अध्यायः 168
					
					 हिडिम्बया सह पाण्डवानां शालिहोत्रसरोगमनम् ॥ 1 ॥ शालिहोत्रेण
						तेषामातिथ्यकरणम् ॥ 2 ॥ समयकरणपूर्वकं भीमेन हिडिम्ब्याः परिग्रहः ॥ 3 ॥
						रमणीयेषु प्रदेशेषु भीमेन सह क्रीडित्वा सायाह्ने शालिहोत्राश्रमं प्रति
						हिडिम्ब्या निवर्तनम् ॥ 4 ॥ तत्र व्यासागमनम् ॥ 5 ॥ व्यासेन कुन्त्या
						आश्वासनम् ॥ 6 ॥ व्यासस्य प्रतिनिवर्तनम् ॥ 7 ॥ 
					
					
						युधिष्ठिरवचः श्रुत्वा कुन्तीमङ्गेऽधिरोप्य सा ।
						भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता ॥
					 
					
						तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी ।
						शालिहोत्रसरो रम्यमाससाद जलार्थिनी ॥
					 
					
						वनस्पतितलं गत्वा परिमृज्य गृहं यथा ।
						पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा ॥
					 
					
						आत्मनश्च तथा कुन्त्या एकोद्देशे चकार सा ।
						पाण्डवास्तु ततः स्नात्वा शुद्धाः सन्ध्यामुपास्य च ॥
					 
					
						तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन् ।
						शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान्पाण्डवांस्तदा ॥
					 
					
						मनसा चिन्तयामास पानीयं भोजनं महत् ।
						ततस्ते पाण्डवाः सर्वे विश्रान्ताः पृथया सह ॥
					 
					
						यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत् ।
						कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम् ॥
					 
					
						कुन्ती राजसुता वाक्यं भीमसेनमथाब्रवीत् ।
						यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः ॥
					 
					
						अहं धर्मविदाऽनेन मान्या गुरुतरा तव ।
						तस्मात्पाण्डुहितार्थं मे युवराज हितं कुरु ॥
					 
					
						निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना ।
						दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर ॥
					 
					
						तस्मात्कतिपयाहेन योगक्षेमं भविष्यति ।
						क्षेमं दुर्गमिमं वासं वत्स्याम हि यथा वयम् ॥
					 
					
						इदमन्यन्महदुःखं धर्मकृच्छ्रं वृकोदर ।
						दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गाभिप्रचोदिता ॥
					 
					
						युधिष्ठिरं च मां चैव वरयामास धर्मतः ।
						धर्मार्थं देहि पुत्रं त्वं स नः श्रेयः करिष्यति ॥
					 
					
						प्रतिवाक्यं तु नेच्छामि आवयोर्वचनं कुरु ।
						
						वैशंपायन उवाच ।
						तथेति तत्प्रतिज्ञाय भीमसेनोऽब्रवीदिदम् ॥
						
					 
					
						शासनं ते करिष्यामि वेदशासनमित्यपि ।
						समक्षं भ्रातृमध्ये तु तां चोवाच स राक्षसीम् ॥
					 
					
						शृणु राक्षसि सत्येन समयं ते वदाम्यहम् ।'
							यावत्कालेन भवति पुत्रस्योत्पादनं शुभे ॥
						
					 
					
						तावत्कालं चरिष्यामि त्वया सह सुमध्यमे ।
						`विशेषतो मत्सकाशे मा प्रकाशय नीचताम् ॥
					 
					
						उत्तमस्त्रीगुणोपेता भजेथा वरवर्णिनि ।
						
						वैशंपायन उवाच ।
						सा तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तथा ॥
						
					 
					
						गताऽहनि निवेशेषु भोज्यं राजार्हमानयत् ।
						सा कदाचिद्विहारार्थं हिडिम्बा कामरूपिणी ॥
					 
					
						भीमसेनमुपादाय ऊर्ध्वमाचक्रमं तदा ।
						शैलशृङ्गेषु रम्येषु देवतायतनेषु च ॥
					 
					
						मृगपक्षिविघृष्टेषु रमणीयेषु सर्वेषु ।
						कृत्वा सा परमं रूपं सर्वाभरणभूषिता ॥
					 
					
						संजल्पन्ती सुमधुरं रमयामास पाण्डवम् ।
						तथैव वनदुर्गेषु पर्वतद्रुमसानुषु ॥
					 
					
						सरस्तु रमणीयेषु पद्मोत्पलवनेषु च ।
						नदीद्वीपप्रदेशेषु वैडूर्यसिकतेषु च ॥
					 
					
						देवारण्येषु पुण्येषु तथा पर्वतसानुषु ।
						सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥
					 
