अध्यायः 200
					 (अथ स्वयंवरपर्व ॥ 12 ॥) 
					 मध्येमार्गं आगतस्य व्यासस्य आज्ञया पाण्डवानां
						द्रुपदपुरप्रवेशः ॥ 1 ॥ तेषां कुम्भकारगृहे वासः, भैक्षवृत्तिश्च ॥ 2 ॥
						द्रौपद्याः स्वयंवरनिर्माणकारणकथनं ॥ 3 ॥ द्रुपदेन कृतां स्वयंवरघोषणां
						श्रुतवतां क्षत्रियादीनां आगमनं ॥ 4 ॥ सर्वेषां उचिते स्थाने उपवेशनं
						पाण्डवानां ब्राह्मणमध्ये उपवेशनं ॥ 5 ॥ मङ्गलस्नातायाः स्वलङ्कृताया
						द्रौपद्या रङ्गमध्ये आगमनं ॥ 6 ॥ धृष्टद्युम्नेन लक्ष्यवेधपणकथनम् ॥ 7 ॥ 
					
					
						ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः ।
							तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् ।
						
						प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम् ॥
						
					 
					
						ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् ।
						ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा ॥
					 
					
						तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः ।
						कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥
					 
					
						पश्यन्तो रमणीयानि वनानि च सरांसि च ।
						तत्रतत्र वसन्तश्च शनैर्जग्मुर्महराथाः ॥
					 
					
						स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः ।
						आनुपूर्व्येण संप्राप्ताः पाञ्चालान्पाण्डुनन्दनाः ॥
					 
					
						ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः ।
						कुम्भकारस्य शालायां निवासं चक्रिरे तदा ॥
					 
					
						तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः ।
						तान्संप्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित् ॥
					 
					
						`यज्ञसेनस्तु पाञ्चालो भीष्मद्रोमकृतागसम् ।
						ज्ञात्वाऽऽत्मानं तदारेभे त्राणायात्मक्रियां क्षमां ॥
					 
					
						अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत् ।
						स तु वैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत् ॥
					 
					
						कन्यादानात्तु शरणं सोऽमन्यत महीपतिः ।'
							यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने ॥
						
					 
					
						दास्यामि कृष्मामिति वै न चैनं विवृणोति सः ।
							`जामातृबलसंयोगं मेने हि बलवत्तरम् ॥'
						
					 
					
						सोऽन्वेषमाणः कौन्तेयान्पाञ्चालो जनमेजय ।
						दृढं धनुरथानम्यं कारयामास भारत ॥
					 
					
						`वैयाघ्रपद्यस्योग्रं वै सृञ्जयस्य महीपतिः ।
						तद्धनुः किन्धुरं नाम देवदत्तमुपानयत् ॥
					 
					
						आयसी तस्य च ज्याऽऽसीत्प्रतिबद्धा महाबला ।
						न तु ज्यां प्रसहेदन्यस्तद्धनुःप्रवरं महत् ॥
					 
					
						शङ्करेण वरं दत्तं प्रीतेन च महात्मना ।
						तन्निष्फलं स्यान्न तु मे इति प्रामाण्यमागतः ॥
					 
					
						मया कर्तव्यमधुना दुष्करं लक्ष्यवेधनम् ।
							इति निश्चित्य मनसा कारितं लक्ष्यमुत्तमम् ॥'
						
					 
					
						यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् ।
						तेन यन्त्रेण सहितं राजँल्लक्ष्यं च काञ्चनम् ॥
						द्रुपद उवाच । 
					 
					
						इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः ।
						अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति ॥
						वैशंपायन उवाच । 
					 
					
						इति स द्रुपदो राजा स्वयंवरमघोषयत् ।
						तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ॥
					 
					
						ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः ।
						दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ॥
					 
					
						`यादवा वासुदेवेन सार्धमन्धकवृष्णयः ।'
							ततोऽर्चिता राजगुणा द्रुपदेन महात्मना ॥
						
					 
					
						उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम् ।
						`ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् ॥
					 
					
						ब्राह्मणैरेव सहिताः पाण्डवाः समुपाविशन् ।
						त्रयस्त्रिंशत्सुराः सर्वे विमानैर्व्योम्न्यवस्थिताः ॥
					 
					
						ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः ।
						शिंशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः ॥
					 
					
						प्रागुत्तरेण नगराद्भूमिभागे समे शुभे ।
						समाजवाटः शुशुभे भवनैः सर्वतो वृतः ॥
					 
					
						प्राकारपरिखोपेतो द्वारतोरणमण्डितः ।
						वितानेन विचित्रेण सर्वतः समलङ्कृतः ॥
					 
					
						तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः ।
						चन्दनोदकसिक्तश्च माल्यदामोपशोभितः ॥
					 
					
						कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः ।
						सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै ॥
					 
					
						सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः ।
						सुखारोहणसोपानैर्महासनपरिच्छदैः ॥
					 
					
						स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः ।
						हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः ॥
					 
					
						असंबाधशतद्वारैः शयनासनशोभितैः ।
						बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥
					 
					
						तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः ।
						स्पर्धमानास्तदाऽन्योन्यं निषेदुः सर्वपार्थिवाः ॥
					 
