अध्यायः 057

द्वारकावर्णनम् ॥ 1 ॥ रुक्मिणीसत्यभामादिगृहवर्णनम् ॥ 2 ॥ कृष्णेन स्वर्गादानीतस्व पारिजातस्य प्रतिष्ठापनमुद्यान वर्णनं च ॥ 3 ॥

भीष्ण उवाच ॥

तां पुरी द्वारकीं दृष्ट्वा विभुर्नारायणो हरिः ।
हृष्टः सर्वार्थसम्पन्नः ------- ॥
सोऽपश्यद्वृक्षषण्डांश्च रम्यान्नानाजनान्वहून् ।
समन्ततो द्वारवत्यां नानापुष्पफलान्वितान् ॥
अर्कचन्द्रप्रतीकाशैर्मेरुकूटनिभैर्गृहैः ।
द्वारकामावृतां रम्यां सुकृतां विश्वकर्मणा ॥
पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः ।
गङ्गासिन्धुप्रकाशाभिः परिघाभिरलङ्कृताम् ॥
प्राकारेणार्कवर्णेन पाण्डरेण विराजिताम् ।
वियन्मूर्ध्नि निविष्टेन द्यामिवाभ्रपरिच्छदाम् ॥
नन्दनप्रतिमैश्वापि मिश्रकप्रतिमैर्वनैः ।
तत्र सा विहिता साक्षान्नगरी विश्वकर्मणा ॥
------------ जनहर्षिणी ।
------------ प्रसादप्रवरैः शुभा ॥
तस्मिन्पुरवारश्रेष्ठे दाशार्हाणां यशस्विनाम् ।
नेश्मानि जहृषे दृष्ट्वा भगवान्पाकशासनः ॥
समुच्छ्रितपताकानि पारिप्लवनिभानि च ।
------------ मेरुकूटनिभानि च ॥
----- ---
---- सधातुभिरिवाद्रिभिः ॥ 2-57-12a----- ----------- जाम्बूनदमयद्वारैर्वैडूर्यविकृतार्गलैः ॥
सर्वर्तुसुखसंस्यर्शैर्महाधनपरिच्छदैः ।
रम्यसानुगृहैः शृङ्गैर्विचित्रैरिव पर्वतैः ॥
पञ्चवर्णसवर्णैश्च पुष्पवृष्टिसमप्रभैः ।
तुल्यैः पर्जन्यनिर्घोषैर्ह्रादैर्भोगवती यथा ॥
कृष्णध्वजोपवाह्यैश्च दाशार्हायुधरोहितैः ।
वृष्णिवीरमयूरैश्च स्त्रीसहस्रप्रजाकुलैः ॥
वासुदेवैन्द्रपर्जन्यैर्गृहमेघैरलङ्कृता ।
ददृशे द्वारकाऽतीव मेघैर्द्यैरिव संवृता ॥
साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा ।
ददृशुर्वासुदेवस्य चतुर्योजनमायतम् ॥
तावदेव सुविस्तीर्णं सुसम्पूर्णं महाधनैः ।
प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः ॥
यं चकार महाभागस्त्वष्टा वासवचोदितः ।
प्रासादं हेमनाभस्य सर्वतो योजनायतम् ॥
मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनालयम् ।
रुक्मिण्याः प्रवरो वासो निर्मितः सुमहात्मना ॥
सत्यभामा पुनर्वेश्म सदा वसति पाण्डरम् ।
विचित्रमणिसोपानं यं विदुः शीतवानिति ॥
विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम् ।
व्यक्तबद्धं यथोद्देशे चतुर्दशमहाध्वजम् ॥
सर्वप्रासादमुख्योऽत्र जाम्बवत्या विभूषितः ।
प्रभाया जृम्भणैश्चित्रैस्त्रैलोक्यमिव भासयन् ॥
यस्तु पाण्डरवर्णाभस्तयोरन्तरमाश्रितः ।
विश्वकर्माकरोदेनं कैलासशिखरोपमम् ॥
जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः ।
सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः ॥
तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी ।
सुकेशी नाम विख्याता केशवेन निवेशिता ॥
पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः ।
सुप्रभाया महाबाहो वासः स परमोच्छ्रितः ॥
यस्तु सूर्यप्रभो नाम प्रासादवर उच्यते ।
लक्षणायाः कुरुश्रेष्ठ स दत्तः शार्ङ्गधन्वना ॥
वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः ।
श्वेतजाला हि यत्रैव यत्रैव च निवेशिता ॥
यं विदुः सर्वभूतानि हरिरित्येव भारत ।
सुमित्रविजयावासो देवर्षिगणपूजितः ॥
महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम् ।
यस्तु प्रासादमुख्योऽत्र विहितः सर्वशिल्पिभिः ॥
