अध्यायः 235
अथ दानधर्मपर्व ॥ 1 ॥
परमेश्वरेण पार्वतींप्रति अन्नस्वर्णगोभूकन्याविद्यादानानां महिमप्रतिपादनम् ॥ 1 ॥
उमोवाच ।
भगवन्कानि देयानि धर्ममुद्दिश्य मानवैः ।
						तान्यहं श्रोतुमिच्छामि तन्मे शंसितुमर्हसि ॥
						महेश्वर उवाच । 
					अजस्रं धर्मकार्यं च तथा नैमित्तिकं प्रिये ।
						अन्नं प्रतिश्रयो दीपः पानीयं तृणमिन्धनम् ॥
					स्नेहो गन्धश्च भैषज्यं तिलाश्च लवणं तथा ।
						एवमादि तथाऽन्यश्च दानमाजस्रमुच्यते ॥
					अजस्रदानात्सततमाजस्रमिति निश्चितम् ।
						सामान्यं सर्ववर्णानां दानं शृणु समाहिता ॥
					अन्नं प्राणो मनुष्याणामन्नदः प्राणदो भवेत् ।
						तस्माकदन्नं विशेषेण दातुमिच्छति मानवः ॥
					ब्राह्मणायाभिरूपाय यो दद्यादन्नमीप्सितम् ।
						निदधाति निधिं श्रेष्ठं सोऽनन्तं पारलौकिकम् ॥
					श्रान्तमध्वपरिश्रान्तमतिथिं गृहमागतम् ।
						अर्चयीत प्रयत्नेन स हि यज्ञो वरप्रदः ॥
					कृत्वा तु पातकं कर्म यो दद्यादन्नमर्थिनाम् ।
						ब्राह्मणानां विशेषेण सोपहन्ति स्वकं तमः ॥
					पितरस्तस्य नन्दन्ति सुवृष्ट्या कर्षका इव ।
						पुत्रो यस्य तु पौत्रो वा श्रोत्रियं भोजयिष्यति ॥
					अपि चण्डालशूद्राणामन्नदानं न गर्हते ।
						तस्मात्सर्वप्रयत्नेन दद्यादन्नममत्सरः ॥
					कलत्रं पीडयित्वाऽपि पोषयेदतिथीन्सदा ।
						जन्मापि मानुषे लोके तदर्थं हि विधीयते ॥
					अन्नदानाच्च लोकांस्तान्सम्प्रवक्ष्याम्यनिन्दिते ।
						भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥
					अनेकशतभौमानि सान्तर्जलवनानि च ।
						वैडूर्यार्चिःप्रकाशपनि हेमरूप्यमयानि च ॥
					नानारूपाणि संस्थानां नानारत्नमयानि च ।
						चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ॥
					तरुणादित्यवर्णानि स्थावराणि चराणि च ।
						यथेष्टभक्ष्यभोज्यानि शयनासनवन्ति च ॥
					सर्वकामफलाश्चात्र वृक्षा भवनसंस्थिताः ।
						वाप्यो बह्व्यश्च कूपाश्च दीर्घिकाश्च सहस्रशः ॥
					अरुजानि विशोकानि नित्यानि विविधानि च ।
						भवनानि विचित्राणि प्राणदानां त्रिविष्टपे ॥
					विवस्वतश्च सोमस्य ब्रह्मणश्च प्रजापतेः ।
						विशन्ति लोकांस्ते नित्यं जगत्यन्नोदकप्रदाः ॥
					तत्र ते सुचिरं कालं विहृत्याप्सरसां गणैः ।
						जायन्ते मानुषे लोके सर्वकल्याणसंयुताः ॥
					बलसंहननोपेता नीरोगाश्चिरजीविनः ।
						कुलीना मतिमन्तश्च भवन्त्यन्नप्रदा नराः ॥
					तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता ।
						सर्वकालं च सर्वस्य सर्वत्र च सदैव च ॥
					सुवर्णदानं परमं स्वर्ग्यं स्वस्त्ययनं महत् ।
						तस्मात्ते वर्णयिष्यामि यथावदनुपूर्वशः ॥
					अपि पापकृतं क्रूरं दत्तं रुक्मं प्रकाशयेत् ॥
						
