अध्यायः 177
परेद्युः प्रातः ब्राह्मणेन दत्तमन्नं भुक्त्वा बकाय प्रापणीयं अन्नादिपूर्णं शकटमारुह्य बकवंन प्रति भीमस्य गमनम् ॥ 1 ॥ तत्र भीमेन शकटस्तान्नभोजनम् ॥ 2 ॥ अन्नं भुञ्जानं भीमं दृष्ट्वा क्रुद्धेन बकेन सह भीमस्य युद्धम् ॥ 3 ॥ बकवधः ॥ 4 ॥
युधिष्ठिर उवाच ।
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् ।
आर्तस्य ब्राह्मणस्यैतदनुक्रोशादिदं कृतम् ॥
ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ।
सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि ॥
यथा त्विदं न विन्देयुर्नरा नगरवासिनः ।
तथाऽयं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥
वैशंपायन उवाच ।
`युधिष्ठिरेण संमन्त्र्य ब्राह्मणार्थमरिन्दम ।
कुन्ती प्रविश्य तान्सर्वान्मन्त्रयामास भारत ॥
अथ रात्र्यां व्यतीतायां भीमसेनो महाबलः ।
ब्राह्मणं समुपागम्य वचश्चेदमुवाच ह ॥
आपदस्त्वां विमोक्ष्येऽहं सपुत्रं ब्राह्मण प्रियम् ।
मा भैषी राक्षसात्तस्मान्मां ददातु बलिं भवान् ॥
इद मामशितं कर्तुं प्रयतस्व सकृद्गृहे ।
आथात्मानं प्रादास्यामि तस्मै घोराय रक्षसे ॥
त्वरध्वं किं विलम्बध्वे मा चिरं कुरुतानघाः ।
व्यवस्येयं मनः प्राणैर्युष्मान्रक्षितुमद्य वै ॥
वैशंपायन उवाच ।
एवमुक्तः स भीमेन ब्राह्मणो भरतर्षभ ।
सुहृदां तत्समाख्याय ददावन्नं सुसंस्कृतम् ॥
पिशितोदनमाजह्रुरथास्मै पुरवासिनः ।
सघृतं सोपदंशं च सूपैर्नानाविधैः सह ॥
तदाऽशित्वा भीमसेनो मांसानि विविधानि च ।
मोदकानि च मुख्यानि चित्रोदनचयान्बहून् ॥
ततोऽपिबद्दधिघटान्सुबहून्द्रोणसंमितान् ।
तस्य भुक्तवतः पौरा यथावत्समुपार्जितान् ॥
उपजह्रुर्भृतं भागं समृद्धमनसस्तदा ।
ततो रात्र्यां व्यतीतायां सव्यञ्जनदधिप्लुतम् ॥
समारुह्यान्नसंपूर्णं शकटं स वृकोदरः ।
प्रययौ तूर्यनिर्घोषैः पौरैश्च परिवारितः ॥
आत्मानमेषोऽन्नभूतो राक्षसाय प्रदास्यति ।
तरुणोऽप्रतिरूपश्च दृढ औदरिको युवा ॥
वाग्भिरेवंप्रकाराभिः स्तूयमानो वृकोदरः ।
चुचोद स बलीवर्दौ युक्तौ सर्वाङ्गकालकौ ॥
वादित्राणां प्रवादेन ततस्तं पुरुषादकम् ।
अभ्यगच्छत्सुसंहृष्टः सर्वत्र मनुजैर्वृतः ॥
संप्राप्य स च तं देशमेकाकी समुपाययौ ।
पुरुषादभयाद्भीतस्तत्रैवासीज्जनव्रजः ॥
स गत्वा दूरमध्वानं दक्षिणामभितो दिशम् ।
यतोपदिष्टमुद्देशे ददर्श विपुलं द्रुमम् ॥
केशमज्जास्थिमेदोभिर्बाहूरुचरणैरपि ।
आर्द्रैः शुष्कैश्च संकीर्णमभितोऽथ वनस्पतिम् ॥
गृध्रकङ्कबलच्छन्नं गोमायुगणसेवितम् ।
उग्रगन्धमचक्षुष्यं श्मशानमिव दारुणम् ॥
तं प्रविश्य महावृक्षं चिन्तयामास वीर्यवान् ।
यावन्न पश्यते रक्षो बकाभिख्यं बलोत्तरम् ॥
आचितं विविधैर्भोज्यैरन्नैरुच्चावचैरिदम् ।
शकटं सूपसंपूर्णं यावद्द्रक्ष्यति राक्षसः ॥
तावदेवेह भोक्ष्येऽहं दुर्लभं हि पुनर्भवेत् ।
विप्रकीर्येत सर्वं हि प्रयुद्धे मयि रक्षसा ॥
अभोज्यं हि शवस्पर्शे निगृहीते बके भवेत् ।
स त्वेवं भीमकर्मा तु भीमसेनोऽभिलक्ष्य च ॥
उपविश्य विविक्तेऽन्नं भुङ्क्ते स्म परमं परः ।
तं ततः सर्वतोऽपश्यन्द्रुमानारुह्य नागराः ॥
नारक्षो बलिमश्नीयादेवं बहु च मानवाः ।
भुङ्क्ते ब्राह्मणरूपेण बकोऽयमिति चाब्रुवन् ॥
