अध्यायः 055

कृष्णस्य मधुरां त्यक्त्वा द्वारकागमनम् ॥ 1 ॥ नरकासुरप्रतापवर्णनम् ॥ 2 ॥ इन्द्रेण द्वारकामेत्य कृष्णं प्रति नरकवधप्रार्थनम् ॥ 3 ॥ गरुडमारुह्य प्राग्ज्योतिचं गतेन कृष्णेन निहते धरण्या तस्मै कुण्डलार्पणम् ॥ 4 ॥

भीष्ण उवाच ॥

शूरसेनपुरं त्यक्त्वा ततो यादवनन्दनः ।
द्वारकां भगवान्कृष्णः प्रत्यपद्यत भारत ॥
ततो महात्मा यानानि रत्नानि विविधानि च ।
यथार्हं पुण्डरीकाक्षो नैर्ऋतात्प्रत्यपद्यत ॥
तत्र विघ्नं चरन्ति स्म दैतेयाः सहदानवैः ।
ताञ्जघान महाबाहुर्वरमत्तान्महासुरान् ॥
स विघ्नमकरोत्तत्र नरको नाम नैर्ऋतः ।
अदितिं धर्षयामास कुण्डलार्थं युधिष्ठिर ॥
न चासुरगणैः सर्वैः सहितैः कर्म तत्पुरा ।
कृतपूर्वं महाघोरं यदकार्षीन्महासुरः ॥
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम् ।
विषयान्तपालाश्चत्वारो यस्यासन्युद्धदुर्मदाः ॥
आदेवयानमावृत्य पन्थानं पर्यवस्थिताः ।
त्रासनाः सुरसङ्घानां विरूपै राक्षसैः सह ॥
हयग्रीवो निकुम्भश्च घोरः पञ्चजनस्तदा ।
मुरः पुत्रसहस्रैश्च वरमत्तो महासुरः ॥
तद्वधार्थं महाबाहुरेष चक्रगदासिभृत् ।
जातो वृष्णिषु देवक्यां वासुदेवो जनार्दनः ॥
तस्यास्य पुरुषेन्द्रस्यलोकप्रथिततेजसः ।
निवासो द्वारकायां तु विदितो वः प्रधानतः ॥
अतीव हि पुरी रम्या द्वारका वासवक्षयात् ।
अतिवैराजमप्यद्धा प्रत्यक्षस्ते युधिष्ठिर ॥
तस्मिन्देवपुरप्रख्ये सा सभा वृष्ण्युपाश्रया ।
सुधर्मेति च विख्याता योजनायतविस्तृता ॥
तत्र वृष्ण्यन्दकाः सर्वे रामकृष्णपुरोगमाः ।
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते ॥
तत्रासीनेषु सर्वेषु कदाचिद्भरतर्षभ ।
दिव्यगन्धा ववुर्वाताः कुसुमानां च वृष्टयः ॥
ततः सूर्यसहस्राभस्तेजोराशिर्महाद्भुतः । मध्ये तु तेजसस्तस्य पाण्डरं गजमास्थितः ।
वृतो देवगणैः सर्वैर्वासवः प्रत्यदृश्यत ॥ रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह ।
उत्पत्य सहसा देवे नमस्कारमकुर्वत ॥ सोऽवतीर्य गजात्तूर्णं परिष्वज्य जनार्दनम् ।
सस्वजे बलदेवं च राजानं च तमाहुकम् ॥ वासुदेवोद्धवौ चैव विकद्रुं च महामतिम् ।
प्रद्युम्नसाम्बनिशठाननिरुद्धं च सात्यकिम् ॥ गदं सारणमक्रूरं भानुझल्लिविडूरथान् ।
तथैव कृतवर्णाणां चारुदेष्णं महाबलम् ॥ देवकल्पान्महाराज तान्दाशार्हपुरोगमान् ।
पिरिष्वज्य च दृष्ट्वा च भगवान्भूतभावनः ॥ वृष्ण्यन्धकमहामात्रान्परिष्वज्याथ वासवः ।
प्रगृह्य पूजां तैर्दत्तां भगवान्पाकशासनः ॥ सोऽदितेर्वचनात्तात कुण्डलार्थे जनार्दनम् ।
उवाच परमप्रीतो जहि भौमं नरेश्व ॥
भीष्ण उवाच ।
निहत्य नरकं भौममाहरिष्यामि कुण्डले ।
एवमुक्त्वाऽथ गोविन्दो राममेवाभ्यभाषत ॥ प्रद्युम्नमनिरुद्धं च साम्बं चाप्रतिमं बले ।
एतांश्चोच्त्का तथा तत्र वासुदेवो महायशाः ॥ अथारुह्य सुपर्णं वै शङ्खचक्रगदासिभृत् ।
ययौ तदा हृषीकेशो देवानां हितकाम्यया ॥ तं प्रयान्तममित्रघ्नं देवाः सहपुरन्दराः ।
पृष्ठतोऽनुययुः प्रीत्या स्तुवन्तो विष्णुमच्युतम् । उग्रान्त्रक्षोगणान्हत्वा नरकस्य महासुरान् ।
क्षुरान्तान्मौरवान्पाशान्षट््सहस्रं ददर्श सः ॥ स़ञ्छिद्य पाशाच्छस्त्रेण मुरं हत्वा सहान्वयम् ।
शैलसङ्घानतिक्रम्य निशुम्भं च व्यपोथयत् ॥
यः सहस्रसहस्त्वेकः सर्वान्देवानपोथयत् ।
तं जघान महावीर्यं हयग्रीवं महाबलम् ॥
अपारतेजा दुर्धर्षः सर्वयादवनन्दनः ॥
मध्ये लोहितगङ्गायां भगवान्देवकीसुतः ॥
औदकायां विरूपाक्षं जघान मधुसूदनः । ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया ।
पुरमासादयामास तत्र युद्धमवर्तत ॥
तद्युद्धमभवद्घोरं तेन भौमेन भारत ।
कुण्डलार्थे सुरेशस्य नरकेण महात्मना ॥
मुहूर्तं लालयित्वा तु नरकं मधूसूदनः ।
प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद्बली ॥
चक्रप्रमथितं तस्य पपात सहसा भुवि ।
उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा ॥
भूमिस्तु पतितं दृष्ट्वा प्रायच्छत्कुण्डले सुतम् ।
प्रदाय च महाबाहुमिदं वचनमब्रवीत् ॥
सृष्टस्त्वयैव मधुहंस्त्वयैव विनिपातितः ।
यथेच्छसि तथा क्रीडा प्रजास्तस्यानुपालय ॥
श्रीवासुदेव उवाच ।
देवानां च मुनीनां च पितॄणां च महात्मनाम् ।
उद्वेजनीयो भूतानां ब्रह्मद्विद् पुरुषाधमः ॥
लोकद्विष्टः सुतस्ते तु देवारिर्लोककण्टकः ।
सर्वलोकनमस्कार्यामदितं बाधयद्वली ॥
कुण्डले हृतवान्दर्पात्ततस्ते निहतः सुतः ।
नैव मन्युस्त्वया कार्यो यत्कृतं मयि भामिनि ॥
त्वत्प्रभावाच्च ते पुत्रो लब्धवान्गतिमुत्तमाम् ।
तस्माद्गच्छ महाभागे भारावतरणं कृतम् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