					सुवर्णं ये प्रयच्छन्ति श्रोत्रिभेभ्यः सुचेतसः ।
						देवतास्ते तर्पयन्ति समस्ता इति वैदिकम् ॥
					अग्निर्हि देवताः सर्वाः सुवर्णं चाग्निरुच्यते ।
						तस्मात्सुवर्णदानेन तृप्ताः स्युः सर्वदेवताः ॥
					अग्न्यभावे तु कुर्वन्ति वह्निस्थानेषु काञ्चनम् ।
						तस्मात्सुवर्णदातारः सर्वान्कामानवाप्नुयुः ॥
					आदित्यस्य हुताशस्य लोकान्नानाविधाञ्शुभान् ।
						काञ्चनं सम्प्रदायाशु प्रविशन्ति न संशयः ॥
					अलङ्कारं कृतं चापि केवलान्प्रविशिष्यते ।
						सौवर्णैर्ब्राह्मणं काले तैरलङ्कृत्य भोजयेत् ॥
					य एतत्परमं दानं दत्त्वा सौवर्णमद्भुतम् ।
						द्युतिं मेधां वपुः कीर्तिं पुनर्जाते लबेद्ध्रुवम् ॥
					तस्मात्स्वशक्त्या दातव्यं काञ्चनं भुवि मानवैः ।
						न ह्येतस्मात्परं लोकेष्वन्यत्पापात्प्रमुच्यते ॥
					अत ऊर्ध्वं प्रवक्ष्यामि गवां दानमनिन्दिते ।
						नहि गोभ्यः परं दानं विद्यते जगति प्रिये ॥
					लोकान्सिसृक्षुणा पूर्वं गावः सृष्टाः स्वयंभुवा ।
						वृत्त्यर्थं सर्वभूतानां तस्मात्ता मातरः स्मृताः ॥
					लोकज्येष्ठा लोकवृत्त्या प्रवृत्ता
							मय्यायत्ताः सोमनिष्यन्दभूताः ।
						
						सौम्याः पुण्याः प्राणदाः कामदाश्च
							तस्मात्पूज्याः पुण्यकामैर्मनुष्यैः ॥
						
					धेनुं दत्त्वा निभृतां सुशीलां
							कल्याणवत्सां च पयस्विनीं च ।
						
						यावन्ति रोमाणि भवन्ति तस्या-
							स्तावत्समाः स्वर्गफलानि भुङ्क्ते ॥
						
					प्रयच्छते यः कपिलां सचेलां
							सकांस्यदोहां कनकाग्र्यशृङ्गीम् ।
						
						पुत्राश्च पौत्रांश्च कुलं च सर्व-
							मासप्तमं तारयते परत्र च ॥
						
					अन्तर्जाताः क्रीतका द्यूतलब्धाः ।
							प्राणक्रीताः सोदकाश्चौजसा वा ।
						
						कृच्छ्रोत्सृष्टाः पोषणार्थागताश्च
							द्वारैरेतैस्ताः प्रलब्धाः प्रदद्यात् ॥
						
					कृसाय बहुपुत्राय श्रोत्रियायाहिताग्नये ।
						प्रदाय नीरुजां धेनुं लोकान्प्राप्नोत्यनुत्तमान् ॥
					नृशंसस्य कृतघ्नस्य लुब्धस्यानृतवादिनः ।
						हव्यकव्यव्यपेतस्य न दद्याद्गाः कथञ्चन ॥
					समानवत्सां यो दद्याद्धेर्नुं विप्रे पयस्विनीम् ।
						सुवृत्तां वस्त्रसंछन्नां सोमलोके महीयते ॥
					समानवत्सां यो दद्यात्कृष्णां धेनुं पयस्विनीम् ।
						सुवृत्तां वस्त्रसंछन्नां लोकान्प्राप्नोत्यपांपतेः ॥
					हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् ।
						प्रदाय वस्त्रसम्पन्नां यान्ति कौकबेरसद्मनः ॥
					वायुरेणुसवर्मां च सवत्सां कांस्यदोहनाम् ।
						प्रदाय वस्त्रसम्पन्नां वायुलोके महीयते ॥
					समानवत्सां यो धेनुं दत्त्वा गौरीं पयस्विनीम् ।
						सुवृत्तां वस्त्रसंछन्नामग्निलोके महीयते ॥
					युवानं बलिनं श्यामं शतेन सह यूथपम् ।
						गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलंकृतम् ॥
					ऋषभं ये प्रयच्छन्ति श्रोत्रियाणां महात्मनाम् ।
						ऐश्वर्यमभिजायन्ते जायमानाः पुनःपुनः ॥
					गवां मूत्रपुरीषाणि नोद्विजेन कदाचन ।
						न चासां मांसमश्नीयाद्गोषु भक्तः सदा भवेत् ॥
					ग्रासमुष्टिं परगवे दद्यात्संवत्सरं शुचि ।
						अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥
					गवामुभयतः काले नित्यं स्वस्त्ययनं वदेत् ।
						न चासां चिन्तयेत्पापमिति धर्मविदो विदुः ॥
					गावः पवित्रं परमं गोषु लोकाः प्रतिष्ठिताः ।
						कथञ्चिन्नावमन्तव्या गावो लोकस्य मातरः ॥
					तस्मादेव गवां दानं विशिष्टमिति कथ्यते ।
						गोषु पूजा च भक्तिश्च नरस्यायुष्यतां वहेत् ॥
					अतःपरं प्रवक्ष्यामि भूमिदानं महाफलम् ।
						भूमिदानसमं दानं लोके नास्तीति निश्चयः ॥
					गृहयुक्क्षेत्रयुग्वाऽपि भूमिभागः प्रदीयते ।
						सुखभोगं निराक्रोशं वास्तुपूर्वं प्रकल्प्य च ॥
					ग्रहीतारमलङ्कृत्य वस्त्रपुष्पानुलोपनैः ।
							सभृत्यं सपरीवारं भोजयित्वा यथेष्टतः ।
						