					
						तत्रोपविष्टान्ददृशुर्महासत्वान्पृथग्जनाः ।
						राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ॥
					 
					
						महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः ।
						प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ॥
					 
					
						मञ्चेषु च परार्द्ध्येषु पौरजानपदा जनाः ।
						कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन् ॥
					 
					
						ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् ।
						ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥
					 
					
						ततः समाजो ववृधे स राजन्दिवसान्बहून् ।
						रत्नप्रदानबहुलः शोभितो नटनर्तकैः ॥
					 
					
						वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे ।
							`मैत्रे मुहूर्ते तस्याश्च राजदाराः पुराविदः ।
						
						पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः ॥
						
					 
					
						वैडूर्यमयपीठे तु निविष्टां द्रौपदीं तदा ।
						सतूर्यं स्नापयाञ्चक्रुः स्वर्णकुम्भस्थितैर्जलैः ॥
					 
					
						तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम् ।
						निन्युर्मणिस्तम्भवतीं वेदिं वै सुपरिष्कृताम् ॥
					 
					
						निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्ष्यः प्रसाधिकाः ।
						केनालङ्करणेनेमामित्यन्योन्यं व्यलोकयन् ॥
					 
					
						धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन् ।
						बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः ॥
					 
					
						दूर्वामधूकरचितं माल्यं तस्या ददुः करे ।
						चक्रुश्च कृष्णागरुणा पत्रसङ्गं कुचद्वये ॥
					 
					
						रेजे सा चक्रवाकाङ्का स्वर्णदीर्घा सरिद्वरा ।
						अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ ॥
					 
					
						आसक्तभृङ्गं कुसुमं शशिम्बिम्बं जिगाय तत् ।
						कालाञ्जनं नयनयोराचारार्थं समादधुः ॥
					 
					
						भूषणं रत्नखचितैरलंचक्रुर्यथोचितम् ।
						माता च तस्याः पृषती हरितालमनश्शिलाम् ॥
					 
					
						अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे ।
						अलङ्कृतां वधूं दृष्ट्वा योषितो मुदमाययुः ॥
					 
					
						माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति ।
						सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः ॥
					 
					
						एनामारोपयामासुः करिणीं कुचभूषिताम् ।
						ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन् ॥
					 
					
						विलासिनीजनाश्चापि प्रवरं करिणीशतम् ।
						माङ्गल्यगीतं गायन्त्यः पार्स्वयोरुभयोर्ययुः ॥
					 
					
						जनापसरणे व्यग्राः प्रतिहार्यः पुरा ययुः ।
						कोलाहलो महानासीत्तस्मिन्पुरवरे तदा ॥
					 
					
						धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत ।
						द्रुपदो रङ्गदेशे तु बलेन महता युतः ॥
					 
					
						तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः ।'
							आप्लुताङ्गीं सुवसनां सर्वाभरणभूषिताम् ॥
						
					 
					
						मालां च समुपादाय काञ्चनीं समलङ्कृताम् ।
							`आगतां ददृशुः सर्वे रङ्गभूमिमलङ्कृताम् ॥'
						
					 
					
						अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ।
							`तस्थौ प्रमुदितान्सर्वान्नृपतीन्रङ्गमण्डले ।
						
						प्रेक्षन्ती व्रीडितापाङ्गी द्रष्टृणां सुमनोहरा ॥' 
					 
					
						पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः ।
						परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा ॥
					 
					
						संतर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च ।
						वारयामास सर्वाणि वादित्राणि समन्ततः ॥
					 
					
						निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशांपते ।
						कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः ॥
					 
					
						रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा ।
						वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥
					 
					
						इदं धनुर्लक्ष्यमिमे च बाणाः
							शृण्वन्तु मे भूपतयः समेताः ।
						
						छिद्रेण यन्त्रस्य मसर्पयध्वं
							शरैः शितैर्व्योमचरैर्दशार्धैः ॥
						
					 
					
						एतन्महत्कर्म करोति यो वै
							कुलेन रूपेण बलेन युक्तः ।
						
						तस्याद्य भार्या भगिनी ममेयं
							कृष्णा भवित्री न मृषा ब्रवीमि ॥
						
					 
					
						तानेवमुक्त्वा द्रुपदस्य पुत्रः
							पश्चादिदं तां भगिनीमुवाच ।
						
						नाम्ना च गोत्रेण च कर्मणा च
							संकीर्तयन्भूमिपतीन्समेतान् ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि द्विशततमोऽध्यायः ॥ 200 ॥ 
					 1-200-7 जज्ञिरे ज्ञातवन्तः ॥ 1-200-17 वैहायसमन्तरिक्षगतम् ॥ 1-200-24 शिंशुमारो जलजन्तुस्तदाकारस्तारासमूहात्मको विष्णुस्तस्य शिरःप्रदेशे
						ऐशान्यां दिशि । अतएव सा अपराजितादिक् तां दिशं प्राप्य न्यविशन् ॥ 1-200-25
						तामेव दिशमात्र प्रागिति ॥ द्विशततमोऽध्यायः ॥ 200 ॥