अध्यायः 034

स्मृतिमात्रागतघटोत्कचलङ्काप्रेषणवृत्तान्तस्य विस्तरेण कथनम् ॥ 1 ॥ कृष्णगौरवेण विभीषणेन करदानम् ॥ 2 ॥ विभीषणात्करणाहृतवता घटोत्कचेन सह सहदेवस्य प्रतिनिवर्तनम् ॥ 3 ॥

वैशम्पायन उवाच ॥

सहदेवस्ततो राजा मन्त्रिभिः सह भारत ।
सम्प्रधार्य महाबाहुः सचिवैर्बुद्धिमत्तरैः ॥
स विचार्य तदा राजन्सहदेवस्त्वरान्वितः ।
चिन्तयामास राजेन्द्र भ्रातुः पुत्रं घटोत्कचम् ॥
ततश्चिन्तितमात्रे तु राक्षसः प्रत्यदृश्यत ।
अतिदीर्घो महाबाहु सर्वाभरणभूषितः ॥
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः ।
विचित्रहारकेयूरः किङ्किणीमणिभूषितः ॥
हेममाली महादंष्ट्रः किरीटी कुक्षिबन्धनः ।
ताम्रकेशो हरिश्मश्रुर्भीमाङ्गः कटकाङ्गदः ॥
रक्तचन्दनदिग्धाङ्गः सूक्ष्माम्बरधरो बली ।
बलेन स ययौ तत्र चालयन्निव मेदिनीम् ॥
ततो दृष्ट्वा जना राजन्नायान्तं पर्वतोपमम् ।
भयाद्धि दुद्रुवुः सर्वे सिंहात्क्षुद्रमृगा यथा ॥
आससाद च माद्रेयं पुलस्त्यं रावणो यथा ।
अभिवाद्य ततो राजन्सहदेवं घटोत्कचः ॥
प्रह्वः कृताञ्जलिस्तस्थौ किं कार्यमिति चाब्रवीत् ।
तं परिष्वज्य बाहुभ्यां मूर्ध्न्युपाघ्राय पाण्डवः ॥
तं मेरुशिखराकारमागतं पाण्डुनन्दनः ।
पूजयित्वा सहामात्यः प्रीतो वाक्यमुवाच ह ॥
गच्छ लङ्कां पुरीं वत्स करार्थं मम शासनात् ॥ ।
तत्र दृष्ट्वा महात्मानं राक्षसेन्द्रं बिभीषणम् ॥
रत्नानि राजसूयार्थं विविधानि बहूनि च ।
उपादाय च सर्वाणि प्रत्यागच्छ महाबल ॥
वैशम्पायन उवाच ।
पाण्डवेनैवमुक्तस्तु मुदा युक्तो घटोत्कचः ।
तथेत्युक्त्वा महाराज प्रतस्ये दक्षिणां दिशम् ॥
प्रययौ दक्षिणं कृत्वा सहदेवं घटोत्कचः ।
लङ्कामभिमुको राजन्समुद्रं स व्यलोकयत् ॥
कूर्मग्राहझषाकीर्णं मीननक्रैस्तथाऽऽकुलम् ।
शुक्तिव्रातसमाकीर्णं शङ्कानां निचयाकुलम् ॥
स दृष्ट्वा रामसेतुं च चिन्तयन्रामविक्रमम् ॥
गत्वा पारं समुद्रस्य दक्षिणं स घटोत्कचः ॥
ददर्श लङ्कां राजेन्द्र नाकपृष्ठोपमां शुभाम् ।
प्राकारेणावृतां रम्यां शुभद्वारैश्च शोभिताम् ॥
प्रासादैर्बहुसाहस्रैः श्वेतरक्तैश्च सङ्कुलाम् ।
दिव्यदुन्दुभिनिर्ह्रादामुद्यानवनशोभिताम् ॥
सर्वकालफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ।
पुष्पगन्धैश्च सङ्कीर्णां रमणीयमहारथाम् ॥
नानारत्नैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ।
विवेश स पुरीं लङ्कां राक्षसैश्च निषेविताम् ॥
ददर्श स पुरीं लङ्कां राक्षसैश्च निषेविताम् ॥
नानावेषधरान्दक्षान्नारीश्च प्रियदर्शनाः ॥
दिव्यमाल्याम्बरधरा दिव्यभूषणभूषिताः ।
मदरक्तान्तनयनाः पीनश्रोणिपयोधराः ॥
भैमसेनिं ततो दृष्ट्वा हृष्टास्ते विस्मयं गताः ।
