अध्यायः 044

मधुकैटभवधकथनम् ॥ 1 ॥

भीष्म उवाच ।

अव्यक्तो व्यक्तलिङ्गस्थो य एव भगवान्प्रभुः ।
नरनारायणो भूत्वा हरिरासीद्युधिष्ठिर ॥
ब्रह्मा च शक्रः सूर्यश्च धर्मश्चैव सनातनः । बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः ।
प्रादुर्भावांस्तु वक्ष्यामि दिव्यान्देवगणैर्युतान् ।
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान् ।
अनेकबहुसाहस्रैर्देवदेवो जगत्पतिः ॥
ब्रह्माणं कपिलं चैव परमेष्ठिं तथैव च ।
देवान्सप्तर्षिभिश्चैव शङ्करं च महायशाः ॥
सनत्कुमारं भगवान्मनुं चैव प्रजापतिम् ।
पुरा चक्रे च देवादिः प्रदीप्ताग्निसमप्रभः ॥
येन चार्णवमध्यस्थौ नष्टेस्थावरजङ्गमे ।
नष्टदेवासुरवरे प्रनष्टोरगराक्षसे ॥
योद्धुकामौ सुदुर्धर्षौ भ्रातरौ मधुकैठभौ ।
हतौ भगवता तेन ततो दत्त्वा वरं परम् ॥
भूमिं बद्ध्वा कृतौ पूर्वावजेयौ द्वौ महाऽसुरौ ।
तौ कर्णमलसंभूतौ विष्णोस्तस्य महात्मनः ॥
महार्णवे प्रस्वपतः शैलराजसमौ स्थितौ ।
तौ विवेश स्वयं वायुर्ब्रह्मणा साधु चोदितः ॥
तौ दिवं छादयित्वा तु ववृधाते महाऽसुरौ ।
वायुप्रमाणौ तौ दृष्ट्वा ब्रह्मा पर्यमृशच्छनैः ॥
एकं मृदुतरं वेत्ति कठिनं वेत्ति चापरम् ।
नामनी तु तयोश्चके सविता सलिलोद्भवः ॥
मृदुस्त्वयं मधुर्नाम कठिनः कैठभः स्वयम् ।
तौ दैत्यौ कृतनामानौ चेरतुर्बलगर्वितौ ॥
तौ पुराऽथ दिवं सर्वां प्राप्तौ राजन्महासुरौ ।
प्रच्छाद्याथ दिवं सर्वां चेरतुर्मधुकैठभौ ॥
सर्वमेकार्णवं लोकं योद्धुकामौ सुनिर्भयौ ।
तौ गतावसुरौ दृष्ट्वा ब्रह्मा लोकपितामहः ॥
एकार्णवाम्बुनिचये तत्रैवान्तरधीयत ।
स पद्मात्पद्मनाभस्य नाभिदेशात्समुत्थितात् ॥
आससाद स्वयं जन्म तत्पङ्कजमपङ्कजम् ।
पूजयामास वसतिं ब्रह्मा लोकपितामहः ॥
तावुभौ जलगर्भस्थौ नारायणचतुर्मुखौ ।
बहून्वर्षायुतानप्सु शयानौ न च कम्पितौ ॥
अथ दीर्घस्य कालस्य तावुभौ मधुकैठभौ ।
आजग्मतुस्तौ तं देशं यत्र ब्रह्मा व्यवस्थितः ॥
तौ दृष्ट्वा लोकनाथस्तु रोषात्संरक्तलोचनः ।
उत्पपाताथ शयनात्पद्मनाभो महाद्युतिः ॥
तद्युद्धमभवद्घोरं तयोस्तस्य च भारत ।
एकार्णवे तदा घोरे त्रैलोक्ये जलतां गते ॥
तदभूत्तुमुलं युद्धं वर्षसङ्ख्यासहस्रशः ।
न च तावसुरौ युद्धे तदा श्रममवापतुः ॥
अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ ।
ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम् ॥
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः ।
आवां जहि न यत्रोर्वा सलिलेन पिरप्लुता ॥
हतौ च तव पुत्रत्वं प्राप्नुयाव सुरोत्तम ।
यो ह्यानां युधि निर्जेता तस्यावां विहितौ सुतौ ॥
तयोस्तु वचनं श्रुत्वा तदा नारायणः प्रभुः ।
तौ प्रहस्य मृधे दैत्यौ दोर्भ्यां च समपीडयम् ॥
ऊरुभ्यां निधनं चक्रे तावुभौ मधुकैठबौ ।
तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ ॥
मेदो मुमुचतुर्दैत्यौ मज्जमानौ जलोर्मिभिः ।
मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे तदा ॥
नारायणश्च भगवानसृजद्विविधाः प्रजाः ।
दैत्ययोर्मेदसा छन्ना सर्वा राजन्वसुन्धरा ॥
तदाप्रभृति कौन्तेय मेदिनीति स्मृता मही ।
प्रभावात्पद्मनाभस्य शाश्वती च कृता नृणाम् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