अध्यायः 262
अथ दानधर्मपर्व ॥ 1 ॥
वायुना हैहयंप्रति देवानां प्रार्थनया अग्निसर्जनेन कपहननरूपब्राह्मणमहिमोक्तिः ॥ 1 ॥
भीष्म उवाच ।
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः ।
						शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ॥
					मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः ।
						तदैव च्यवनेन द्यौर्हृता तेषां वसुन्धरा ॥
					उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताऽभवन् ।
						शोकार्ताश्त महात्मानं ब्रह्माणं शरणं ययुः ॥
						देवा ऊचुः । 
					मदास्यव्यतिषिक्तानामस्माकं लोकपूजित ।
						च्यवनेन हृता भूमिः कपैश्चैव दिवं प्रभो ॥
						ब्रह्मोवाच । 
					गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः ।
						प्रसाद्य तानुभौ लोकाववाप्स्यथ यथापुरम् ॥
					ते ययुः शरणं विप्रानूचुस्ते काञ्जयामहे ।
						इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ॥
					भूगतान्हि विजेतारो वयमित्यब्रुवन्द्विजाः ।
						ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् ॥
					तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः ।
						स च तान्ब्राह्मणानाह धनी कपवचो यथा ॥
					भवद्भिः सदृशः सर्वे कपाः किमिह वर्तते ।
						सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः ॥
					सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ।
						श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते ॥
					वृथा दारान्न गच्छन्ति वृथा मांसं न भुञ्जते ।
						दीप्तमग्निं जुह्वते च गुरूणां वचने स्थिताः ॥
					सर्वे च नियतात्मानो बालानां संविभागिनः ।
							उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम् ।
						
						स्वर्गातिं चैव गच्छन्ति तथैव शुभकर्मिणः ॥
						
					अभुक्तवत्सु नाश्नन्ति गर्भिणीवृद्धकादिषु ।
						पूर्वाह्णेषु न दीव्यन्ति दिवा चैव न शेरते ॥
					एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् ।
						विजेष्यथ निवर्तध्वं निवृत्तानां सुखं हि वः ॥
						ब्राह्मणा ऊचुः । 
					कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः ।
						तस्माद्वध्याः कपाऽस्माकं धनिन्याहि यथागतम् ॥
					धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः ।
						गृहीत्वाऽस्त्राण्यतो विप्रान्कपाः सर्वे समाद्रवन् ॥
					समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः ।
						व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ॥
					ब्रह्मसृष्टा हव्यभुजः कपान्हत्वा सनातनाः ।
						नभसीव यथाऽभ्राणि व्यराजन्त नराधिप ॥
					हत्वा वै दानवान्देवाः सर्वे सम्भूय संयुगे ।
						ते नाभ्यजानन्हि तदा ब्राह्मणैर्निहतान्कपान् ॥
					अथागम्य महातेजा नारदोऽकथयद्विभो ।
						यथा हता महाभागैस्तेजसा ब्राह्मणैः कपाः ॥
					नारदस्य वचः श्रुत्वा प्रीताः सर्वे दिवौकसः ।
						प्रशशंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः ॥
					तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः ।
						अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ॥
					इत्युक्तवचनं वायुमर्जुनः प्रत्युवाच ह ।
						प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप ॥
						अर्जुन उवाच । 
					जीवाम्यहं ब्राह्मणार्थं सर्वथा सततं प्रभो ।
						ब्रह्मण्यो ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः ॥
					दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं बलम् ।
						लोके च परमा कीर्तिर्धर्मश्चाचरितो महान् ॥
					अहो ब्राह्मणकर्माणि मयि मारुत तत्त्वतः ।
						त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन च ॥
						वायुरुवाच । 
					ब्राह्मणान्क्षात्राधर्मेण पालयस्वेन्द्रियाणि च ।
						विप्रेभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ॥ ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥ 262 ॥
7-262-4 कपैः सुरविशेषैः । दिवं द्यौः ॥ 7-262-8 धनीनाम दूतः ॥
श्रीः
