अध्यायः 069

शिशुपाले सन्नद्धे सति उत्पातदर्शनेन युधिष्ठिरस्य प्रश्ने नारदेन तत्तदुत ्पातानां विशिष्य फलकथनम् ॥ 1 ॥

वैशम्पायन उवाच ॥

ततो युद्धाय संनद्धं चेदिराजं युधिष्ठिरः ।
दृष्ट्वा मतिमतां श्रेष्ठो नारदं समुवाच ह ॥
युधिष्ठिर उवाच ॥
अन्तरिक्षे च भूमौ च तेऽस्त्यविदितं क्वचित् ।
यानि राजविनाशाय भौमानि च खगानि च ॥
निमित्तानीह जायन्ते उत्पाताश्च पृथग्विधाः ।
एतदित्छामि कार्त्स्न्येन श्रोतुं त्वत्तो महामुने ॥
वैशम्पायन उवाच ।
इत्येवं मितमान्विप्रः कुरुराजस्य धीमतः ।
पृच्छतः सर्वमव्यग्रमाचचक्षे महायशाः ॥
नारद उवाच ॥
पराक्रमं च मार्गं च संनिपातं समुच्छ्रयम् ।
आरोहणं कुरुश्रेष्ठ अन्योन्यं प्रतिसर्पणम् ॥
पश्मीनां व्यतिसंसर्गं व्यायामं वृत्तिपीडनम् ।
दर्शनादर्शनं चैव अदृश्यानां च दर्शनम् ॥
हानिं वृद्धिं च ह्रासं च वर्णस्थानं बलाबलम् ।
सर्वमेतत्परीक्षेत ग्रहाणां ग्रहकोविदः ॥
भौमाः पूर्वं प्रवर्तन्ते खेचराश्च ततः परम् ।
उत्पद्यन्ते च लोकेऽस्मिन्नुत्पाता देवनिर्मिताः ॥
यदा तु सर्वभूतानां छाया न परिवर्तते ।
अपरेण गते सूर्ये तत्पराभवलक्षणम् ॥
अच्छाये विमलच्छाया प्रतिच्छायेव दृश्यते ।
यत्र चैत्यकवृक्षाणां तत्र विद्यान्महद्भयम् ॥
शीर्णपर्णप्रवालाश्च शुष्कपर्णाश्च चैत्यकाः ।
अपभ्रष्टप्रवालाश्च तत्राभावं विनिर्दिशेत् ॥
स्निग्धपर्णप्रवालाश्च दृश्यन्ते यत्र चैत्यकाः ।
ईहमानाश्च वृक्षाश्च भावस्तत्र न संशयटः ॥
पुष्पे पुष्पं प्रजायेत फले वा फलमाश्रितम् ।
राजा वा राजमात्रो वा मरणायोपपद्यते ॥
प्रावृट्छरदि हेमन्ते वसन्ते वापि सर्वशः ।
आकालिकं पुष्पफलं राष्ट्रक्षोभं विनिर्दिशेत् ॥
नदीनां स्त्रोतसोऽकाले द्योतयन्ति महाभयम् ।
वनस्पतिः पूज्यमानः पूजितोऽपूजितोऽपि वा ॥
यदा भज्येत वातेन भिद्यते नमितोऽपि वा ।
अग्निवायुभयं विद्याच्छ्रेष्ठो वापि विनश्यति ॥
दिशः सर्वाश्च दीप्यन्ते जायन्ते राजविभ्रमाः । भिद्यमानो यदा वृक्षो निनदेच्चापि पातितः ।
सह राष्ट्रं च पतितं नतं वृक्षं प्रपातयेत् ॥
अथैनं छेदयेत्कश्चित्प्रतिक्रुद्धो वनस्पतिः ।
छेत्ता भेत्ता पतिश्चैव क्षिप्रमेव नशिष्यति ॥
देवतानां च पतनं मष्टपानां च पातनम् ।
अचलानां प्रकम्पश्च तत्पराभवलक्षणम् ॥
निशि चेन्द्रधनुर्दृष्टं ततोपि च महद्भयम् ।
तद्द्रष्टरेव भीतिः स्यान्नान्येषां भरतर्षभ ॥
रात्राविन्द्रधनुर्दृष्ट्वा तद्राष्ट्रं परिवर्जयेत् ॥
अर्चा यत्र प्रनृत्यन्त नदन्ति च हसन्ति च ।
उन्मीलन्ति निमीलन्ति राष्ट्रक्षोभं विनिर्दिशेत् ॥
शिला यदि प्रसिञ्चन्ति स्नेहांश्चोदकसम्भवान् ।
अन्यद्वा विकृतं किञ्चित्तद्भयस्य निदर्शनम् ॥
म्रियन्ते वा महामात्रा राजा सपरिवारकः ।
पुरस्य या भवेद्व्याधी राष्ट्रे देशे च विभ्रमाः ॥
देवतानां यदाऽऽवासे राज्ञां वा यत्र वेश्मनि ।
भाण्डागारायुधागारे निविशेत यदा मधु ॥
सर्वं तदा भवेत्स्थानं हन्यमानं बलीयसा ।
