अध्यायः 070

कृष्णशिशुपालयोर्युद्धवर्णनम् ॥ 1 ॥ शिशुपाल-----॥ 2 ॥

वैशम्पायन उवाच ॥

ततो विष्फारयन्राजा महच्चैदिपतिर्धनुः ।
अभियास्यन्हृषीकेशमुवाच मधुसूदनम् ॥
एकस्त्वमसि मे शत्रुस्तत्त्वां हत्वाऽद्य माधव ।
ततः सागरपर्यन्तां पालयिष्यामि मेदिनीम् ॥
द्वैरथं काङ्क्षितं यद्वै तदिदं पर्युपस्थितम् । चिरस्य वत मे ----वासुदेव सह त्वया ।
अद्य त्वां निहनिष्यामि भीष्मं च सह पाण्डवैः ॥
वैशम्पायन उवाच ।
--- --
-- --
---- ---
---- ---
------ सुनीयं परवीरहा ॥ -----
अयं त्वं भामकस्तीक्ष्णश्चेदिराज महाशरः ।
भेत्तुमर्हति वेगेन महाशनिरिवाचलम् ॥
वैशम्पायन उवाच ।
एवं ब्रुवति गोविन्दे ततश्चेदिपतिः पुनः ।
मुमोच निशितानन्यान्कृष्णं प्रति शरान्बहून् ॥
अथ बाणार्दितः कृष्णः शार्ङ्गमायम्य दीप्तिमान् ।
मुमोच निशितान्बाणाञ्छतशोथ सहस्रशः ॥
ताञ्छरांस्तु स चिच्छेद शरवर्षैस्तु चेदिराट् ।
षड्भिश्चान्यैर्जघानाशु केशवं चेदिपुङ्गवः ॥
ततोऽस्रं सहसा कृष्णः प्रमुमोच जगद्गुरुः ।
अस्त्रेण तन्महाबाहुर्वारयामास चेदिराट् ॥
ततः शतसहस्रेण शराणां नतपर्वणाम् ।
सर्वतः समवाकीर्य शौरिं दामोदरं तदा ॥
ननाद बलवान्क्रुद्धः शिशुपालः प्रतापवान् ।
इदं चोवाच संरब्धः केशवं परवीरहा ॥
शिशुपाल उवाच ॥
अद्याङ्गं मामका बाणा भेत्स्यन्ति तव संयुगे ।
हत्वा त्वां समुतामात्यं पाण्डवांश्च तरस्विनः ॥
अनृण्यमद्यय यास्यामि जरासन्धस्य धीमतः ।
कंसस्य केशिनश्चैव नरकस्य तथैव ह ॥
वैशम्पायन उवाच ॥
इत्युक्त्वा क्रोधताम्राक्षः शिशुपालो जनार्दनम् ।
अदृश्यं शरवर्षेण सर्वतः स चकार ह ॥
ततोऽस्त्रेणैव चान्योन्यं निकृत्य च शरान्बहून् ।
शरवर्षैस्तदा चैद्यमन्तर्धातुं प्रचक्रमे ॥
अन्तर्धानगतौ वीरौ शुशुभाते महारथौ ।
तौ दृष्ट्वा सर्वभूतानि साधुसाध्वित्यपूजयन् ॥
न दृष्टपूर्वमस्माभिर्युद्धमीदृशकं पुरा ।
ततः कृष्णं जघानाशु शुशुपालस्त्रिभिः शरैः ॥
कृष्णोऽपि बाणैर्विव्याध सुनीथं पञ्चभिर्युधि । ततः सुनीथं सप्तत्या नाराचैर्दयद्बली ।
ततोऽतिविद्धः कृष्णेन सुनीथः क्रोधमूर्छितः ।
विव्याध निशितैर्बाणैर्वासुदेवं स्तनान्तरे ॥
पुनः कृष्णं त्रिभिर्विद्ध्वा ननादावसरे नृपः ।
ततोऽतिदारुणं युद्धं सहसा चक्रतुस्तदा ॥
नौ नखैरिव शार्दूलौ दन्तैरिव महागजौ ।
दंष्ट्राभिरिव पञ्चास्यौ चरणैरिव कुक्कुटौ ॥
दारयेतां शरैस्तीक्ष्णैरन्योन्यं युधि तावुभौ ।
ततो मुमुचतुः क्रुद्धौ शरवर्षमनुत्तमम् ॥
शरैरेव शराञ्छित्वा तावुभौ पुरुषर्षभौ ।
चक्रातेऽस्त्रमयं युद्धं घोरं तदतिमानुषम् ॥
आग्नेयमस्त्रं मुमुचे शिशुपालः प्रतापवान् ।
वारुणास्त्रेण तच्छ्रीघ्रं नाशयामास केशवः ॥
कौबेरमस्त्रं सहसा चेदिराट् प्रमुमोच ह । 2-70-29 कौबेरणैव सहसाऽनाशयत्तं जगत्प्रभुः ॥
याम्यमस्त्रं ततः क्रुद्धो मुमुचे कालमोहितः ।
याम्येनैवास्त्रयोगेन याम्यमस्त्रं व्यनाशयत् ॥
गान्धर्वेण च गान्धर्वं मानवं मानवेन च ।
वायव्येन च वायव्यं रौद्रं रौद्रेण चाभिभूः ॥
ऐन्द्रमैन्द्रेण भगवान्वैष्णवेन च वैष्णवम् ।
एवमस्त्राणि कुर्वाणौ युयुधाते महाबलौ ॥
ततो मायां विकुर्वाणो दमगोषसुतो बली ।
गदामुसलसंयुक्ताञ्छक्तितोमरसायकान् ॥
परश्वथमुसण्डीश्च ववर्ष युधि केशवम् ।
अमोघास्त्रेण भगवान्नाशयामास केशिहा ॥
शिलावर्षं महाघोरं ववर्ष युधि चेदिराट् ।
वज्रास्त्रेणाभिसङ्क्रुद्धश्चूर्णं तदकरोत्प्रभुः ॥
जलवर्षं ततो घोरं व्यस़जच्चेदिपुङ्गवः ।
वायव्यास्त्रेण भगवान्व्याक्षिपच्छतशो हि तत् ॥
निहत्य सर्वमायां वै सुनीतस्य जनार्दनः ।
