अध्यायः 072

युधिष्ठिरेण व्यासादीनां पूजनम् ॥ 1 ॥ राज्ञां युधिष्ठिरमामन्त्र्य स्वस्वदेशगमनम् ॥ 2 ॥ श्रीकृष्णस्य युधिष्ठिरादीनामन्त्र्य द्वारकां प्रति गमनम् ॥ 3 ॥

वैशम्पायन उवाच ॥

ततः स कुरुराजस्य सर्वकर्मसमृद्धिमान् ।
यज्ञः प्रीतिकरो राजन्संबभौ विपुलोत्सवः ॥
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् ।
अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः ॥
समापयामास च तं राजसूयं महाक्रतुम् ।
`कोटिसहस्रं प्रददौ ब्राह्मणानां महात्मनाम् ॥
न करिष्यति तं लोके कश्चिदन्यो महीपतिः ।
याजकाः सर्वकामैश्च सततं ततृपुर्धनैः ॥
ततश्चावभृथस्नातः स राजा पाण्डुनन्दनः ।
व्यासं धौम्यं वसिष्ठं च नारदं च महामुनिम् ॥
सुमन्तु जैमिनिं पैलं वैशम्पायनमेव च । याज्ञवल्क्यं च कपिलं कपालं कौशिकं तथा ।
सर्वांश्च ऋत्विक्प्रवरान्पूजयामास सत्कृतान् ॥
युधिष्ठिर उवाच ॥
युष्मत्प्रसादात्प्राप्तोऽयं राजसूयो महाक्रतुः ।
जनार्दनप्रसादाद्धि सम्पूर्णो मे मनोरथः ॥
वैशम्पायन उवाच ॥
अथ यज्ञं समाप्यान्ते पूजयामास माधवम् ।
बलदेव च देवेशं भीष्माद्यांश्च कुरूद्वहान्' ॥
ततस्त्ववभृथस्नातं धर्मात्मानं युधिष्ठिरम् ।
समस्तं पार्थिवं क्षत्रमुपगम्येदमब्रवीत् ॥
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवानसि ।
आजमीढाजमीढानां यशः संवर्धितं त्वया ॥
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ।
आपृच्छामो नरव्याघ्र सर्वकामैः सूपूजिताः ॥
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ।
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः ॥
यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह ।
राजानः सर्व एवैते प्रीत्याऽस्मान्प्तमुपागताः ॥
प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छय परन्तपाः ।
अनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ॥
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः ।
यथार्हं नृपतीन्सर्वानेकैकं समनुव्रजन् ॥
विरायटमन्वायात्तूर्णं धृष्टह्युम्नः प्रतापवान् ।
धनञ्जयो यज्ञसेनं महात्मानं महारथम् ॥
भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः ।
द्रोणं तु ससुतं वीरं सहदेवो युधां पतिः ॥
नकुलः सुबलं राजन्सहपुत्रं समन्वयात् ।
द्रौपदेयाः ससौभद्राः पार्वतीयान्महारथान् ॥
अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः ।
एवं सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः ॥
गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च ।
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ॥
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन ।
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ॥
तमुवाचैवमुक्तस्तु धर्मराजो जनार्दनम् ।
तव प्रसादाद्गोविन्द प्राप्तः क्रतुवरो मया ॥
क्षत्रं समग्रमपि च त्वत्प्रसादाद्वशे स्थितम् ।
उपादाय बलिं मुख्यं मामेव समुपस्थितम् ॥
कथं त्वद्गमनार्थं मे वाणी वितरतेऽनघ ॥
न ह्यहं त्वामृते वीरं रतिं प्राप्नोमि कर्हचित् ।
अवश्यं चैव गन्तव्या भवता द्वारका पुरी ॥
वैशम्पायन उवाच ॥
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् ।
अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ॥
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः ।
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि ॥
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे ।
सुभद्रां द्रौपदीं चैव सभाजयत केशवः ॥
निष्क्रम्यान्तः पुरात्तस्माद्युधिष्ठिरसहायवान् ।
स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ॥
ततो मेघवपुः प्रग्व्यं स्यन्दनं च सुकल्पितम् ।
योजयित्वा महाबाहुर्दारुकः समुपस्थितः ॥
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् ।
प्रदक्षिणमुपावृत्य समारुह्य महामनाः ॥
प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ॥
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् ॥
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः ।
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशाम्पते ।
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ॥
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः ।
कृत्वा परस्परेणैव संवादं कृष्णपाण्डवौ ॥
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति ।
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप ॥
महादुर्योधनो राजा शकुनिश्चापि सौबलः ।
`सूतपुत्रश्च गधेयः सह दुःशासनादिभिः ॥
सर्वकामगुणोपेतैरर्च्यमानास्तु भारत' ।
तस्यां सभायां दिव्यायामवसंस्तत्र पाण्डवैः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

2-72-28 सभाजयत प्रीणितवान् ॥