अध्यायः 001

मयस्यार्जुनम्प्रति प्रत्युपकारप्रार्थना ॥ 1 ॥ कृष्णे उपकृते अहमुपकृत मयम्प्रति अर्जुनस्योक्तिः ॥ 2 ॥ कृष्णाज्ञय मयेन सभानिर्माणारम्भः ॥ 3 ॥

॥ श्रीवेदव्यासाय नमः ॥
`नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव (व्यासं)ततो जयमुदीरयेत् ॥
जनमेजय उवाच ।
अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा ।
किं चकार महातेजास्तन्मे ब्रूहि द्विजोत्तम ॥
वैशम्पायन उवाच ।
शृणु राजन्नवहितश्चरितं पूर्वकस्य ते ।
मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः ॥
गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ ।
दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि ॥
रथध्वजपताकाश्च श्वेताश्वांश्च स वीर्यवान् । एतानि पावकात्प्राप्य मुदा परमया युतः ।
तस्थौ पार्थो महावीर्यस्तदा सह मयेन सः' ॥
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ ।
`पाण्डवेन परित्रातस्तत्कृतं प्रत्यनुस्मरन्' ॥
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ।
मय उवाच ।
अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः ॥
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ।
`अहं हि विश्वकर्मा वै असुराणां परन्तप ॥
तस्मात्ते विस्मयं किञ्चित्कुर्यामन्यैः सुदुष्करम् ॥
वैशम्पायन उवाच ।
एवमुक्तो महावीर्यः पार्थो मायाविदं मयम् ।
ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन्वाक्यमब्रवीत्' ॥
कृतमेव त्वया सर्वं स्वस्ति गच्छ महाऽसुर ।
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ॥
प्रोपकारादर्थं हि नादास्यामीति मे व्रतम्' ।
उवाच ।
युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ ॥
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन ।
अहं हि विश्वकर्मा वै दानवानां महाकविः ॥
`सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव ।
`दानवानां पुरा पार्थ प्रासादा हि मया कृताः ॥
रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः ।
उद्यानानि च रम्याणि सरांसि विविधानि च ॥
विचित्राणि च वस्त्राणि कामगानि रथानि च ।
नगराणि विशालानि साट्टप्राकारवन्ति च ॥
वाहनानि च मुख्यानि विचित्राणि सहस्रशः । बिलानि रमणीयानि सुखयुक्तानि वै भृशम् ।
एते कृता मया तस्मादिच्छामि फल्गुन' ॥
अर्जुन उवाच ।
प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया ।
एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया ॥
न चापि तव सङ्कल्पं मोघमिच्छामि दानव ।
कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि ॥
वैशम्पायन उवाच ।
चोदितो वासुदेवस्तु मयं प्रति नरर्षभ ।
मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति ॥
ततो विचिन्त्य मनसा लोकनाथः प्रजापितः ।
चोदयामास तं कृष्णः सभा वै क्रियतामिति ॥
यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर ।
धर्मराजस्य दयितां यादृशीमिह मन्यसे ॥
यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः ।
मनुष्यलोके सकले तादृशीं कुरु वै सभाम् ॥
यत्र द्विव्यानभिप्रायान्पश्येम विहितांस्त्वया ।
आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम् ॥
वैशम्पायन उवाच ।
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा ।
विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम् ॥
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे ।
सर्वमेतत्समावेद्य दर्शयामासतुर्मयम् ॥
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा ।
स तु तां प्रतिजग्राह मयः सत्कृत्य भारत ॥
स पूर्वदेवचरितं तदा तत्र विशाम्पते ।
कथयामास दैतेयः पाण्डुपुत्रेषु भारत ॥
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु ।
सभां प्रचकमे कर्तुं पाण्डवानां महात्मनाम् ॥
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः ।
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ॥
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः ।
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ॥
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम् ।
दशकिष्कुसहस्रां तां मापयामास सर्वतः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

2-1-1 सभाo 2-1-28 पूर्वदेवो वृषपर्वा दानवस्तस्य चरितं बिन्दुसरसि यज्ञकरणादि ॥