स मुहूर्तं चकाराशु द्वन्द्वयुद्धं महारथः ॥
स बाणयुद्धं कुर्वाणो भर्त्सयामास चेदिराट् ।
दमघोषसुतो धृष्टमुवाच यदुपुङ्गवम् ॥
अद्य कृष्णमकृष्णं तु कुर्वन्तु मम सायकाः ।
इत्येवमुक्त्वा दुष्टात्मा शरवर्षं जनार्दने ॥
मुमोच पुरुषव्याघ्रो घोरं वै चेदिपुङ्गवः ।
शरसंङ्कृत्तगात्रस्तु क्षणेन यदुनन्दनः ॥
रुधिरं परिसुस्राव मदं मत्त इव द्विपः ।
न यन्ता न रथो वापि न चाश्वाः पर्वतोपमाः ॥
दृश्यन्ते शरसञ्छन्नाः केशवस्य महात्मनः ।
केशवं तदवस्थं तु दृष्ट्वा भूतानि चक्रुशुः ॥
दारुकस्तु तदा प्राह कृष्णं यादवनन्दनम् ।
नेदृशो दृष्टपूर्वो हि सङ्ग्रामो वै पुरा मया ॥
स्थातव्यमिति तिष्ठामि त्वत्प्रभावेण माधव ।
अन्यथा न च मे प्राणा धरायेयुर्जनार्दन ॥
अतः सञ्चिन्त्य गोविन्द क्षिप्रमस्य वधं कुरु ।
एवमुक्तस्तु सूतेन केशवो वाक्यमब्रवीत् ॥
एष ह्यतिबलो दैत्यो हिरण्यकशिपुः पुरा ।
रिपुः सुराणामभवद्वरदानेन गर्वितः ॥
तथाऽऽसीद्रावणो नाम राक्षसो ह्यतिवीर्यवान् ।
तेनैव बलवीर्येण बलं नागणयन्मम ॥
अहं मृत्युश्च भविता काले काले दुरात्मनः ।
न भेतव्यं तथा सूत नैष कश्चिन्मयि स्थिते ॥
इत्येवमुक्त्वा भगवान्ननर्द गरुडध्वजः ।
पाञ्चजन्यं महाशङ्खं पूरयामास केशवः ॥
संमोहयित्वा भगवांश्चक्रं दिव्यं समाददे ।
चिच्छेद च सुनीथस्य शिरश्चक्रेण संयुगे' ॥
स पपात महाबाहुर्वज्राहत इवाचलः ।
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः ॥
उत्पतन्तं महाराज गगनादिव भास्करम् । ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् ।
ववन्दे तत्तदा तेजो विवेश च नराधिप ॥
तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः ।
यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् ॥
अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः ।
कृष्णेन निहते चैद्ये चचाल न वसुन्धरा ॥
ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन ।
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ॥
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नमर्षिताः ।
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ॥
रहश्च केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः ।
केचिदेव सुसंरब्धा मध्यस्थास्त्वपरेऽभवन् ॥
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः । ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः ।
शशंसुर्निर्वृताः सर्वे दृष्ट्वा कृष्णस्य विक्रमम् ॥
`सदेवगन्धर्वगणा राजानो भुवि विश्रुताः ।
प्रणामं हि हृषीकेशे प्राकुर्वत महात्मनि ॥
ये त्वासुरगणाः पक्षाः सम्भूताः क्षत्रिया इह ।
ते निन्दन्ति हृषीकेशं दुरात्मानो गतायुषः ॥
प्रजापतिगणा ये तु मध्यस्थाश्च महात्मनि ।
ब्रह्मर्षयश्च सिद्धाश्च गन्धर्वोरगचारणाः ॥
ते वै स्तुवन्ति गोविन्दं दिव्यैर्मङ्गलसंयुतैः । परस्परं च नृत्यन्ति गीतेन विविधेन च ।
उपतिष्ठन्ति गोविन्दं प्रीतियुक्ता महात्मनि ॥
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः ।
ब्राह्मणाश्चापि सुप्रीताः पाण्डवाश्च महाबलाः ॥
पाण्डवस्त्वब्रवीद्भातॄन्सत्कारेण महीपतिम् ।
दमघोषात्मजं शूरं संस्कारयत मा चिरम् ॥
कुरुराजवचः श्रुत्वा भ्रातरस्ते त्वरान्विताः ।
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ॥
चेदीनामाधिपत्ये च पुत्रं तस्याज्ञया हरेः ।
अभ्यषिञ्चत तं पार्थः सहितैर्वसुधाधिपैः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि सप्ततितमोऽध्यायः ॥ 70 ॥