अध्यायः 076
अथ दानधर्मपर्व ॥ 1 ॥
इन्द्रेण देवशर्ममुन्यसन्निधाने तद्भार्याविलोभनाय तदाश्रमाभिगमनम् ॥ 1 ॥ तथा विपुलतपोऽभिभूतेन भयात्ततो निर्गमनम् ॥ 2 ॥ विपुलेन शक्रवृत्तान्तनिवेदनतुष्टाद्गुरोर्वरग्रहणपूर्वकं तपश्चरणम् ॥ 3 ॥
भीष्म उवाच ।
ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः ।
						इदमन्तरमित्येवमभ्यगात्तमथाश्रमम् ॥
					रूपमप्रतिमं कृत्वा लोभनीयं जनाधिपः ।
						दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ॥
					स ददर्श तमासीनं विपुलस्य कलेबरम् ।
						निश्चेष्टं स्तब्धनयनं यताऽऽलेख्यगतं तथा ॥
					रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् ।
						पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम् ॥
					सा तमालोक्य सहसा प्रत्युत्तातुमियेष ह ।
						रूपेण विस्मिता कोऽसीत्यथ वक्तुमिवेच्छती ॥
					उत्थातुकामा तु सती विष्टव्धा विपुलेन सा ।
						निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ॥
					तामाबभाषे देवेन्द्रः साम्ना परमवल्******* ।
						त्वदर्थमागतं विद्धि देवेन्द्र मां शुचिस्मिते ॥
					क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पभवेन ह ।
						तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते ॥
					तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः ।
						गुरुपत्नयाः शरीरस्थो ददर्श त्रिदसाधिपम् ॥
					न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता ।
						वक्तुं च नाशकद्राजन्विष्टब्दा विपुलेन सा ॥
					आकारं गुरुपत्न्यास्तु स विज्ञाय भृगूद्वहः ।
							निजय्नाह महातेजा योगेन बलवत्प्रभो ।
						
						बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ॥
						
					तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः ।
						उवाच व्रीहितो राजंस्तां योगबलमोहिताम् ॥
					एह्येहीति ततः सा तु प्रतिवक्तुमियेष तम् ।
						स तां वाच्यं गुरोः पत्न्या विपुलः पर्यवर्तयत् ॥
					भोः किमागमने कृत्यमिति तस्यास्तु निःसृता ।
						वक्त्राच्छशाङ्कसदृशाद्वाणी संस्कारभूषणा ॥
					वीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा ।
						पुरन्दरश्च संत्रस्तो बभूव विमना भृशम् ॥
					स तद्वैकृतमालक्ष्य देवराजो विशांपते ।
						अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा ॥
					स ददर्श मुनिं तस्याः शरीरान्तरगोचरम् ।
						प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् ॥
					स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः ।
						प्रावेपत सुसंत्रस्तो व्रीडितश्च तदा विभो ॥
					विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः ।
						स्वकलेबरमाविश्य शक्रं भीतमथाब्रवीत् ॥
					अजितेन्द्रिय दुर्बुद्धे पापात्मक पुरंदर ।
						न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ॥
					किन्नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् ।
						गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ॥
					जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् ।
						मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ॥
					नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा ।
						कृपायमानस्तु न ते दग्धुमिच्छामि वासव ॥
					स च घोरतमो धीमान्गुरुर्मे पापचेतसम् ।
						दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥
					नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः ।
						मा गमः ससुतामात्यः क्षयं ब्रह्मबलार्दितः ॥
					अमरोस्मीति यद्बुद्धिं समास्थाय प्रवर्तते ।
						मावमंस्था न तपसा न साध्यं नाम किञ्चन ॥
						भीष्म उवाच । 
					तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः ।
						न किञ्चिदुक्त्वा व्रीडार्तस्तत्रैवान्तरधीयत ॥
					मुहूर्तयाते तस्मिंस्तु देवशर्मा महातपाः ।
						कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ॥
					आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् ।
						रक्षितां गुरेव भार्यां न्यवेदयदनिन्दिताम् ॥
					अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः ।
						विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ॥
					विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया ।
						निवेदयामास तदा विपुलः शक्रकर्म तत् ॥
					तच्छुत्वा स मुनिस्तुष्टों विपुलस्य प्रतापवान् ।
						बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥
					विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि तत्प्रभुः ।
						धर्मे च स्थिरतां दृष्ट्वा साधुसाध्वित्यभाषत ॥
					प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् ।
						वरेण च्छन्दयामास देवशर्मा महामतिः ॥
					स्थितिं च धर्मे जग्राह स तस्माद्गुरुवत्सलः ।
						अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥
					तथैव देवशर्मापि सभार्यः स महातपाः ।
						निर्भयो बलवृत्रघ्नाच्चचार विजने वने ॥ ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्सप्ततितमोऽध्यायः ॥ 76 ॥
7-76-20 कामात्मक पुरन्दरेति ध.पाठः ॥
श्रीः
