अध्यायः 063

राज्ञां रणोद्यमाद्विभ्यतो युधिष्ठिरस्य भीष्णेण समाश्वासनम् ॥ 1 ॥

वैशम्पायन उवाच ॥

ततः सागरसङ्काशं दृष्ट्वा नृपतिमण्डलम् । संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम् ।
रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः । भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम् ।
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा ।
असौ रोषात्प्रचलितो महान्नृपतिसागरः ।
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह ॥
यज्ञस्य च न विघ्नः स्यात्प्रजानां च हितं भवेत् ।
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह ॥
इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे ।
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ॥
मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति ।
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः ॥
प्रसुप्ते हि यथा सिंहे श्वानस्तात समागताः ।
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः ॥
वृष्णिसिंहस्य सुप्तस्य तथाऽमी प्रमुके स्थिताः ।
भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य सन्निधौ ॥
न हि सम्बुध्यते यावत्सुप्तः सिंह इवाच्युतः । ` तदिदं ज्ञातपूर्वं हि तव संस्तोतुमिच्छसि' ।
तेन सिंहीकरोत्येतानसिंहश्चेदिपुङ्गवः ॥
पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः ।
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् ॥
नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः ।
यदस्य शिशुपालस्य तेजस्तिष्ठति भारत ॥
विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर ।
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षितम् ॥
आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा ।
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा ॥
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः ।
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर ॥
वैशम्पायन उवाच ।
इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः ।
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥

2-63-7 भषणं श्वरवः ॥