आगन्तुकं भयं तत्र भवेदित्येव निर्दिशेत् ॥
पादपश्चैव यो यत्र रक्तं स्रवति शोणितम् ।
दन्ताग्रात्कुञ्जरो वापि शृङ्गाद्वा वृषभस्तथा ॥
पादपाद्राष्ट्रिविभ्रंशः कुञ्जराद्राजविभ्रमः ।
गोब्राह्मणविनाशः स्याद्वृवभस्येति निर्दिशेत् ॥
छत्रं नरपतेर्यत्र निपतेत्पृथिवीतले ।
सराष्ट्रो नृपती राजन्क्षिप्रमेव विनश्यति ॥
देवागारेषु वा यत्र राज्ञो वा यत्र वेश्मनि ।
विकृतं यदि दृश्येत नागावासेषु वा पुनः ॥
तस्य देशस्य पीडा स्याद्राज्ञो जनपदस्य वा ।
अनावृष्टिभयं घोरमतिदुर्भिक्षमादिशेत् ॥
अर्चाया बाहुभङ्गेन गृहस्थानां भयं भवेत् ।
भग्ने प्रहरणे विद्यात्सेनापतिविनाशनम् ॥
आगन्तुका तु प्रतिमा स्थानं यत्र न विन्दति ।
जभ्यन्तरेण षण्मासाद्राजा त्यजति तत्पुरम् ॥
प्रदीर्यते मही यत्र विनदत्यपि पात्यते ।
म्रियते तत्र राजा च तत्र राष्ट्रं विनश्यति ॥
एणीपदान्वा सर्पान्वा डुण्डुभानथ दीप्यकान् ।
मण्डूको ग्रसते यत्र तत्र राजा विनश्यति ॥
अभिन्नं वाप्यपक्वं वा यत्रान्नमुपचीयते ।
जीर्यन्ते वा म्रियन्ते वा तदन्नं नोपभुञ्जते ॥
उदपाने च यत्रापो विवर्धन्ते युधिष्ठिर ।
स्थावरेषु प्रवर्तन्ते निर्गच्छेन्न पुनस्ततः ॥
अपादं वा त्रिपादं वा द्विशीर्षं वा चतुर्भुजम् ।
स्त्रियो यत्र प्रसूयन्ते ब्रूयात्तत्र पराभवम् ॥
अजैडकाः स्त्रियो गावो ये चान्ये च वियोनयः ।
विकृतानि प्रजायन्ते तत्र तत्र पराभवः ॥
नदी यत्र प्रतिस्रोता आवहेत्कलुषोदकम् ।
दिशश्च न प्रकाशन्ते तत्पराभवलक्षणम् ॥
एतानि च निमित्तानि यानि चान्यानि भारत ।
केशवादेव जायन्ते भौमानि च खगानि च ॥
चन्द्रादित्यौ ग्रहाश्चैव नक्षत्राणि च भारत ।
वायुरग्निस्तथा चापः पृथिवी च जनार्दनात् ॥
यस्य देशस्य हानिं वा वृद्धिं वा कर्तुमिच्छति ।
तस्मिन्देशे निमित्तानि तानि तानि करोत्ययम् ॥
सोसौ चेदिपतेस्तात विनाशं समुपस्थितम् ।
निवेदयति गोविन्दः स्वैरुपायैर्न संशयः ॥
इयं प्रचलिता भूमिरशिवा वान्ति मारुताः ।
राहुश्चाप्यपतत्सोममपर्वणि विशाम्पते ॥
सनिर्घाताः पतन्त्युल्कास्तमः सञ्जायते भृशम् ।
चेदिराजविनाशाय हरिरेष विजृम्भते ॥
वैशम्पायन उवाच ॥
एवमुक्त्वा तु देवर्षिर्नारदो विरराम ह । ताभ्यां पुरुषसिंहाभ्यां तस्मिन्युद्ध उपस्थिते ।
ददृशुर्भूमिपालास्ते घोरानौत्पातिकान्बहून् ॥ तत्र वै दृश्यमानानां दिक्षु सर्वासु भारत ।
अश्रूयन्त तदा राजञ्छिवानामशिवा रवाः ॥ ररास च मही कृत्स्ना सवृक्षवनपर्वता ।
अपर्वणि च मध्याह्ने मूर्यं स्वर्भानुरग्रसत् ॥ ध्वजाग्रे चेदिराजस्य सर्वरत्नपरिष्कृते ।
अपतत्खाच्च्युतो गृध्रस्तीक्ष्णतुण्डः परन्तप ॥ आरण्यैः सहसा हृष्टा ग्राम्याश्च मृगपक्षिणः ।
चुक्रुशुर्भैरवं तत्र तस्मिन्युद्ध उपस्थिते ॥ एवमादिनि घोराणि भौमानि च स्वगानि च ।
औत्पातिकान्यदृश्यन्त सङ्क्रुद्धे शार्ङ्गधन्वनि ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