अध्यायः 125
ब्रह्मलोकं जिगमिषोः पाण्डोः तव पुत्रा भविष्यन्तीत्युक्त्वा ऋषिभिः प्रतिनिवर्तनम् ॥ 1 ॥
वैशंपायन उवाच । 
					तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् ।
						सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥
					सुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः ।
						स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥
					केषांचिदभवद्भ्राता केषांचिदभवत्सखा ।
						ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥
					स तु कालेन महता प्राप्य निष्कल्मषं तपः ।
						ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥
					अमावास्यां तु सहिता ऋषयः संशितव्रताः ।
						ब्रह्माणं द्रष्टुकामास्ते संप्रतस्थुर्महर्षयः ॥
					संप्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत् ।
						भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः ॥
						ऋषय ऊचुः । 
					समावायो महानद्य ब्रह्मलोके महात्मनाम् ।
							देवानां च ऋषीणां च पितॄणां च महात्मनाम् ।
						
						वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम् ॥
						
						वैशंपायन उवाच । 
					पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः ।
						स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः ॥
					प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः ।
						उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥
					दृष्टवन्तो गिरौ रम्ये दुर्गान्देशान्बहून्वयम् ।
						विमानशतसंबाधां गीतस्वरनिनादिताम् ॥
					आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा ।
						उद्यानानि कुबेरस्य समानि विषमाणि च ॥
					महानदीनितम्बांश्च गहनान्गिरिगह्वरान् ।
						सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः ॥
					सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद्दुरासदाः ।
						नातिक्रामेत पक्षी यान्कुत एवेतरे मृगाः ॥
					वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः ।
						गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं न्विमे ॥
					न सीदेतामदुःखार्हे मा गमो भरतर्षभ ।
						
						पाण्डुरुवाच ।
						अप्रजस्य महाभागा न द्वारं परिचक्षते ॥
						
					स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः ।
						सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः ॥
					अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा ।
						
						ऋषय ऊचुः ।
						
							अस्ति वै तव धर्मात्मन्विद्म देवोपम शुभम् ॥
						
					अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ।
						दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय ॥
					अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ।
						तस्मिन्दृष्टे फले राजन्प्रयत्नं कर्तुमर्हसि ॥
					अपत्यं गुणसंपन्नं लब्धा प्रीतिकरं ह्यसि ।
						
						वैशंपायन उवाच ।
						तच्छ्रुत्वा तापसवचः पाण्डुस्चिन्तापरोऽभवत् ॥
						
					आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥ ॥
					इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि संभवपर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥
1-125-5 अमावास्यां प्राप्य ॥ 1-125-10 विमानशतेन संबाधं संकटं यस्यां सा ॥ 1-125-19 अव्यग्रो विन्दतेऽतो व्यग्रो माभूरित्यर्थः ॥ 1-125-20 लभते इति लब्धा तादृशोऽसि लप्स्यसीत्यर्थः ॥ पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