अध्यायः 180
धृष्टद्युम्नाद्युत्पत्तिकथनार्थं द्रोणद्रुपदयोरुत्पत्तिकथनपूर्वकं द्रुपदवृत्तान्तकथनम् ॥ 1 ॥
ब्राह्मण उवाच । 
					गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः ।
						भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥
					सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् ।
						ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥
					तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा ।
						अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा ॥
					तस्यां संसक्तमनसः कौमारब्रह्मचारिणः ।
						चिरस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥
					ततः समभवद्द्रोणः कुमारस्तस्य धीमतः ।
						अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥
					भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः ।
						तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥
					स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः ।
						चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥
					ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् ।
						द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥
					वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् ।
						आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम ॥
						राम उवाच । 
					शरीरमात्रमेवाद्य मया समवशेषितम् ।
						अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु ॥
						द्रोण उवाच । 
					अस्त्राणि चैव सर्वाणि तेषां संहारमेव च ।
						प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥
						ब्राह्मण उवाच । 
					तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः ।
						प्रतिगृह्य तदा द्रोणः कृतकृत्योऽभवत्तदा ॥
					संप्रहृष्टमना द्रोणो रामात्परमसम्मतम् ।
						ब्रह्मास्त्रं समनुज्ञाप्य नरेष्वभ्यधिकोऽभवत् ॥
					ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् ।
						अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥
						द्रुपद उवाच । 
					नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।
						नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥
						ब्राह्मण उवाच । 
					स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् ।
						जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥
					तस्मै पौत्रान्समादाय वसूनि विविधानि च ।
						प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥
					द्रोणः शिष्यांस्ततः पार्थानिदं वचनमब्रवीत् ।
						समानीय तु ताञ्शिष्यान्द्रुपदस्यासुखाय वै ॥
					आचार्यवेतनं किंचिद्धृदि यद्वर्तते मम ।
							कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ।
						
						सोऽर्जुनप्रमुखैरुक्तस्तथाऽस्त्विति गुरुस्तदा ॥
						
					यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्चयाः ।
						ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥
					पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः ।
						तस्मादाकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥
					`धार्तराष्ट्राश्च ते भीताः पाञ्चालान्पाण्डवादयः ।
						धार्तराष्ट्रैश्च सहिताः पुनर्द्रोणेन चोदिताः ॥
					यज्ञसेनेन संगम्य कर्णदुर्योधनादयः ।
							निर्जिताः संन्यवर्तन्त तथा ते क्षत्रियर्षभाः ॥'
						
					ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि ।
						द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥
					`महेन्द्र इव दुर्धर्षो महेन्द्र इव दानवम् ।
						महेन्द्रपुत्रः पाञ्चालं जितवानर्जुनस्तदा ॥
					तद्दृष्ट्वा तु महावीर्यं फल्गुनस्य महौजसः ।
							व्यस्मयन्त जनाः सर्वे यज्ञसेनस्य बान्धवाः ।
						
						द्रोण उवाच । 
					प्रार्थयामि त्वया सख्यं पुनरेव नराधिप ।
						अराजा किल नो राज्ञः सखा भवितुमर्हति ॥
					अतः प्रयतितं राज्ये यज्ञसेन त्वया सह ।
						राजाऽसि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥
						ब्राह्मण उवाच । 
					एवमुक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता ।
						उवाचास्त्रविदां श्रेष्ठं द्रोणं ब्राह्मणसत्तमम् ॥
					एवं भवतु भद्रं ते भारद्वाज महामते ।
						सख्यं तदेव भवतु शश्वद्यदभिमन्यसे ॥
					एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम् ।
						जग्मतुर्द्रोणपाञ्चाल्यौ यथागतमरिन्दमौ ॥
					असत्कारः स तु महान्मुहूर्तमपि तस्य तु ।
						नापैति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥ ॥
					इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥
1-180-10 एकतममेकतरम् ॥ 1-180-13 समनुज्ञप्य निशम्य । प्राप्येत्यपि पठन्ति ॥ 1-180-21 छत्रवत्यामहिच्छत्रे ॥ 1-180-28 भागीरथ्याहमिति संधिरार्षः ॥ अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥
