अध्यायः 075

शकुनिना दुर्योधनम्प्रति पाण्डवानां पौरुषेणाजय्यत्वकथनपूर्वकं द्यूतेन जेष ्यामीति समाश्वासनादिकम् ॥ 1 ॥

शकुनिरुवाच ॥

दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् ।
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ॥
विधानं विविधाकारं परं तेषां विधानतः ।
अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा ॥
आरब्धा हि महाराज पुनः पुनररिन्दम । विमुक्ताश्च नरव्याघ्रा भगधेयपुरस्कृताः ।
`उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु' ॥
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह ।
सहायाः पृथिवीपाला वासुदेवश्च वीर्यवान् ॥
लब्धश्चानभिभूतार्थैः पित्र्योंशः पृथिवीपते ।
विवृद्धस्तेजसा तेषां तत्र का परिदेवना ॥
धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी ।
लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम् ॥
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः ।
कृता वशे महीपालास्तत्र का परिदेवना ॥
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् ।
सभां तां कारयामास सव्यसाची परन्तपः ॥
तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः ।
वहन्ति तां सभां भीमास्तत्र का परिदेवना ॥
यच्चासहायतां राजन्नुक्तवानसि भारत ।
तन्मिथ्या भ्रातरो हीमे तव सर्वे वशानुगाः ॥
द्रोणस्तव महेष्वासः सह पुत्रेण वीर्यवान् ।
मूतपुत्रश्च राधेयो दृढधन्वा महारथः ॥
`स एकः समरे सर्वान्पाण्डवान्सहसोमकान् ।
विजेष्यति महाबाहो किं सहायैः करिष्यसि ॥
भीष्मश्च पुरुषव्याघ्रो गौतमश्च महारथः ।
जयद्रथश्च बलावान्सोमदत्तस्तथैव च' ॥
अहं च सह सोदर्यैः सौमदत्तिश्च पार्थिवः ।
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नं वसुन्दराम् ॥
दुर्योधन उवाच ।
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः ।
एतानहं विजेष्यामि यदि त्वमनुमन्यसे ॥
एतेषु विजितेष्वद्य भविष्यति मही मम ।
सर्वे च पृथिवीपालाः सभा सा च महाधना ॥
शकुनिरुवाच ॥
धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः ।
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ॥
नैते युधि पराजेतुं शक्या देवगणैरपि ।
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ॥
अहं तु तद्विजानामि विजेतुं येन शक्यते ।
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ॥
दुर्योधन उवाच ॥
अप्रमादेन सुहृदामन्येषां च महात्मनाम् ।
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ॥
शकुनिरुवाच ।
द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम् ।
समाहूतश्च राजेन्द्रो न शक्ष्यति तिवर्तितुम् ॥
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि ।
त्रिषु लोकेषु कौरव्य तं त्वं द्यूते समाह्वय ॥
तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् ।
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ॥
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय ।
अनुज्ञातस्तु ते पित्रा विजेष्ये तान्न संशयः ॥
दुर्योधन उवाच ।
त्वमेव करुमुख्याय धृतराष्ट्राय सौबल ।
निवेदय यथान्यायं नाहं शक्ष्ये निवेदितुम् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