					
						सागरस्य प्रदेशेषु भणिहेमयुतेषु च ।
						गुह्यकानां निवासेषु कुलपर्वतसानुषु ॥
					 
					
						सर्वर्तुफलवृक्षेषु मानसेषु वनेषु च ।
						बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥
					 
					
						`यथा सुमोदते स्वर्गे सुकृत्यप्सरसा सह ।
						सुतरां परमप्रीतस्तथा रेमे महाद्युतिः ॥
					 
					
						शुभं हि जघनं तस्याः सवर्णमणिमेखलम् ।
							न ततर्प तदा मृद्गन्भीमसेनो मुहुर्मुहुः ॥'
						
					 
					
						रमयन्ती ततो भीमं तत्रतत्र मनोजवा ।
						सा रेमे तेन संहर्षात्तृप्यन्ती च मुहुर्मुहुः ॥
					 
					
						अहस्सु रमयन्ती सा निशाकालेषु पाण्डवम् ।
						आनीय वै स्वके गेहे दर्शयामास मातरम् ॥
					 
					
						भ्रातृभिः सहितो नित्यं स्वपते पाण्डवस्तथा ।
						कुन्त्याः परिचरन्ती सा तस्याः पार्श्वेवसन्निशां ॥
					 
					
						कामांश्च मुखवासादीनानयिष्यति भोजनम् ।
						तस्यां रात्र्यां व्यतीतायामाजगाम महाव्रतः ॥
					 
					
						पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः ।
							तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं शुभम् ।
						
						तस्थुः प्राञ्जलयः सर्वे सस्नुषा चैव माधवी ॥
						
						श्रीव्यास उवाच । 
					 
					
						मयेदं मनसा पूर्वं विदितं भरतर्षभाः ।
						यथा स्थितैरधर्मेण धार्तराष्ट्रौर्विवासिताः ॥
					 
					
						तद्विदित्वाऽस्मि संप्राप्तश्चिकीर्ष्वै परं हितम् ।
						न विषादो हि वः कार्यः सर्वमेतत्सुखाय वः ॥
					 
					
						सुहृद्वियोजनं कर्म पुराकृतमरिन्दमाः ।
						तस्य सिद्धिरियं प्राप्ता मा शोचत परन्तपाः ॥
					 
					
						समाप्ते दुष्कृते चैव यूयं ते वै न संशयः ।
						स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः ॥
					 
					
						दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ।
						तस्मादभ्यधिकः स्नेहो युष्मासु मम संप्रति ॥
					 
					
						स्नेहपूर्वं चिकीर्षामि हितं यत्तन्निबोधत ।
						वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥
					 
					
						एतद्वै शालिहोत्रस्य तपसा निर्मितं सरः ।
						रमणीयमिदं तोयं क्षुत्पिपासाश्रमापहम् ॥
					 
					
						कार्यार्थिनस्तु षण्मासान्विहरध्वं यथासुखम् ॥
						
						वैशंपायन उवाच । 
					 
					
						एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् ।
						स्नेहाच्च संपरिष्वज्य कुन्तीमाश्वासयत्प्रभुः ॥
					 
					
						स्नुषे मा रोद मा रोदेत्येवं व्यासोऽब्रवीद्वचः ।
						जीवपुत्रे सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः ॥
					 
					
						पृथिव्यां पार्थइवान्सर्वान्प्रशासिष्यति धर्मराट् ।
						धर्मेण जित्वा पृथिवीमखिलां धर्मकृद्वशी ॥
					 
					
						स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम् ।
						भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयम् ॥
					 
					
						पुत्रास्तव च माद्र्याश्च पञ्चैते लोकविश्रुताः ।
						स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥
					 
					
						यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् ।
						राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥
					 
					
						अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च ।
						पितृपैतामहं राज्यमहारिष्यन्ति ते सुताः ॥
					 
					
						स्नुषा कमलपत्राक्षी नाम्ना कमलपालिका ।
						वशवर्तिनी तु भीमस्य पुत्रमेषा जनिष्यति ॥
					 
					
						तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः ।
						इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः ॥
					 
					
						देशकालौ विदित्वैवं यास्यध्वं परमां मुदम् ॥
						
						वैशंपायन उवाच । 
					 
					
						स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो जनाधिप ।
						जगाम भगवान्व्यासो यथागतमृषिः प्रभुः ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥ 
					 1-168-38 दीनतो बालत इति द्वयं भावप्रधानम् ॥
						अष्टषष्ट्युत्तरशततमोऽध्यायः ॥ 168 ॥