महिष्या वासुदेवस्य केतुमानिति विश्रुतः ।
प्रसादो विरजो नाम विरजस्को महात्मनः ॥
उपस्थानगृहं तात केशवस्य महात्मनः ।
यस्तु प्रासादमुख्योऽत्र यं त्वष्टा व्यदधात्स्वयम् ॥
योजनायतविष्कम्भं सर्वरत्नमयं विभोः ।
तेषां तु विहिताः सर्वे रुक्मदण्डाः पताकिनः ॥
सदने वासुदेवस्य मार्गसञ्जनना ध्वजाः ।
घण्टाजालानि तत्रैव सर्वेषां निवेशने ॥
आहृत्य यदुसिंहेन वैजयन्तच्छलो महात् ।
हंसकूटस्य यच्छ्रङ्गमिन्द्रद्युम्नसरो महत् ॥
षष्टितालसमुत्सेधमर्धयोजनविस्तृतम् ।
सकिन्नरमहानादं तदप्यमिततेजसः ॥
पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम् ।
आदित्यपथगं यत्तन्मेरोः शिखरमुत्तमम् ॥
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् ।
तदप्युत्पाट्य कुच्छ्रेण स्वं निवेशनमाहृतम् ॥
भ्राजमानं पुरा तत्र सर्वौषधिविदीपितम् ।
यमिन्द्रभवनाच्छौरिराजहार परन्तपः ॥
पारिजातः स तत्रैव केशवेन निवेशितः ।
लेपहस्तशतैर्जुष्टो विमानैश्च हिरण्मयैः ॥
विहिता वासुदेवेन तत्रैव च महाद्रुमाः ।
पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः ॥
मणिमौक्तिकवालूकाः पुष्करिण्यः सरांसि च ।
तासां परमकूलि शोभयन्ति महाद्रुमाः ॥
सालतालाश्वकर्णाश्च शतशाखाश्च रोहिणः ।
भल्लातककपित्थाश्च इन्द्रवृक्षाश्च चम्पकाः ॥
खादिरा मृतकाश्चैव समन्तात्परिरोपिताः ।
ये च हैमवता वृक्षा ये च नन्दनजास्तथा ॥
आहृत्य यदुसिंहेन तेऽपि तत्र निवेशिताः ।
रत्नपीतारुणप्रख्याः सितपुष्पाश्च पादपाः ॥
सर्वर्तुफलपूर्णोस्ते ते च काननसिन्धुषु ।
सहस्रपत्रपद्माश्च मन्दराश्च सहस्रशः ॥
अशोकाः कर्णिकाराश्च तिलका नाग मल्लिकाः ।
कुरका नागपुष्पाश्च चम्पकास्तृणपुल्लिकाः ॥
सप्तवर्णाः कबन्धाश्च नीपाः कुरवकास्तथा ।
केतकाः केसराश्चैव हिनतालतलताटकाः ॥
तालाः प्रलम्बा वकुलाः पिण्डिका बीजपूरकाः ।
द्रुतामलकखर्जूरा महिता जम्बुकास्तथा ॥
आम्राः पनसवृक्षाश्च चम्पकास्तिलतिन्दुकाः ।
लिकुचामृताश्चैव क्षीरिका कर्णिका तथा ॥
नालिकेरेङ्गुदाश्चैव उत्क्रोशकवनानि च ।
कदली जातमल्ली च पाटली कुमुदोत्पलाः ॥
नीलोत्पलकपूर्णाश्च वाप्यः कूपाः सहस्रशः ।
फुल्लाशाककपित्थाश्च तैस्तीर्त्वा बन्धुजीवकाः ॥
प्रियालाशोकवादिर्याः प्राचीनाश्चापि सर्वशः ।
प्रियङ्गुबदरीभिश्च यवैः स्यन्दनचन्दनैः ॥
शचीपीलुपलाश्चैश्च पलाशवधपिप्लैः ।
उदुम्बरैश्च बिल्वैश्च पालाशैः पारिभद्रकैः ॥
इन्द्रवृक्षार्जुनैश्चैव अश्वत्थैश्चिरबिल्वकैः ।
भौमगञ्जनवृक्षैश्च भल्लाभैरश्वसाह्वयैः ॥
सज्जैस्ताम्बूलवल्लीभिर्लवङ्गैः क्रमुकैस्तथा ।
वंशैश्च विविधैस्तत्र समन्तात्परिरोपितैः ॥
ये च नन्दनजा वृक्षा ये च चैत्ररथे वने ।
सर्वे ते यदुनाथेन समन्तात्परिरोपिताः ॥
समाहिता महानद्यः पीतलोहितवालुकाः ।
तस्मिन्गृहवरे रम्ये मणिशक्रसवालुकाः ॥
मत्तबर्हिणनादाश्च कोकिलाश्च मदावहाः ।
बभूवुः परमोपेताः सर्वे जगति पर्वताः ॥
तत्रैव गजयूथानि तत्र गोमहिषास्तथा ।
निवासाश्च कृतास्तत्र वराहा मृगपक्षिणाम् ॥
विश्वकर्मकृतः शैलः प्राकारस्तत्र वेश्मनि ।
व्यक्तकिष्कुशतोद्यामः सुधारससमप्रभः ॥
तेन ते च महाशैलाः सरितश्च सरांसि च ।
परिक्षिप्तानि वै तस्य वनान्युपवनानि च ॥ ॥

इति श्रीमन्महाभारते सभापर्वण अर्घाहरणपर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