अध्यायः 052

विष्णुना देवानां भूमावुत्पत्तये आज्ञापनम् ॥ 1 ॥ अवतीर्णे कृष्णे स्वर्गादागतानामिन्द्रादीनां श्रीकृष्णं स्तुत्वा पुनः स्व लोकगमनम् ॥ 2 ॥ श्रीकृष्णेन शकटासुरवधः । अर्जुनतरुभञ्जनम् । बृन्दावं गत्वा वने विहरणम् ॥ 3 ॥

भीष्ण उवाच ।

यच्चके भगवान्विष्णुर्वसुदेवसुतस्तदा ।
तत्तेऽहं सम्प्रवक्ष्यामि शृणु स्रवमशेषतः ॥
वासुदेवस्य महात्म्यं चरितं च महात्मनः ।
हितार्थं सुरसर्त्यानां लोकानां च हिताय च ॥
यदा दिवि विभुस्तात न रेमे भगवानसौ ।
ततो व्यादिशय भूतानि विभुर्भूमिसुखावहः ॥
निग्रहार्थाय दैत्यानां चोदयामास वै तदा ।
मुरुतश्च वसूंश्चैव सूर्याचन्द्रमसावुभौ ॥
गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाऽश्विनौ ।
जायध्वं मानुषे लोके सर्वलोकमहेश्वराः ॥
जङ्गमानि विशालाक्षो ह्यात्मार्थमसृजत्प्रभुः ।
जायन्तामिति गोविन्दस्तिर्यग्योनिगतैः सह ॥
तानि सर्वाणि सर्वज्ञो व्यजायत यदोः कुले । आत्मानमात्मना तात कृत्वा बहुविधं हरिः ।
रत्यर्थमिह गास्तत्र ररक्ष पुरुषोत्तमः ।
अजातशत्रो जातस्तु यथेष्ट भुवि भूमिप ।
कीर्त्यमानं मया तात निबोध भरतर्षभ ॥
सागराः समकम्पन्त मुदा चेलुश्च पर्वताः ।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥
शिवाः सम्प्रववुर्वाताः प्रशान्तमभवद्रजः ।
ज्योतींषि सम्प्रकाशन्त जायमाने जनार्दने ॥
देवदुन्दुभयश्चापि सस्वनुर्भृशमम्बरे ।
अभ्यवर्षंस्तदाऽऽगम्य देवताः पुष्पवृष्टिभिः ॥
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्वै मधुसदनम् ।
उपतस्थुस्तदा प्रीताः प्रादुर्भावे महर्षयः ॥
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् ।
उपानृत्यन्नुपजगुर्गन्धर्वाप्सरसां गणाः ॥
उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः ।
अभ्यभाषत तेजस्वी महर्षीन्पूजयंस्तदा ॥
कृत्वा च देवकार्याणि कृत्वा देवहितानि च ।
खं लोकं लोककृद्देवः पुनर्गच्छति तेजसा ॥
इत्युक्त्वा ऋषिभिः सार्घं जगाम त्रिदिवं पुनः ।
अभ्यनुज्ञाय तान्सर्वाञ्छादयन्प्रकृतिं पराम् ॥
नन्दगोपकुले कृष्ण उवास बहुलाः समाः ।
ततः कदाचित्सुप्तं तं शकटस्य त्वधः शिशुम् ॥
यशोदा सम्परित्यज्य जगाम यमुनां नदीम् ।
शिशुलीलां ततः कुर्वन्स्वहस्तचरणौ क्षिपन् ॥
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन् ।
पादाङ्गुष्ठेन शकटं दारयन्नथ केशवः ॥
तत्र एकेन पादेन पातयित्वा तथा शिशुः ।
न्युब्जं पयोधराकाङ्क्षी ससार च रुरोद च ॥
पाटितं शकटं दृष्ट्वा भिन्नभाण्डपुटीकटम् ।
जनास्ते शिशुना तेन विस्मयं परमं ययुः ॥
प्रत्यक्षं शूरसेनानां दृश्यते महदद्भुतम् ।
शयानेन हतः कंसपक्षवांस्तिग्मतेजसा ॥
पूतना चापि निहता महाकाया महास्तनी ।
ततः काले महाराज संसक्तौ रामकेशवौ ॥
कृष्णः सङ्कर्षणश्चोभौ रिङ्खिणौ च बभूवतुः ।
अन्योन्यकिरणाक्रान्तौ चन्द्रसूर्याविवाम्बरे ॥
विसर्पन्तौ च सर्वत्र महासर्पभुजौ तदा ।
रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप ॥
क्वचिच्च जानुभिः स्पृष्टौ क्रीडमानौ क्वचिद्वने ।
पिबन्तौ दधिकुल्यांश्च मथ्यमाने च भारत ॥
ततः स बालो गोविन्दो नवनीतं तदा क्षयम् ।
ग्रासमानस्तु तत्रायं गोपीभिर्ददृशे तथा ॥
दाम्नाऽथोलूखले कृष्णो गोपीभिश्च निबन्धितः ।
तत्तथा शिशुना तेन कर्षता चार्जुनावृभौ ॥
समूलविटपौ भग्नौ तदद्भुतमिवाभवत् ।
ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ ॥
तस्मिन्नेव व्रजस्थाने सप्तवर्षै बभूवतुः ।
नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ॥
बभुवतुर्वत्सपालौ काकपक्षधरावुभौ ।
पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ ॥
शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ ।
मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ ॥
वनमालापरिक्षिप्तौ सालपोताविवोद्गतौ ।
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ ॥
सशिक्यतुम्बुरुकरौ गोपवेणुप्रवादकौ ।
क्वचिद्वसन्तावन्योन्यं क्रडमानौ क्वचिद्वने ॥
पर्णशय्यासु तौ सुप्तौ क्वचिन्निद्रान्तरैषिणौ ।
तौ वत्सान्पालयन्तौ हि शोभयन्तौ महद्वनम् ॥
चञ्चूर्यन्तौ रमन्तौ च राजन्नेवं तदा शुभम् । ततो बृन्दावनं गत्वा वसुदेवसुतावुभौ ।
गोकुलं तत्र कौन्येय चारयन्तौ विजह्रतुः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि द्विपञ्चाशोऽध्यायः ॥ 52 ॥