्गस्व ॥ 7-50-96 अनभिज्ञोऽप्रीतिमान् ॥ 7-50-101 लीलायन्त्यः लीलां
						रतिमात्मन इच्छन्त्यः दोषांश्च मन्दान्मन्दासुः प्रजापतिरभाषत इति ध. पाठः ॥ 7-50-102 एकाग्रः स्त्रीदोषाननुसन्दधानः स्त्रियम्प्रति आस्यता तूण्णीं
						स्थीयताम् । रुचितः रुचिं प्राप्य छन्दः इच्छा भवतीति अभाषत । त्वं रुचिज्ञा
						मामिच्छसि अहं त्वरुचिज्ञो न त्वां स्फुष्टुमिच्छामीति भावः । एवमपि यत्कार्यं
						कर्तव्यं तव तन्मे ब्रवीहि ॥ 7-50-103 द्रक्ष्यसे स्पर्शसुखं ज्ञायसे ॥ 7-50-106 रूपे विरागिता वैराग्यवती दृष्टिर्नारमत् न रेमे ॥ 7-50-108
						व्यगच्छत्तदहःशेष इति झ.पाठः ॥ 
					
					
					
					
					श्रीः