अध्यायः 076

शकुनिना दुर्योधनस्य चिन्तया कार्श्यादिकं बोधितेन धृतराष्ट्रेण दुर्योधनम् प्रति चिन्ताकारणप्रश्नः ॥ 1 ॥ दुर्योधनेन तत्कथनपुर्वकं धृतराष्ट्रं प्रति द्यूताभ्यनुज्ञानप्रार्थनम् ॥ 2 ॥ धृतराष्ट्रेण द्यूतसभानिर्माणाज्ञापनपूर्वकं पाण्डवानयनाय विदुरं प्रति चोद नम् ॥ 3 ॥

वैशम्पायन उवाच ॥

अनुभूय तु राज्ञस्तं राजसूयं सुदुर्मतिः ।
`युधिष्ठिरस्य शकुनिर्दुर्योधसुसंयुतः ॥
विवेश हास्तिनपुरं दुर्योधनमतेन सः ।
वाढमित्येव शकुनिर्दृढं हृदि चकार ह ॥
अस्वस्थतां चतां दृष्ट्वा धार्तराष्ट्रस्य पापकृत् ।
भारतानां च दुष्टात्मा क्षयाय हि नृपक्षयः' ॥
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् ।
प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ॥
दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् ।
उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ॥
शकुनिरुवाच ।
दुर्योधनो महाराज विवर्णो हरिणः कृशः ।
दीनश्चिन्तापरश्चैव तं विद्धि मनुजाधिप ॥
न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम् ।
ज्येष्ठपुत्रस्य हृच्छोकं किमर्थं नावबुध्यसे ॥
`एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः ।
दुर्योधनं समाहूयं इदं वचनमब्रवीत्' ॥
धृतराष्ट्र उवाच ।
दुर्योधन कृतोमूलं भृशमार्तोऽसि पुत्रक ।
श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन ॥
अयं त्वां शकुनिः प्राह विवर्णं हरिमं कृशम् ।
चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम् ॥
ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं प्रतिष्ठितम् ।
भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् ॥
आच्छादयसि प्रावारानश्नासि पिशितौदनम् ।
आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः ॥
शयनानि महार्हाणि योषितश्च मनोरमाः ।
गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् ॥
देवनामिव ते सर्वं वाचि बद्धं न संशयः ।
स दीन इव दुर्धर्ष कस्माच्छोचसि पुत्रक ॥
`मात्रा पित्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् ।
प्राप्तस्त्वमसि तत्तात निखिलां नः कुलश्रियम् ॥
उपस्थितः सर्वकामैस्त्रिदिवे वासवो यथा ।
विविधैरन्नपानैश्च प्रवरैः किं नु शोचसि ॥
निरुक्तं निगमं छन्दः षडङ्गान्यस्त्रशास्त्रवान् ।
अधीती कृतविद्यस्त्वं दशव्याकरणैः कृपात् ॥
हलायुधात्कृपाद्द्रोणादस्त्रविद्यामधीतवान् ।
भ्राताज्येष्ठः स्थितो राज्ये किमु शोचसि पुत्रक ॥
पृथग्जनैरलभ्यं यदशनाच्छादनं बहु ।
प्रभुः सन्भुञ्जसे पुत्र संस्तुतः सूतमागधैः ॥
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् ।
लोकेस्मिञ्ज्येष्ठभागन्यस्तन्ममाचक्ष्व पृच्छतः ॥
वैशम्पायन उवाच ॥
तस्य तद्वचनं श्रुत्वा मन्दः क्रोधवशानुगः ।
पितरं प्रत्युवाचेदं स्वमतिं सम्प्रकाशयन् ' ॥
दुर्योधन उवाच ॥
अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा ।
अमर्षं धारये चोग्रं निनीषुः कालपर्ययम् ॥
अमर्षणः स्वाः प्रकृतीरभिभूय परं स्थितः ।
क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ॥
सन्तोषो वै श्रियं हन्ति ह्यभिमानं च भारत ।
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ॥
न मां प्रीणाति मद्भुक्तं श्रियं दृष्ट्वा युधिष्ठेरे ।
अतिज्वलन्तीं कौन्तेये विवर्णकरणीं मम ॥
सपत्नानृद्व्यतोत्मानं हीयमानं निशाम्य च ।
अदृश्यामपि कौन्तेय श्रियं पश्यन्निवोद्यताम् ॥
तस्मादहं विवर्णश्च दीनश्च हरिमः कृशः ।
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ॥
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः । दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् ।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥
कदलीमृगमोकानि कृष्णश्यामारुणानि च । काम्भोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् ।
गजयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः ॥
त्रिशतं चोष्ट्रवामीनां शतानि विचरन्त्युत ।
राजन्या बलिमादाय समेता हि नृपक्षये ॥
पृथग्विधानि रत्नान पार्थिवाः पृथिवीपते ।
आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ॥
न क्वचिद्धि मया तादृग्दृष्टपूर्वो न च श्रुतः ।
यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ॥
`असत्यं चेदिदं सर्वं सञ्जयं प्रष्टुमर्हसि' । अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप ।
शर्म नैवाभिगच्छामि चिन्तयानो विशाम्पते ॥
ब्रह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः ।
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् ।
त्रैखर्वाः प्रतिवेद्यास्मै लेभिरेऽथ प्रवेशनम् ॥
यथैव मधु शक्राय धारयन्त्यमरस्त्रियटः ।
तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ॥
शङ्खप्रवरमादाय वासुदेवोऽभिषिक्तवान् ।
शक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् ॥
दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् ।
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ ॥
तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ । उत्तरं तु न गच्छन्ति विना तात पतत्रिणः ।
तत्र गत्वाऽर्जुनो दण्डमाजहारामितं धनम् ॥
`कृतां बैन्दुसरै रत्नैर्मयेन स्फाटिकच्छदाम् ।
अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥
उत्कर्षन्तं च वासश्च प्राहसन्मां वृकोदरः ।
किङ्कराश्च सभापाला जहसुर्भरतर्षभ ॥
पित्रोरर्थे विशेषेण प्रावृण्वं तत्र जीवितम् ।
तत्र त्म यदि शक्तः स्यां घातयेयं वृकोदरम् ॥
सपत्नेनापहासो हि स मां दहति भारत ॥
तत्र स्फाटिकतोयां हि स्फाटिकाम्बुजशोभिताम् ।
सभां पुष्करिणीं मत्वा पतितोऽस्मि नराधिप ॥
तत्र मामहसद्भीमः सह पार्थेन सस्वरम् ।
द्रौपदी चसह स्त्रीभिः पातयन्ती मनो मम ॥
क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः ।
ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ॥
अस्तम्भा इव तिष्ठन्ति स्तम्भा इव सहस्रशः ।
सोहं तत्राहतो राजन्स्फटिकाभ्यन्तरे विभो ॥
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा ।
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥
आमृशन्निव तां दृष्ट्वा मार्गान्तरमुपाविशम् । इदं द्वारमिदं राजन्नद्वारमिति मां प्रति ।
अद्भुतं प्रहसन्वाक्यं बभाषे स वृकोदरः ॥
स्त्रियश्च तत्र मां दृष्ट्वा जहसुस्तादृशं नृप ।
सर्वं हासकरं तेषां सदस्यानां नरर्षभ ॥
न श्रुतानि न दृष्टानि यानि रत्नान मे क्वचित् ।
तानि मे तत्र दृष्टानि तेन तप्तोस्मि दुःखितः ॥
हुताशनं प्रवेक्ष्यामि प्रवेक्ष्यामि महोदधिम् ।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते' ॥
इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ॥
पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां सदा ।
स्थापितस्तत्र सञ्ज्ञार्थं शङ्खो ध्मायति नित्यसः ॥
मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत ।
अनिशं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ॥
पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः ।
अशोभत महाराज नक्षत्रैर्द्यैरिवामला ॥
सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर ।
यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः ॥
वैश्या इव महीपाला द्विजातिपरिवेषकाः । न सा श्रीर्देवराजस्य यमस्य वरुणस्य च ।
गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ॥
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिक्रामहम् ।
शान्तिं न परिगच्छामि दह्यमानेन चेतसा ॥
