अध्यायः 064

शिशुपालेन भीष्मस्तृतकृष्णचरित्रापहसनपूर्वकं भीष्मोपालम्भनम् ॥

शिशुपाल उवाच ।

बिभीषिकाभिर्बह्वीभिर्भीषयन्भीष्म पार्थिवान् ।
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ॥
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया ।
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ॥
नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात् ।
तथाभूता हि कौरव्या येषां भीष्म त्वमग्रणीः ॥
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः ।
त्वया कीर्तयताऽस्माकं भूयः प्रव्यथितं मनः ॥
अवलिप्तस्य मूर्शस्य केशवं स्तोतुमिच्छतः ।
कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ॥
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः ।
तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ॥
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् ।
तौ वाऽश्ववृषभौ भीष्ण यौ न युद्धविशारदौ ॥
चेतनारहितं काष्ठं यद्यनेन निपातितम् ।
पादेन शकटं भीष्ण तत्र किं कृतमद्भुतम् ॥
`अर्कप्रमाणौ तौ वृक्षौ यद्यनेन निपातितौ । ' नागश्च दमितोऽनेन तत्र को विस्मयः कृतः' ॥
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः ।
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ॥
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि ।
इति ते भीष्ण शृण्वानाः परे विस्मयमागताः ॥
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः । स चानेन हतः कंस इत्येतत्तु बलीयसः ।
स चानेन हतः कंस इत्येतत्तु महाद्भुतम् ॥ न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् ।
यद्वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम ॥ स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च ।
इति सन्तोऽनुशासन्ति सञ्जना धर्मिणः सदा ।
भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते ॥
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम ।
अजानत इवाख्यासि संस्तुवन्कौरवाधम ॥
गोघ्रः स्त्रीघ्नश्च सन्भीष्म त्वद्वाक्याद्यदि पूज्यते ।
एवम्भूतश्च यो भीष्म कथं संस्तवमर्हति ॥
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः । सम्भावयति चाप्येवं त्वद्वाक्याच्च जनार्दनः ।
एवमेतत्सर्वमिति तत्सर्वं वितथं ध्रुवम् ॥
आत्मानमात्मनाऽऽधातुं यदि शक्तो जनार्दनः ।
अकामयन्तं तं भीष्म कथं साध्विव पश्यसि ॥
न गाथा गाथिनं शास्ति बहुचेदपि गायति ।
प्रकृतिं यान्ति भूतानि कुलिङ्गशकुनिर्यथा ॥
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयटः ।
`नदीसुतत्वात्ते चित्तं चञ्चलं न स्थिरं स्मृतम्' ॥
अतः पापीयसी चैषां पाण्डवानामपीष्यते ।
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः ॥
धर्मवांस्त्वमधर्मज्ञः सतां मार्गादवप्लुतः ।
को हि धर्मिणमात्मानं जानञ्ज्ञानविदां वरः ॥
कुर्याद्यथा त्वया भीषम कृतं धर्ममवेक्षता ।
चेत्त्वं धर्मं विजानासि यदि प्राज्ञा मतिस्तव ॥
अन्यकामा हि धर्मज्ञा कन्यका प्राज्ञमानिना ।
अम्बा नामेति भद्रं ते कथं साऽपहृता त्वया ॥
तां त्वयाऽपहृतां भीष्म कन्यां नैषितवान्नृपः ।
भ्राता विचित्रवीर्यस्ते सतां मार्गमनुस्मरन् ॥
भार्ययोर्यस्य चान्येन मिषतः प्राज्ञमानिनः ।
तव जातान्यपत्यानि सज्जनाचरिते पथि ॥
को हि धर्मोऽस्ति ते भीषम ब्रह्मचर्यमिदं वृथा ।
यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ॥
न त्वं तव धर्मज्ञ पश्याम्युपचरं क्वचित् ।
न हि ते सेविता वृद्धा य एवं धर्ममब्रवीः ॥
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः ।
सर्वमेतदपत्यस्य कलां नार्हन्ति षोडशीम् ॥
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् ।
सर्वं तदनपत्यस्य मोघं भवति निश्चयात् ॥
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् ।
हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ॥
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा ।
भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ॥
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा ।
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति च ॥
धर्म चरत माऽधर्ममिति तस्य वचः किल ।
पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः ॥
हंसस्य तु वचः श्रुत्वा मुदिताः सर्वपक्षिणः ।
ऊचुश्चैव स्वगा हंसं परिवार्य च सर्वशः ॥
कथयस्व भवान्सर्वं पक्षिणां तु समासतः ।
को हि नाम द्विजश्रेष्ठ ब्रूहि नो धर्म उत्तमः ॥
हंस उवाच ॥
प्रजास्वहिंसा धर्मो वै हिंसाऽधर्मः खगव्रजाः ।
एतदेवानुबोद्धव्यं धर्माधर्मः समासतः ॥
शिशुपाल उवाच ॥
वृद्धहंसवचः श्रुत्वा पक्षिणस्ते सुसंहिताः ।
ऊचुश्च धर्मलुब्धास्ते स्मयमाना इवाण्डजाः ॥
धर्मं यः कुरुते नित्यं लोके धीरतरोऽण्डजः ।
स यत्र गच्छेद्धर्मात्मा तन्मे ब्रूहीह तत्त्वतः ॥
हंस उवाच ॥
बाला यूयं न जानीध्वं धर्मसूक्ष्मं विहङ्गमाः । धर्मं यः कुरुते लोके सततं शुभबुद्धिना ।
न चायुषोऽन्ते स्वं देहं त्यक्त्वा स्वर्गं स गच्छति ॥
तथाऽहमपि च त्यक्त्वा काले देहमिमं द्विजाः ।
स्वर्गलोकं गमिष्यामि इयं धर्मस्य वै गतिः ॥
एवं धर्मकथां चक्रे स हंसः पक्षिणां भृशम् ।
पक्षिणः शुश्रुवुर्भीष्म सततं धर्ममेव ते ॥
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः ।
अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ॥
ते च तस्य समभ्याशे निक्षिप्याण्डानि सर्वशः ।
समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः ॥
तेषामण्डानि सर्वेषां भक्षयामास पापकृत् ।
स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि ॥
ततः प्रक्षीयमाणेषु तेषु तेष्वण्डजोऽपरः ।
अशङ्कत महाप्राज्ञः स कदाचिद्ददर्श ह ॥
ततः सङ्कथयामास दृष्ट्वा हंसस्य किल्बिषम् ।
तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् ॥
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समीपगाः ।
निजघ्नस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह ॥
एवं त्वां हंसधर्माणमपीमे वसुधाधिपाः ।
निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तं यथाण्डजम् ॥
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः ।
भीष्म यां तां च ते सम्यक्वथयिष्यामि भारत ॥
अन्तरात्मन्यभिहते रौषि पत्ररथाशुचि ।
अण्डभक्षणकर्मैतत्तव वाचमतीयते ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि चतुःषष्टितोऽध्यायः ॥ 64 ॥

2-64-2 तृतीयायां प्रकृतौ नपुंसकत्वे ॥ 2-64-20 कुलिगोनाम भूशायी पक्षी मासाहसमित्यनिशं वदन्नपि सिंहदंष्टान्तरस्थं मांसमा दत्ते स्वयं साहसमतिशयितं करोति ॥