आससाद गृहं राज्ञ इन्द्रस्य सदनोपमम् ॥
स द्वारपालमासाद्य वाक्यमेतदुवाच ह ।
घटोत्कच उवाच ॥
कुरूणामृष्टबो राजा पाण्डुर्नाम महाबलः ॥
कनीयांस्तस्य दायादः सहदेव इति श्रुतः ।
तेनाहं प्रेषितो दूतः करार्थं कौरवस्य च ॥
द्रष्टुमिच्छामि राजेनद्रं त्वं क्षिप्रं मां निवेदय ।
वैशम्पायन उवाच ॥
तस्य तद्वचनं श्रुत्वा द्वारपालो महीपते ॥
तथेत्युक्त्वा विवेशाथ भवनं स निवेदकः ।
प्राञ्जलिः स्रवमाचष्ट स्रवां दूतगिरं तदा ॥
द्वारपालवचः श्रुत्वा राक्षसेन्द्रो विभीषणः ।
उवाच वाक्यं धर्मात्मा समीपं मे प्रवेश्यताम् ॥
एवमुक्तस्तु राज्ञा स धर्मज्ञेन महात्मना ।
अथनिष्कम्य सम्भ्रान्तो द्वार्स्थोहैडिम्बमब्रवीत् ॥
एहि दूत नृपं द्रष्टुं क्षिप्रं प्रविश च स्वयम् ।
द्वारपालवचः श्रुत्वा प्रविवेश घटोत्कचः ॥
स प्रविश्य ददर्शाथ राक्षसेन्द्रस्य मन्दिरम् ।
ततः कैलाससङ्काशं तत्पकाञ्चनतोरणम् ॥
प्राकारेण परिक्षिप्तं गोपुरैश्चापि शोभितम् ।
हर्म्यप्रासादसम्बाधं नानारत्नोपशोभितम् ॥
काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि ।
वज्रवैडूर्यजुष्टैश्च स्तम्भैश्च सुमनोहरैः ॥
नानाध्वजपताकाभिर्युक्तं मणिविचित्रितम् ।
चित्रमाल्यावृतं रम्यं तप्तकाञ्चनवेदिकम् ॥
स दृष्ट्वा तत्र सर्वं च भैमसेनिर्मनोहरम् ।
प्रविशन्नेव हैडिम्बः शुश्राव मधुरस्वरम् ॥
तन्त्रीगीतसमाकीर्णं समतालमिताक्षरम् ।
दिव्यदुन्दुभिनिर्ह्रादं वादित्रसततं शुभम् ॥
स श्रुत्वा मधुरं शब्दं प्रीतिमानभवत्तदा ।
ततो विगाह्य हैडिम्बो बहुकक्ष्यां मनोरमाम् ॥
स ददर्श महात्मानं द्वार्स्थेन सह भारत ।
तं विभीषणमासीनं काञ्चने परमासने ॥
दिवि भास्करसङ्काशं मुक्तामणिविभूषितम् ।
दिव्याभरणचित्राङ्गं दिव्यरूपधरं विभुम् ॥
दिव्यमाल्याम्बरधरं दिव्यगन्धोक्षितं शुभम् ।
विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् ॥
उपोपविष्टं सचिवैर्देवैरिव शतक्रतुम् ।
यक्षैर्महात्मभिर्दिव्यनारीभिर्हृद्यकान्तिभिः ॥
गीतैर्मङ्गलयुक्तैश्च पूज्यमानं यथा दिवि ।
चामरे व्यजने चाग्र्ये हेमदण्डे महाधने ॥
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि ।
अर्चिष्मन्तं श्रिया जुष्टं कुबेरवरुणोपमम् ॥
धर्मे चैव स्थितं नित्यमद्भुतं राक्षसेस्वरम् ।
राममिक्ष्वाकुनाथं वै स्मरन्तं मनसा सदा ॥
दृष्ट्वा घटोत्कचो राजन्ववन्दे तं कृताञ्जलिः ।
प्रह्वस्तस्थौ महावीर्यः शक्रं चित्ररथो यथा ॥
तं दूतमागतं दृष्ट्वा राक्षसेन्द्रो विभीषणः ।
पूजयित्वा यथान्यायं सान्त्वपूर्वं वचोऽब्रवीत् ॥
विभीषण उवाच ॥
कस्य वंशे स सञ्जातः करमिच्छन्महीपतिः ।
