अध्यायः 074

युधिष्ठिरसभायां दुर्योधने निर्जलदेशे जलभ्रमेण परिधानमुत्कर्षति सति तथा स जलदेशे स्थलभ्रान्त्या भवनधानगमनेन जले पतति च सति भीमादिभिरुपहासः ॥ 1 ॥ चिन्तातान्तं दुर्योधनं प्रति शकुनिना चिन्ताहेतुप्रश्ने दुर्योधनेन तत्कथन पूर्वकं धृतराष्ट्रे स्वदुः शनिवेदनाय शकुनिम्प्रति चोदनम् ॥ 2 ॥

वैशम्पायन उवाच ॥

वसन्दुर्योधनस्तस्यां सभायां पुरुषर्षभ ।
शनैर्ददर्श तां सर्वां सभां शकुनिना सह ॥
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः ।
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ॥
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः ।
स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया ॥
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः ।
दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ॥
ततः स्थले निपतितो दुर्मना व्रीडितो नृपः ।
निः श्वसन्विमुखश्चापि परिचक्राम तां सभाम् ॥
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् ।
वापीं मत्वा स्थलमिव सवासाः प्रापतञ्जले ॥
जले निपतितं दृष्ट्वा भीमसेनो महाबलः ।
जहास जहसुश्चैव किङ्कराश्च सुयोधनम् ॥
वासांसि च शुभान्यस्मै प्रददू राजशासनात् ।
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ॥
अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ।
नामर्षयत्ततस्तेषामवहासममर्षणः ॥
आकारं रक्षमाणस्तु न स तान्समुदैक्षत ।
पुनर्वसनमुत्क्षिप्य प्रतिरिष्यन्निव स्थलम् ॥
आरुरोह ततः सर्वे जहसुश्च पुनर्जनाः । द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः ।
प्रविशन्नाहतो मूर्ध्नि व्याघूर्णित इव स्थितः ॥
तादृशं च परं द्वारं स्फाटिकोरुकवाटकम् ।
विघट्टयन्कराभ्यां तु निष्क्रम्याग्रे पपात हा ॥
द्वारं तु वितताकारं समापेदे पुनश्च सः ।
तद्वृत्तं चेति मन्वानो द्वारस्थानादुपारमत् ॥
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशाम्पते ।
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ॥
अपहृष्टेन मनसा राजसूये महाक्रतौ ।
प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ॥
पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः ।
दुर्योधनस्य नृपतेः पापा मतिरजायत ॥
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् ।
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ॥
महिमानं परं चापि पाण्डवानां महात्मनाम् ।
दूर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ॥
स तु गच्छन्ननेकाग्नः सभामेकोऽन्वचिन्तयत् ।
श्रियं च तामनुपमां धर्मराजस्य धीमतः ॥
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा ।
नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ॥
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत ।
दुर्योधन कृतोमूलं निःश्वसन्निव गच्छसि ॥
दुर्योधन उवाच ॥
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् ।
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ॥
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल ।
यथा शक्रस्य देवेषु तथाभूतं महाद्युतेः ॥
अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम् ।
शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ॥
पश्य सात्वतमुख्येन शिशुपालो निपातितः ।
न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ॥
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना ।
क्षान्तवन्तोऽपराधं ते को हि तत्क्षन्तुमर्हति ॥
वासुदेवेन तत्कर्म यथाऽयुक्तं महत्कृतम् ।
सिद्धं च पाण्डुपुत्राणां प्रतापेन महात्मनाम् ॥
तथाहि रत्नन्यादाय विविधानि नृपा नृपम् ।
उपातिष्ठन्त कौन्येयं वैश्या इव करप्रदाः ॥
श्रियं तथागतं दृष्ट्वा ज्वलन्तीमिव पाण्डवे ।
अमर्षवशमापन्नो दह्यामि न तथोचितः ॥
वह्निमेव प्रवेक्ष््यामि भक्षयिष्यामि वा विषम् ।
अपो वापि प्रवेक्ष्यामिन हि शक्ष्यामि जीवितुम् ॥
को हि नाम पुमांल्लोके मर्षयिष्यति सत्ववान् ।
सपत्नानृद्ध्यतो दृष्ट्वा हीनमात्मानमेव च ॥
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि ।
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ॥
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् ।
यज्ञं च तादृशं दृष्ट्वा मादृशः को न संञ्ज्वरेत् ॥
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् ।
सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ॥
दैवमेव परं मन्ये पौरुषं च निरर्थकम् ।
दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा ॥
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल ।
तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्गजम् ॥
तेन दैवं परं मन्ये पौरुषं च निरर्थकम् । धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति नित्यशः । 2-74-38c`कृष्णस्तु सुमनास्तेषां विवर्धयति सम्पदः' ॥
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् ।
रक्षिभिश्चावहासं तं परितप्ये यथाऽग्निना ॥
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