अध्यायः 037

आमन्त्रितानां सर्वेषां आगमनम् ॥ 1 ॥

वैशम्पायन उवाच ॥

तत आमन्त्रिता राजन्राजानः सत्कृतास्तदा ।
पुरेभ्यः प्रययुस्तेभ्यो विमानेभ्य इवामराः ॥
ते वै दिग्भ्यः समापेतुः पार्थिवास्तत्र भारत ।
समादाय महार्हाणि रत्नानि विविधानि च ॥
तच्छ्रुत्वा धर्मराजस्य यज्ञे यज्ञविदस्तदा ।
राजानः शतशस्तुष्टैर्मनोभिर्मनुर्षभ ॥
बहु वित्तं समादाय विविधं पार्थिवा ययुः ।
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥
स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः ।
भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः ॥
प्रयतः प्राञ्जलिर्भूत्वा भारतानानयत्तदा ।
धृतराष्ट्रं च भीष्मं च विदुरं च महामतिम् ॥
दुर्योधनमुखांश्चैव भ्रातॄन्सर्वानथानयत् ॥
सत्कृत्यामन्त्रिताः सर्वे ह्याचार्यप्रमुखास्ततः ।
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरस्सराः ॥
धृतराष्ट्रश्च भीष्मश्च विदुरस्च महामतिः । दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ।
गान्धारराजः सुबलः शकुनिश्च महाबलः ॥
अचलो वृषकश्चैव कर्णश्च रथिनां वरः ।
तथा शल्यश्च बलवान्बाह्लिकश्च महाबलः ॥
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः ।
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ॥
यज्ञसेनः सपुत्रश्च साल्वश्च वसुधाधिपः ।
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः ॥
स तु सर्वैः सह म्लेच्छैः सागरानूपवासिभिः ।
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ॥
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा ।
आकर्षाः कुन्तलाश्चैव गालवाश्चान्ध्रकास्तथा ॥
द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा ।
कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः ॥
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते ।
विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः ॥
राजानो राजपुत्राश्च नानाजनपदेश्वराः ।
शिशुपालो महावीर्यः सह पुत्रेण भारत ॥
आगच्छत्पाण्डवेयस्य यज्ञं समरदुर्मदः ।
रामश्चैवानिरुद्धश्च कङ्कश्च सहसारणः ॥
गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ।
उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा ॥
वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः ।
एते चान्ये च बहवो राजानो मध्यदेशजाः ॥
आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ।
ददुस्तेषामावसथान्धर्मराजस्य शासनात् ॥
बहुभक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ।
तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम् ॥
सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ।
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् ॥
सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ।
सुवर्णजालसंवीतान्मणिकुट्टिमभूषितान् ॥
सुखारोहणसोपानान्महासनपरिच्छदान् ।
स्नग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः ॥
हंसेन्दुवर्णसदृशानायोजनसुदर्शनान् ।
असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः ॥
बहुधातुनिबद्धाङ्गान्हिमवच्छिखरानिव ।
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् ॥
वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् । तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः ।
भ्राजते स्म तदा राजन्नाकपृष्ठं यथाऽमरैः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

2-37-8 ब्रह्मपुरस्सराः ब्राह्मणपुरस्सराः ॥