स तं हसति तेजस्वी तदन्नमुपभुज्य च ।'
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली ।
आजुहाव ततो नाम्ना तदन्नमुपपादयन् ॥
ततः स राक्षसः क्रुद्धो भीमस्य वचनात्तदा ।
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः ॥
महाकायो महावेगो दारयन्निव मेदिनीम् ।
लोहिताक्षः करालश्च लोहितश्मश्रुमूर्धजः ॥
आकर्णाद्भिन्नवक्त्रश्च शङ्कुकर्णो विभीषणः ।
त्रिशिखां भ्रुकुटिं कृत्वा संदश्य दशनच्छदम् ॥
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः ।
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ॥
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् ।
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥
भीमसेनस्ततः श्रुत्वा प्रहसन्निव भारत ।
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥
रवं स भैरवं कृत्वा समुद्यम्य करावुभौ ।
अभ्यद्रवद्भीमसेनं जिङांसुः पुरुषादकः ॥
तथापि परिभूयैनं प्रेक्षमाणो वृकोदरः ।
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥
अमर्षेण तु संपूर्णः कुन्तीपुत्रं वृकोदरम् ।
जघान पृष्ठे पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥
तथा बलवता भीमः पाणिभ्यां भृशमाहतः ।
नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥
ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः ।
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् ।
सव्येन पाणिना भीमो दक्षिणेनाप्यभुङ्क्त ह ॥
`शकटान्नं ततो भुक्त्वा रक्षसः पाणिना सह ।
गृह्णन्नेव तदा वृक्षं निःशेषं पर्वतोपमम् ॥
भीमसेनो हसन्नेव भुक्त्वा त्यक्त्वा च राक्षसम् ।
पीत्वा दधिघटान्पूर्णान्घृतकुम्भाञ्शतं शतम् ॥
वार्युपस्पृश्य संहृष्टस्तस्थौ गिरिरिवापरः ।
भ्रामयन्तं महावृक्षमायान्तं भीमदर्शनम् ॥
दृष्ट्वोत्थायाहवे वीरः सिंहनादं व्यनादयत् ।
भुजवेगं तथाऽऽस्फोटं क्ष्वेलितं च महास्वनम् ॥
कृत्वाऽऽह्वयत संक्रुद्धो भीमसेनोऽथ राक्षसम् ।
उवाचाशनिशब्देन ध्वनिना भीषयन्निव ॥
भीम उवाच ।
बहुकालं सुपुष्टं ते शरीरं राक्षसाधम ।
द्विपच्चतुष्पन्मांसैश्च बहुभिश्चौदनैरपि ॥
मद्बाहुबलमाश्रित्य न त्वं भूयस्त्वशिष्यसि ।
अद्य मद्बाहुनिष्पिष्टो गमिष्यसि यमालयम् ॥
अद्यप्रभृति स्वप्स्यन्ति वेत्रकीयनिवासिनः ।
निरुद्विग्नाः पुरस्यास्य कण्टके सूद्धृते मया ॥
अद्य युद्धे शरीरं ते कङ्कगोमायुवायसाः ।
मया हतस्य खादन्तु विकर्षन्तु च भूतले ॥
वैशंपायन उवाच ।
एवमुक्त्वा सुसंक्रुद्धः पार्थो बकजिघांसया ।
उपाधावद्बकश्चापि पार्थं पार्थिवसत्तम ॥
महाकायो महावेगो दारयन्निव मेदिनीम् ।
पिशङ्गरूपः पिङ्गाक्षो भीमसेनमभिद्रवत् ॥
त्रिशिखां भ्रुकुटीं कृत्वा संदश्य दशनच्छदम् ।
भृशं स भूयः संक्रुद्धो वृक्षमादाय राक्षसः ॥
ताडयिष्यंस्तदा भीमं तरसाऽभ्यद्रवद्बली ।
क्रुद्धेनाभिहतं वृक्षं प्रतिजग्राह लीलया ॥
सव्येन पाणिना भीमः प्रहसन्निव भारत ।
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली ॥
प्राहिणोद्भीमसेनाय बकोऽपि बलवान्रणे ।
सर्वानपोहयद्वृक्षान्स्वस्य हस्तस्य शाखया ॥
तद्वृक्षयुद्धमभवद्वृक्षषण्डविनाशनम् ॥
