अध्यायः 051

युधिष्ठिरेण भीष्मम्प्रति विस्तरेण कृष्णकथाकथनप्रार्थना ॥ 1 ॥ देवासुरयुद्धे पराजितानां देवानां स्मरणमात्रसंनिहितेन हरिणा दैत्यानां परा जयः ॥ 2 ॥ भूम्या स्वभारावतरणं प्रार्थितेऽस्य विष्णोः भूमाववतारनिर्धारणम् ॥ 3 ॥

वैशम्पायन उवाच ॥

एवमुक्ते तु कौन्तेयस्ततः कौरवनन्दनः ।
आबभाषे पुनर्भीष्णे धर्मराजो युधिष्ठिरः ॥
भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः ।
जन्म वृष्णिषु विज्ञातुमिच्छामि वदतां वर ॥
यथैव भगवाञ्जातः क्षिताविह जनार्दनः ।
माधवेषु महाबुद्धिस्तन्मे ब्रूहि पितामह ॥
वैशम्पायन उवाच ।
एवमुक्तस्ततो भीष्मः केशवस्य महात्मनः ।
माधवेषु तथा जन्म कथयामास वीर्यवान् ॥
हन्त ते कथयिष्यामि युधिष्ठिर यथातथम् ।
यतो नारायणस्येह जन्म वृष्णिषु कौरव ॥
पुरा लोके महाराज वर्तमाने कृते युगे ।
आसीत्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः ॥
विरोचनो मयस्तारो वराहः श्वेत एव च ।
विप्रचित्तिः प्रलम्बश्च वृत्रजम्भबलादयः ॥
नमुचिः कालनेमिश्च प्रह्लाद इति विश्रुतः ।
लम्बः किशोरः स्वर्भानुररिष्टो राक्षसेश्वरः ॥
एते चान्ये च बहवो दैत्यसङ्घाः सहस्रशः ।
नानाशस्त्रधरा राजन्नानाभूषणवाहनाः ॥
देवतानामभिमुखास्तस्थुर्दैतेयदानवाः ।
देवास्तु युध्यमानास्ते दानवानभ्ययू रणे ॥
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
इन्द्रो यमश्च वरुणश्चन्द्रश्चैव धनेश्वरः ॥
अश्विनौ च महावीर्यौ ये चान्ये देवतागणाः ।
चक्रुर्युद्धं महाघोरं दानवैश्च यथाक्रमम् ॥
युध्यमानाः समेयुश्च देवा दैतेयदानवैः ।
तद्युद्धमभवद्घोरं देवदानवसङ्कुलम् ॥
ताभ्यां बलाभ्यां सञ्जज्ञे तुमुलो विग्रहस्तदा ।
तीक्ष्णशस्त्रैः किरन्तोऽथ अभ्ययुर्देवदानवाः ॥
घ्रन्ति देवान्सगन्धर्वान्सयक्षोरगचारणान् ।
ते वध्यमाना दैतेयैर्देवसङ्घास्तदा रणे ॥
त्रातारं मनसा जग्मुर्देवं नारायमं प्रभुम् ।
एतस्मिन्नन्तरे तत्र जगाम हरिरीश्वरः ॥
दीपयञ्ज्योतिषा भूमिं शङ्खचक्रगदाधरः ।
तमागतं सुपर्णस्थं विष्णुं लोकनमस्कृतम् ॥
दृष्ट्वा मुदा युताः सर्वे भयं त्यक्त्वा रमे सुराः ।
चक्रुर्युद्धं पुनः सर्वे देवा दैतेयदानवैः ॥
तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम् ।
जघ्रुर्दैत्यान्त्रणे घोराः सर्वे शक्रपुरोगमाः ॥
ते बाध्यमाना बिबुधैर्दुद्रुवुदैत्यदानवाः ॥
विद्रुतान्दानवान्दृष्ट्वा तदा भारत संयुगे ।
कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यता ॥
शत्रुप्रहरणे घोरः शतबाहुः शताननः ।
शतशीर्षः स्थितः श्रीमाञ्छतशृङ्गं इवाचलः ॥
भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः ।
धूम्रकेतुर्हरिश्मश्रुर्निर्दष्टोष्ठपुटाननः ॥
त्रैलोक्यान्तरविस्तारं धारयन्विपुलं वपुः ।
तर्जयन्वै रणे देवाञ्छादयन्वै दिशो दश ॥
अभ्यधावत्सुसङ्क्रुद्धो व्यादितास्य इवान्तकः ।
तत्र शस्त्रप्रतानैश्च देवान्धर्षितवान्त्रणे ॥