तस्यानुजान्समस्तांश्च पुरं देशं च तस्य वै ॥
त्वां च कार्यं च तत्सर्वं श्रोतुमिच्छामि तत्वतः ।
विस्तरेण मम ब्रूहि सर्वानेतान्पृथक्पृथक् ॥
वैशम्पायन उवाच ।
एवमुक्तस्तु हैडिम्बः पौलस्त्येन महात्मना ।
कृताञ्जलिरुवाचाथ समर्थमिदमुत्तरम् ॥
घटोत्कच उवाच ।
सोमवंशोद्भवो राजा पाण्डुर्नाम महाबलः ।
पाण्डोश्च पुत्राः पञ्चासञ्छक्रतुल्यपराक्रमाः ॥
तेषां ज्येष्ठस्तु नाम्ना वै युधिष्ठिर इति श्रुतः ।
अजातशत्रुर्धर्मात्मा धर्मो विग्रहवानिव ॥
ततो युधिष्ठिरो राजा प्राप्य राज्यमकारयत् ।
गङ्गाया दक्षिणे तीरे नगरे नागसाह्वये ॥
तद्दत्वा धृतराष्ट्राय शक्रप्रस्थं ययौ ततः ।
भ्रातृभिः सह राजेन्द्र शक्रप्रस्थेऽन्वमोदत ॥
गङ्गायमुनयोर्मध्ये ते उभे नगरोत्तमे ।
नित्यं धर्मे स्थितो राजा शक्रप्रस्थे प्रशास्ति नः ॥
तस्यानुजो महाबाहुर्भीमसेन इति श्रुतः ।
महातेजा महाकीर्तिः शक्रतुल्यपराक्रमः ॥
दशनागसहस्राणां बले तुल्यः स पाण्डवः ।
तस्यानुजोऽर्जुनो नाम महाबलपराक्रमः ॥
सुकुमारो महासत्वो लोके वीर्येण विश्रुतः ।
कार्तवीर्यसमो वीर्ये सागरप्रतिमो बले ॥
जामदग्न्यसमश्चास्त्रे सङ्ख्ये रामसमोऽर्जुनः ।
रूपे शक्रसमः पार्थस्तेजसा भास्करोपमः ॥
देवदानवगन्धर्वैः पिशाचोरगराक्षसैः ।
मानुषैश्च समस्तैस्तु अजेयः फल्गुनो रणे ॥
तेन तत्खण्डवं दावं तर्पितं जातवेदसे ।
विजित्य तरसा शक्रं युधि देवगणैः सह ॥
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् ।
तेन लब्धा महाराज दुर्लभा दैवतैरपि ॥
वासुदेवस्य भगिनी सुभद्रा नाम विश्रुता ।
अर्जुनस्यानुजो राजन्नकुलश्चेति विश्रुतः ॥
दर्शनीयतमो लोके मूर्तिमानिव मन्मथः ।
तस्यानुजो महातेजाः सहदेव इति श्रुतः ॥
तेनाहं प्रेषितो राजन्कुमारेण समो रणे ।
अहं घटोत्कचो नाम भीमसेनसुतो बली ॥
मम माता महाभागा हिडिम्बा नाम राक्षसी ।
पार्थानामुपकारार्थं चरामि पृथिवीमिमाम् ॥
आसीत्पृथिव्याः सर्वस्या महीपालो युधिष्ठिरः ।
राजसूयं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे ॥
सन्दिदेश च स भ्रातृन्करार्थं सर्वतोदिशम् ।
वृष्णिवीरेण सहितः सन्दिदेशानुजान्नृपः ॥
उदीचीमर्जुनस्तूर्णं गत्वा मेरोरथोत्तमः ।
गत्वा शतसहस्राणि योजनानि महाबलः ॥
जित्वा सर्वान्नृपान्युद्धे हत्वा च तरसा वशी ।
स्वर्गद्वारमुपागम्य रत्नान्यादाय वै भृशम् ॥
अश्वांश्च विविधान्दिव्यान्सर्वानादाय फल्गुनः ।
धनं बहुविधं राजन्धर्मपुत्राय वै ददौ ॥
भीमसेनो हि राजेन्द्र जित्वा प्राचीं दिशं बलात् ।
वशे कृत्वा महीपालान्पाण्डवाय धनं ददौ ॥
दिशं प्रतीचीं नकुलः करार्थं प्रययौ तथा ।
सहदेवो दिशं याम्यां जित्वा सर्वान्महीक्षितः ॥
