अध्यायः 118
					 कृष्णेन युधिष्ठिरंप्रति पालाशविधिप्रकारकथनम् ॥ 1 ॥ तथा
						तीर्थाटनासमर्थानां तत्प्रतिनिधितीर्थानुवर्णनम् ॥ 2 ॥ तथा
						भगवद्भक्तलक्षणकथनपूर्वकं तत्प्रशंसनम् ॥ 3 ॥ तता स्वस्य
						सर्वोत्तमत्वकथनपूर्वकं स्वोक्तध्रमश्रवणस्य फलकथनम् ॥ 4 ॥ ततो
						युधिष्ठिराद्यामन्त्रपूर्वकं दारुकोपनीतरथारोहणेन द्वारकांप्रति गमनम् ॥ 5 ॥ 
					
						युधिष्ठिर उवाच । 
					
						देशान्तरगते विप्रे संयुक्ते कालधर्मणा ।
						शरीरनाशे संप्राप्ते कथं प्रेतत्वकल्पना ॥
						भगवानुवाच । 
					 
					
						श्रूयतामाहिताग्नेस्तु तथाभूतस्य संस्क्रिया ।
						पालाशबृन्दैः प्रतिमा कर्तव्या कल्पचोदिता ॥
					 
					
						त्रीणि षष्टिशतान्याहुरस्थीन्यस्य युधिष्ठिर ।
						तेषां विकल्पना कार्या यथाशास्त्रं विनिश्चितम् ॥
					 
					
						अशीत्यर्धं शिरसि च ग्रीवायां दश एव च ।
						बाह्वोश्चापि शतं दद्यादङ्गुलीषु पुनर्दश ॥
					 
					
						उरसि त्रिंशतं दद्याज्जठरे वाऽपि विंशतिम् ।
						वृषणे द्वादशार्धं तु शिश्ने चाष्टार्धमेव च ॥
					 
					
						दद्यात्तु शतमूर्वोस्तु षष्ट्यर्थं जानुजङ्घयोः ।
						दश दद्याच्चरणयोरेषा प्रेतस्य निष्कृतिः ॥
						युधिष्ठिर उवाच । 
					 
					
						विशेषतीर्थं सर्वेषामशक्तानामनुग्रहात् ।
						भक्तानां तारणार्तं तु वक्तुमर्हसि धर्मतः ॥
						भगवानुवाच । 
					 
					
						पावनं सर्वतीर्थानां सत्यं गायन्ति सामगाः ।
						सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते ॥
					 
					
						तपस्तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर ।
						अल्पसंतोषकं तीर्थं नारी तीर्थं पतिव्रता ॥
					 
					
						संतुष्टो ब्राह्मणस्तीर्थं ज्ञानं वा तीर्थमुच्यते ।
						मद्भक्तः सततं तीर्थं शङ्करस्य विशेषतः ॥
					 
					
						यतयस्तीर्थमित्येवं विद्वांसस्तीर्थमुच्यते ।
						शरण्यपुरुषस्तीर्थमभयं तीर्थमुच्यते ॥
					 
					
						त्रैलोक्येऽस्मिन्निरुद्विग्नो न बिभेमि कुतश्चन ।
						न दिवा यदि वा रात्रावुद्वेगः शूद्रलङ्घनात् ॥
					 
					
						न भयं देवदैत्येभ्यो रक्षोभ्यश्चैव मे नृप ।
						शूद्रवक्त्राच्च्युतं ब्रह्म भयं तु मम सर्वदा ॥
					 
					
						तस्मात्सप्रणवं शूद्रो मन्नामापि न कीर्तयेत् ।
						प्रणवं हि परं लोके ब्रह्म ब्रह्मविदो विदुः ॥
					 
					
						द्विजशुश्रूषणं धर्मः शूद्राणां भक्तितो मयि ।
						तेन गच्छन्ति ते स्वर्गं चिन्तयन्तो हि मां सदा ॥
					 
					
						द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति ।
						द्विजशुश्रूषणादन्यन्नास्ति शूद्रस्य निष्कृतिः ॥
					 
					
						रागो द्वेषश्च मोहश्च पारुष्यं चानृशंसता ।
						शाठ्यं च दीर्घवैरित्वमतिमानमनार्जवम् ॥
					 
					
						अनृतं चापवादं च पैशुन्यमतिलोभता ।
						हिंसा स्तेयो मृषावादो वञ्चना रोषलोभता ॥
					 
					
						अबुद्धिता च नास्तिक्यं भयमालस्यमेव च ।
							अशौचं चाकृतज्ञत्वं डंभता स्तंभ एव च ।
						
						निकृतिश्चाप्यविज्ञानं जातके शूद्रमाविशेत् ॥
						
					 
					
						सृष्ट्वा पितामहः शूद्रमभिभूतं तु तामसैः ।
							द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान् ।
						
						नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः ॥
						
					 
					
						पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
						तदहं भक्त्युपहृतं मूर्ध्ना गृह्णामि शूद्रतः ॥
					 
					
						अग्रजो वाऽपि यः कश्चित्सर्वपापसमन्वितः ।
						यदि मां सततं ध्यायेत्सर्वपापैः प्रमुच्यते ॥
					 
					
						विद्याविनयसंपन्ना ब्राह्मणा वेदपारगाः ।
						मयि भक्ति न कुर्वन्ति चण्डालसदृशा हि ते ॥
					 
					
						वृथा दानं वृथा तप्तं वृथा चेष्टं वृथा हुतम् ।
						वृथाऽऽतिथ्यं च तत्तस्य यो न भक्तो मम द्विजः ॥
					 
					
						यत्कृतं च हुतं चापि यदिष्टं दत्तमेव च ।
						अभक्तिमत्कृतं सर्वं राक्षसा एव भुञ्जते ॥
					 
					
						स्थावरे जङ्गमे वाऽपि सर्वभूतेषु पाण्डव ।
						समत्वेन यदा कुर्यान्मद्भक्तो मित्रशत्रुषु ॥
					 
					
						आनृशंस्यमहिंसा च यथा सत्यं तथाऽऽर्जवम् ।
						अद्रोहश्चैव भूतानां मद्गतानां व्रतं नृप ॥
					 
					
						नम इत्येव यो ब्रूयान्मद्भक्तं श्रुद्धयाऽन्वितः ।
						तस्याक्षयाऽभवँल्लोकाः श्वपाकस्यापि पार्थिव ॥
					 
					
						किं पुनर्ये यजन्ते मां सदारं विधिपूर्वकम् ।
						मद्भक्ता मद्गतप्राणाः कथयन्तश्च मां सदा ॥
					 
					
						बहुवर्षसहस्राणि तपस्तप्यति यो नरः ।
						नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥
					 
					
						मामेव तस्माद्राजेन्द्र ध्यायन्नित्यमतन्द्रितः ।
						अवाप्स्यति ततः सिद्धिं द्रक्ष्यत्येव परं पदम् ॥
					 
					
						अपार्थकं प्रभाषन्तः शूद्रा भागवता इति ।
						न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः ॥
					 
					
						द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित् ।
						अच्छिद्रपञ्चकालज्ञः स वै भागवतः स्मृतः ॥
					 
					
						ऋग्वेदेनैव होता च यजुषाऽध्वर्युरेव च ।
						सामवेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम् ॥
					 
					
						अथर्वशिरसा चैव नित्यमाथर्वाणा द्विजाः ।
						स्तुवन्ति सततं ये मां ते वै भागवताः स्मृताः ॥
					 
					
						वेदाधीनाः सदा यज्ञा यज्ञाधीनास्तु देवताः ।
						देवता ब्राह्मणाधीनास्तस्माद्विप्रास्तु देवताः ॥
					 
					
						अनाश्रित्योच्छ्रयं नास्ति मुख्यमानश्रयमाश्रयेत् ।
						रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ॥
					 
					
						ब्रह्मा मामाश्रितो राजन्नाहं कंचिदुपाश्रितः ।
						ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम् ॥
					 
					
						एवमेतन्मया प्रोक्तं रहस्यमिदमुत्तमम् ।
						धर्मप्रियस्य ते नित्यं राजन्नेवं समाचर ॥
					 
					
						इदं पवित्रमाख्यानं पुण्यं वेदेन संमितम् ।
						यः पठेन्मामकं धर्ममहन्यहनि पाण्डव ॥
					 
					
						धर्मोति वर्धते तस्य बुद्धिश्चापि प्रसीदति ।
						पापक्षयमुपेत्यैवं कल्याणं च विवर्धते ॥
					 
					
						एतत्पुण्यं पवित्रं च पामनाशनमुत्तमम् ।
						श्रोतव्यं श्रद्धया युक्तैः श्रोत्रियैश्च विशेषतः ॥
					 
					
						श्रावयेद्यस्त्विदं भक्त्या प्रयतोथ शृणोति वा ।
						स गच्छेन्मम सायुज्यं नात्र कार्या विचारणा ॥
					 
					
						यश्चेमं श्रावयेच्छ्राद्धे मद्भक्तो मत्परायणः ।
						पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् ॥
						वैशम्पायन उवाच । 
					 
					
						श्रुत्वा भागवतान्धर्मान्साक्षाद्विष्णोर्जगद्गुरोः ।
						प्रहृष्टमनसो भूत्वा चिन्तयन्तोद्भुताः कथाः ॥
					 
					
						ऋषय पाण्डवाश्चैव प्रणेमुस्तं जनार्दनम् ।
						पूजयामास गोविन्दं धर्मपुत्रः पुनः पुनः ॥
					 
					
						देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस्तथा ।
						ऋषयस्च महात्मानो गुह्यका भुजगास्तता ॥
					 
					
						वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः ।
						तथा भागवताश्चापि पञ्चकालमुपासकाः ॥
					 