अभ्याययुः सुरान्सर्वान्पुनस्ते दैत्यदानवाः ।
आपीडयन्त्रणे क्रुद्धास्ततो देवान्युधिष्ठिर ॥
ते वध्यमाना विबुधाः समरे कालनेमिना ।
दैत्यैश्चैव महाराज दुद्रुवुस्ते दिशो दश ॥
विबुधान्विद्रुतान्दृष्ट्वा कालनेमिर्महा ।ञसुरः ।
इन्द्रं यमं च वरुणं वायुं च धनदं रविम् ॥
एतांश्चान्यान्बलाञ्जित्वा तेषां कार्याण्यवाप सः ।
तान्सर्वान्सहसा जित्वा कालनेमिर्महासुरः ॥
ददर्श गगने विष्णुं सुपर्णस्थं महाद्युतिम् ।
तं दृष्ट्वा क्रोधताम्राक्षस्तर्जयन्नभ्ययात्तदा ॥
स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे ।
रोषाद्भारत दैत्येन्द्रो विष्णोरुरसि पातयत् ॥
दैत्याश्च दानवाश्चैव सर्वे मयपुरोगमाः ।
स्वान्यायुधानि सङ्गृह्य सर्वे विष्णुमुपाद्रवन् ॥
स ताड्यमानो ।ञतिबलैर्दैत्यैः सर्वायुघोद्यतैः ।
न चचाल हरिर्युद्धेऽकम्पमान इवाचलः ॥
पुनरुद्यम्य सङ्क्रुद्धः कालनेमिर्दृढां गदाम् ।
जघान गदया राजंस्तं विष्णुं गरुडं च वै ॥
तं दृष्ट्वा गुरडं श्रान्तं चक्रमुद्यस्य वै हरिः ।
शतं शिरांसि बाहूंश्च सोच्छिनत्कालनेमिनः ॥
जघानान्यांस्च तान्सर्वान्समरे दैत्यदानवान् ।
विबुधानामृषीणां च स्वानि स्थानानि वै ददौ ॥
दत्त्वा सुराणां सुग्रीतो योग्यकर्माणि भारत ।
जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा हरिः ॥
ब्रह्मलोकं प्रविश्याश्च प्राप्य नारायणः प्रभुः ।
पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रयम् ॥
स प्रविश्य तदा देवः स्तूयमानो महर्षिभिः ।
सहस्रशीर्षा भूत्वा च शयनायोपचक्रमे ॥
आदिदेवः पुराणात्मा निद्रावशमुपागतः ।
शेते सुखं सदा विष्णुर्मोहयञ्जगदव्ययः ॥
जग्मुस्तस्याथ वर्षाणि शयानस्य महात्मनः ।
षट््त्रिंशच्छतसाहस्रं मानुषेणेह सङ्ख्यया ॥
जग्मुः कृतयुगत्रेताद्वापरान्ते बुबोध ह ।
ब्रह्मादिभिः स्तूयमानः सुरैश्चापि सहर्षिभिः ॥
उत्पत्य शयनाद्विष्णुर्ब्रह्मणा विबुधैः सह ।
देवानां च हितार्थाय ययौ देवसभां प्रति ॥
मेरोः शिरसि विन्यस्तां ज्वलन्तीं तां शुभां सभाम् ।
विविशुस्ते सुराः सर्वे ब्रह्मणा सह भारत ॥
जग्मुस्तत्र निषेदुस्ते सा निःशब्दा ह्यभूत्तदा ।
तत्र भूमिरुवाचाथ खेदात्करुणभाषिणी ॥
राज्ञां बलैर्बलवतां खिन्नास्मि भृशपीडिता ।
नित्यं भारपरिश्रान्ता दुःखं जीवाम्यहं सुराः ॥
पुरे पुरे च नृपतिः कोटिसङ्ख्यैर्बलैर्वृतः ।
राष्ट्रे राष्ट्रे च शतशो ग्रामाः कुलसहस्रिणः ॥
भूमिपानां सहस्रैश्च तेषां च बिलनां बलैः ।
ग्रामायुतैः पुरै राष्ट्रैरहं निर्विवरीकृता ॥
तस्माद्धारयितुं शक्त्या न क्षमासि जनानहम् ।
दैत्यैश्च बाध्यमानास्ताः प्राज नित्यं दुरात्मभिः ॥
भीष्ण उवाच ।
भूमेस्तु वचनं श्रुत्वा देवो नारायणस्तदा ।
व्यादिश्य तान्सुरान्सर्वान्क्षितौ वस्तुं मनो दधे ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥

2-51-42 कृतयुगत्रेताद्वापराः अन्त इति छेदः ॥