मां सन्दिदेश राजेन्द्र करार्थमिह सत्कृतः ।
पार्थानां चरितं तुभ्यं सङ्क्षेपात्समुदाहृतम् ॥
तमवेक्ष्य महाराज धर्मराजं युधिष्ठिरम् । पावनं राजसूयं च भगवन्तं हरिं प्रभुम् ।
एतानवेक्ष्य धर्मज्ञ करं दातुमिहार्हसि ॥
वैशम्पायन उवाच ॥
तेन तद्भाषितं श्रुत्वा राक्षसेन्द्रो बिभीषणः ।
शासनं प्रतिजग्राह धर्मात्मा राक्षसैः सह ॥
तच्च कृष्णकृतं धीमानित्यमन्यत स प्रभुः ।
ततो ददौ विचित्राणि कम्बलानि कुथानि च ॥
दान्तकाञ्चनपर्यङ्कान्मणिहेमविचित्रितान् ।
भूषणानि महार्हाणि प्रवालानि मणींश्च सः ॥
काञ्चनानि च भाण्डनि कलशानि घटानि च ।
कटाहानि विचित्रानि द्रोण्यश्चैव सहस्रशः ॥
राजतानि च भाण्डानि रत्नगर्भांश्च कुण्डलान् । हेमपुष्पानि चान्यानि रुक्ममुख्यानि चापरान् ।
शङ्खांश्च चन्द्रसङ्काशांश्चित्रावर्तविचित्रितान् ।
यज्ञस्य तोरणे युक्तान्ददौ तालांश्चतुर्दश ॥
रुक्मपङ्कजपुष्पाणि शिबिका मणिभूषिताः ।
मुकुटानि महार्हाणि रत्नगर्भांश्च कङ्कणान् ॥
चन्दनानि च मुख्यानि वासांसि विविधानि च ।
स ददौ सहदेवाय तदा राजा विभीषणाः ॥
तानि सर्वाणि रत्नानि आजह्रुस्ते निशाचराः ।
अष्टाशीतिसहस्राणि समदा रक्तलोचनाः ॥
रत्नान्यादाय सर्वाणि प्रतस्थे स घटोत्कचः ।
विभीषणं च राजानमभिवाद्य कृताञ्जलिः ॥
प्रदक्षिणं परीत्यैव निर्जगाम घटोत्कचः ।
ततो रत्नान्युपादाय हैडिम्बो राक्षसैः सह ॥
जगाम तूर्णं लङ्कायाः सहदेवपदं प्रति ।
आसेदुः पाण्डवं सर्वे लङ्घयित्वा महोदधिम् ॥
सहदेवो ददर्शाथ रत्नाहारान्निशाचरान् ।
आगतान्भीमसङ्काशान्हैडिम्बं च तथा नृप ॥
द्रमिला नैऋतान्दृष्ट्वा दुद्रुवुस्ते भयार्दिताः ।
भैमसेनिस्ततो गत्वा मार्देयं प्राञ्जलिः स्थितः ॥
प्रीतिमानभवद्दृष्ट्वा रत्नौधं तं च पाण्डवः ।
तं परिष्वज्य पाणिभ्यां दृष्ट्वा तान्प्रीतिमानभूत् ॥
विसृज्य द्रविडान्सर्वान्गमनायोपचक्रमे ।
न्यवर्तम ततो धीमान्सहदेवो नराधिपः ॥
एवं विजित्य तरसा सान्त्वेन विजयेन च ।
करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिन्दमः ॥
रत्नसालमुपादाय ययौ सहनिशाचरः ।
इन्द्रप्रस्थं विवेशाथ कम्पयन्निव मेदिनीम् ॥
दृष्ट्वा युधिष्ठिरं राजन्सहदेवः कृताञ्जलिः ।
प्रह्वोऽभिवाद्य तस्थौ स पूजितश्चापि तेन वै ॥
लङ्काप्राप्तान्धनौघांश्च दृष्ट्वा तान्दुर्लभान्बहून् ।
प्रीतिमानभवद्राजा विस्मयं परमं ययौ ॥
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ ।
कोटीसहस्रमधिकं हिरण्यस्य महात्मने ॥
विविधानि च रत्नानि गोजाविमहिषांस्तथा ।
कृतकर्मा सुखं राजन्नुवास जनमेजय ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि चतुस्त्रिंसोऽध्यायः ॥ 34 ॥ ॥