						यो दद्याद्दक्षिणां काले त्रिरद्भिर्गृह्यतामिति ॥
						
					एवं भूम्यां प्रदत्तायां श्रद्धया वीतमत्सरैः ।
						यावत्तिष्ठति सा भूमिस्तावद्दत्तफलं विदुः ॥
					भूमिदः स्वर्गमारुह्य रमते शाश्वतीः समाः ।
						अचला ह्यक्षया भूमिः सर्वकामान्दुधुक्षति ॥
					यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्शितः ।
						अपि गोकर्णमात्रेण भूमिदानन मुच्यते ॥
					सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च ।
						सर्वमेतन्महाभागे भूमिदाने प्रतिष्ठितम् ॥
					भर्तुर्निः श्रेयसे युक्तास्त्यक्तात्मानो रणे हताः ।
						ब्रह्मलोकाय संसिद्धा नातिक्रामन्ति भूमिदम् ॥
					हलकृष्टां महीं दद्यात्सर्वबीजफलान्विताम् ।
						सुकूपशरणां वाऽपि सा भवेत्सर्वकामदा ॥
					निष्पन्नसस्यां पृथिवीं यो ददाति द्विजन्मनाम् ।
						विमुक्तः कलुषैः सर्वैः शकलोकं स गच्छति ॥
					यथा जनित्री क्षीरेणि स्वपुत्रमभिवर्धयेत् ।
						एवं सर्वफलैर्भूमिर्दातारमभिवर्धयेत् ॥
					ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम् ।
						ग्राहयित्वा निजां भूमिं न यान्ति यमसादनम् ॥
					यथा चन्द्रमसो वृद्धिरहन्यहनि दृश्यते ।
						तथा भूमेः कृतं दानं सस्येसस्ये विवर्धते ॥
					यथा बीजानि रोहन्ति प्रकीर्णानि महीतले ।
						तथा कामाः प्ररोहन्ति भूमिदानगुणार्जिताः ॥
					पितरः पितृलोकस्था देवताश्च दिवि स्थिताः ।
						सन्तर्पयन्ति भोगैस्तं यो ददाति वसुन्धराम् ॥
					दीर्घायुष्यं वराङ्गत्वं स्फीतां च श्रियमुत्तमाम् ।
						परत्र लभते मर्त्यः सम्प्रदाय वसुन्धराम् ॥
					एतत्सर्वं मयोद्दिष्टं भूमिदानस्य यत्फलम् ।
						श्रद्दधानैर्नरैर्नित्यं श्राव्यमेतत्सनातनम् ॥
					अतः परं प्रवक्ष्यामि कन्यादानं यथाविधि ।
						कन्या देया महादेवि परेषामात्मनोपि वा ॥
					कन्यां शुद्धव्रताचारां कुलरूपसमन्विताम् ।
						यस्मै दित्सति पात्राय तेनापि भृशकामिताम् ॥
					प्रथमं तत्समाकल्प्य बन्धुभिः कृतनिश्चयः ।
						कारयित्वा गृहं पूर्वं दासीदासपरिच्छदैः ॥
					गृहोपकरणैश्चैव पशुधान्येन संयुताम् ।
						तदर्थिने तदर्हाय कन्यां तां समलङ्कृताम् ॥
					सविवाहं यथान्यायं प्रचच्छेदग्निसाक्षिकम् ।
						वृत्त्यातीं यथा कृत्वा सद्गृहे तौ निवेशयेत् ॥
					एवं कृत्वा वधूदानं तस्य दानस्य गौरवात् ।
						प्रेत्यभावे महीयेत स्वर्गलोके यथासुखम् ॥
					पुनर्जातस्य सौभाग्यं कुलवृद्धिं तथाऽऽप्नुयात् ॥
						
					विद्यादानं तथा देवि पात्रभूताय वै ददत् ।
						प्रेत्यभावे लभेन्मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम् ॥
					अनुरूपाय शिष्याय यश्च विद्यां प्रयच्छति ।
						यथोक्तस्य प्रदानस्य फलमानन्त्यमश्नुते ॥
					दापनं त्वथ विद्यानां दरिद्रेभ्योऽर्थवेदनैः ।
						स्वयं दत्तेन तुल्यं स्यादिति विद्धि शुभानने ॥
					एवं ते कथितान्येव महादानानि मानिनि ।
						त्वत्प्रियार्थं मया देवि भूयः श्रोतुं किमिच्छसि ॥ ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ 235 ॥
श्रीः