					
						कौतूहलसमायुक्ता भगवद्भक्तिमागताः ।
						श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम् ॥
					 
					
						विमुक्तपापाः पूतास्ते संवृत्तास्तत्क्षणेन् तु ।
						प्रणम्य शिरसा विष्णु प्रतिनन्द्य च ताः कथाः ॥
					 
					
						द्रष्टारो द्वारकायां वै वयं सर्वे जगद्गुरुम् ।
							इति प्रहृष्टमनसो ययुर्देवगणैः सह ।
						
						सर्वे ऋषिगणा राजन्ययुः स्वंस्वं निवेशनम् ॥
						
					 
					
						गतेषु तेषु सर्वेषु केशवः केशिहा हरिः ।
							सस्मार दारुकं राजन्स च सात्यकिना सह ।
						
						समीपस्थोऽभवत्सूतो याहि देवेति चाब्रवीत् ॥
						
					 
					
						ततो विषण्णवदनाः पाण्डवाः पुरुषोत्तमम् ।
							अञ्जलिं मूर्ध्नि संधाय नेत्रैरश्रुपरिप्लुतैः ।
						
						पिबन्तः सततं कृष्णं नोचुरार्ततरास्तदा ॥
						
					 
					
						कृष्णोपि भगवान्देवः पृथामामन्त्र्य चार्तवत् ।
						धृतराष्ट्रं च गान्धारीं विगदुरं द्रौपदीं तथा ॥
					 
					
						कृष्णद्वैपायनं व्यासमृषीनन्यांस्च मन्त्रिणः ।
							सुभद्रामात्मजयुतामुत्तरां स्पृश्य पाणिना ।
						
						निर्गत्य वेश्मनस्तस्मादारुरोह तदा रथम् ॥
						
					 
					
						वाजिभिः शैव्यसुग्रीवमेघपुष्पबलाहकैः ।
						युक्तं तु ध्वजभूतेन पतगेन्द्रेण धीमता ॥
					 
					
						अन्वारुरोह चाप्येन प्रेम्या राजा युधिष्ठिरः ।
							अपास्य चाशु यन्तारं दारुकं सूतसत्तमम् ।
						
						अभीशून्प्रतिजग्राह स्वयं कुरुपतिस्तदा ॥
						
					 
					
						उपारुह्यार्जुनश्चापि चामरव्यजनं शुभम् ।
						रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ॥
					 
					
						तथैव भीमसेनोपि रथमारुह्य वीर्यवान् ।
						छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ॥
					 
					
						वैडूर्यमणिदण़्डं च चामीकरविभूषितम् ।
						दधार तरसा भीमश्छत्रं तच्छार्ङ्गधन्वनः ॥
					 
					
						उपारुह्य रथं शीघ्रं चामरव्यजने सिते ।
						नकुलः सहदेवश्च धूयमानौ जनार्दनम् ॥
					 
					
						भीमसेनोऽर्जुनश्चैव यमावप्यरिसूदनौ ।
						पृष्ठतोऽनुययुः कृष्णं माशब्द इति हर्षिताः ॥
					 
					
						त्रियोजने व्यतीते तु परिष्वज्य च पाण्डवान् ।
						विसृज्य कृष्णस्तान्सर्वान्प्रणतान्द्वारका ययौ ॥
					 
					
						तथा प्रणम्य गोविन्दं तदाप्रभृति पाण्डवाः ।
						कपिलाद्यानि दानानि ददुर्धर्मपरायणाः ॥
					 
					
						मधुसूदनवाक्यानि स्मृत्वास्मृत्वा पुनःपुनः ।
						मनसा पूजयामासुर्हदयस्थानि पाण्डवाः ॥
					 
					
						युधिष्ठिरस्तु धर्मात्मा हृदि कृत्वा जनार्दनम् ।
						तद्भक्तस्तन्मना युक्तस्तद्याजी तत्परोऽभवत् ॥
					 
					
						एवमुक्तं पुरावृत्तं वैष्णवं धर्मशासनम् ।
						मया ते कथितं राजन्पिवित्रं पापनाशनम् ॥
					 
					
						तच्छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह ।
						तेन गच्छसि नान्येन तद्विष्णोः परमं पदम् ॥ ॥
					 
					 इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां आश्वमेधिकपर्वणि
						वैष्णवधर्मपर्वणि अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥ ॥ इत्याश्वमेधिकपर्व
						समाप्तम् ॥ -------- इतः परमाश्रमवासिकपर्व भविष्यति । तस्यायमाद्यः श्लोकः ।
						जनमेजय उवाच । प्राप्य पैतामहं राज्यं मम पूर्वपितामहाः । कथमासन्महाराजे
						धृतराष्ट्रे महात्मनि ॥ 1 ॥ इत्याश्वमेधिकपर्व कुंभघोणस्येन
						टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुंबय्यां
						निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1832 सन 1910.