महत्सुघोरं राजेन्द्र बकपाण्डवयोस्तदा ॥
नाम विश्राव्य स बकः समभिद्रुत्य पाण्डवम् ।
समयुध्यत तीव्रेण वेगेन पुरुषादकः ॥
तयोर्वेगेन महता पृथिवी समकम्पत ।
पादपांश्च महामात्रांश्चूर्णयामासतुः क्षणात् ॥
द्रुतमागत्य पाणिभ्यां गृहीत्वा चैनमाक्षिपत् ।
आक्षिप्तो भीमसेनश्च पुनरेवोत्थितो हसन् ॥
आलिङ्ग्यापि बकं भीमो न्यहनद्वसुधातले ।
भीमो विसर्जयित्वैनं समाश्वसिहि राक्षस ॥
इत्युक्त्वा पुनरास्फोट्य उत्तिष्ठेति च सोऽब्रवीत् ।
समुत्पत्य ततः क्रुद्धो रूपं कृत्वा महत्तरम् ॥
विरूपः सहसा तस्थौ2 तर्जयित्वा वृकोदरम् ।
अहसद्भीमसेनोऽपि राक्षसं भीमदर्शनम् ॥
असौ गृहीत्वा पाणिभ्यां पृष्ठतश्च व्यवस्थितः ।
जानुभ्यां पीडयित्वाथ पातयामास भूतले ॥
पुनः क्रुद्धो विसृज्यैनं राक्षसं क्रोधजीवितम् ।
स्वां कटीमीषदुन्नम्य बाहू तस्य परामृशत् ॥
तस्य बाहू समादाय त्वरमाणो वृकोदरः ।
उत्क्षिप्य चावधूयैनं पातयन्बलवान्भुवि ॥
तं तु वामेन पादेन क्रुद्धो भीमपराक्रमः ।
उरस्येनं समाजघ्ने भीमस्तु पतितं भुवि ॥
व्यात्ताननेन घोरेण लम्बजिह्वेन रक्षसा ।
तेनाभिद्रुत्य भीमेन भीमो मूर्ध्नि समाहतः ॥
एवं निहन्यमानः स राक्षसेन बलीयसा ।
रोषेण महताऽऽविष्टो भीमो भीमपराक्रमः ॥
गृहीत्वा मध्यमुत्क्षिप्य बली जग्राह राक्षसम् ।
तावन्योन्यं पीडयन्तौ पुरुषादवृकोदरौ ॥
मत्ताविव महानागावन्योन्यं विचकर्षतुः ॥
बाहुविक्षेपशब्दैश्च भीमराक्षसयोस्तदा ।
वेत्रकीयपुरी सर्वा वित्रस्ता समपद्यत ॥'
तयोर्वेगेन महता तत्र भूमिरकम्पत ।
पादपान्वीरुधश्चैव चूर्णयामासतू रयात् ॥
समागतौ च तौ वीरावन्योन्यवधकाङ्क्षिणौ ।
गिरिभिर्गिरिशृह्गैश्च पाषाणैः पर्वतच्युतैः ॥
अन्योन्यं ताडयन्तौ तौ चूर्णयामासतुस्तदा ।
आयामविस्तराभ्यां च परितो योजनद्वयम् ॥
निर्महीरुहपाषाणतृणकुञ्जलतावलिम् ।
चक्रतुर्युद्धदुर्मत्तौ कूर्मपृष्ठोपमां महीम् ॥
मुहूर्तमेवं संयुध्य समं रक्षःकुरूद्वहौ ।
ततो रक्षोविनाशाय मतिं कृत्वा कुरूत्तमः ॥
दन्तान्कटकटीकृत्य दष्ट्वा च दशनच्छदम् ।
नेत्रे संवृत्य विकटं तिर्यक्प्रैक्षत राक्षसम् ॥
अथ तं लोलयित्वा तु भीमसेनो महाबलः ।
अगृह्णात्परिरभ्यैनं बाहुभ्यां परिरभ्य च ॥
जानुभ्यां पार्श्वयोः कुक्षौ पृष्ठे वक्षसि जघ्निवान् ।
भग्नोरुबाहुहृच्चैव विस्रंसद्देहबन्धनः ॥
प्रस्वेददीर्घनिश्वासो निर्यञ्जीवाक्षितारकः ।
अजाण्डास्फोटनं कुर्वन्नाक्रोशंश्च श्वसञ्छनैः ॥
भूमौ निपत्य विलुठन्दण्डाहत इवोरगः ।
विस्फुरन्तं महाकायं परितो विचकर्ष ह ॥
विकृष्यमाणो वेगेन पाण्डवेन बलीयसा ।
समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥'
हीयमानबलं रक्षः समीक्ष्य पुरुषर्षभः ।
निष्पिष्य भूमौ जानुभ्यां समाजघ्ने वृकोदरः ॥
ततो ।ञस्य जानुना पृष्ठमवपीड्य बलादिव ।
बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः ।
जानुन्यारोप्य तत्पृष्ठं महाशब्दं बभञ्ज ह ॥
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशांपते ।
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥
1-177-31 त्रिशिखां त्रिरेखाम् ॥ सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