`अप्राप्य पाण्डवैश्वर्यं शमो मम न विद्यते ।
अरीन्बाणैः शाययिष्ये शयिष्ये वा हतः परैः ॥
एतादृशस्य मे किं तु जीवितेन परन्तप ।
वर्धन्ते पाण्डवा राजन्वयं हि स्थितवृद्धयः' ॥
शकुनिरुवाच ॥
यामेतामतुलां लक्ष्मीं दृष्टवानसि पाण्डवे ।
तस्याटः प्राप्तावुपायं मे शृणु सत्यपराक्रम ॥
अहमक्षेष्वभिज्ञोऽस्मि पृथिव्यामपि भारत ।
हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ॥
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् ।
आहूतश्चैष्यति व्यक्तं नित्यमेवाह्वयत्स्वयम् ॥
नियतं तं विजेष्यामि कृत्वा तु कपटं विभो ।
आनयामि समृद्धिं तां दिव्यां चोपाह्वयस्व तम् ॥
वैशम्पायन उवाच ॥
एवमुक्तः शकुनिना राजा दुर्योधनस्ततः ।
धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ॥
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् ।
द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ॥
धृतराष्ट्र उवाच ॥
क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने ।
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् ।
उभयोटः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ॥
दुर्योधन उवाच ।
निवर्तयिष्यति त्वाऽसौ यदि क्षत्ता समेष्यति ।
निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ॥
स त्वं मयि मृते राजन्विदुरेण सुखी भव ।
भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि ॥
वैशम्पायन उवाच ॥
आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः ।
धृतराष्ट्रोऽब्रवीत्प्रेष्यन्दुर्योधनमते स्थितः ॥
स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम ।
मनोरमां दर्शनीयामाशु कुर्वन्तुं शिल्पिनः ॥
ततः संस्तीर्य रत्नैस्तां तक्ष्ण आनाय्य सर्वशः ।
सुकृतां सुप्रवेशां च निवेदयत मेऽशनैः ॥
दूर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः ।
धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै ॥
अपृष्ट्वा विदुरं स्वस्यन नासीत्कश्चिद्विनिश्चयः ।
द्यूते दोषांश्च जानन्स पुत्रस्नेहादकृष्यत ॥
तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् ।
विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् ॥
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् ।
मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ॥
विदुर उवाच ।
नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो ।
पुत्रैर्भेदो यथा न स्थाद््द्यूतहेतोस्तथा कुरु ॥
धृतराष्ट्र उवाच ।
क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति ।
यदि देवाः प्रसादं नः करिष्यन्ति न संशयः ॥
अशुभं वा शुभं वापि हितं वा यदि वाऽहितम् ।
मयि सन्निहिते द्रोणे भीष्मे त्वयि च भारत ।
अनयो दैवविहितो न कथञ्चिद्भविष्यति ॥
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे ।
खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् ॥
न वाच्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते ।
दैवमेव परं मन्ये येनैतदुपपद्यते ॥
इत्युक्तो विदुरो धीमान्नेदमस्तीति चिन्तयन् ।
आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुः खितः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि षट््सप्ततितमोऽध्यायः ॥ 76 ॥

2-76-9 कुतोमूलं किंमुलम् । कुतइति प्रथमार्थे तसिः ॥ 2-76-29 कदलीमृगा हरिणविशेषास्तेषां मोकान्यजिनानि तान्येव कृष्णश्यामारुणानि चित्र वर्णानीत्यर्थः ॥ 2-76-34 वाटाः क्षेत्रादिवृत्तयस्तासां धाना अभिनवोद्भेदो येषां ते सस्यादिसम्पन्नक ्षेत्रादिवृत्तिमन्त इत्यर्थः ॥ 2-76-37 शैक्यं वरत्रामयं पात्राधारभूतं शिक्यं कावडीति प्रसिद्धं तत्र स्थितं पात् रं शैक्यम् । एतेन सामुद्रय आप उक्ताः ॥