अध्यायः 077

जनमेजयेन विस्तरेण द्यूतवृत्तान्तकथनप्रार्थनम् ॥ 1 ॥ धृतराष्ट्रेण दुर्योधनम्प्रति द्यूतनिषेधनम् ॥ 2 ॥ दुर्योधनेन धृतराष्ट्रम्प्रति भीमादिकृतस्वापहसनादिकथनम् ॥ 3 ॥

जनमेजय उवाच ॥

कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् ।
यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ॥
के च तत्र समास्तारा राजानो ब्रह्मवित्तम ।
के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ॥
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज ।
मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम ॥
सौतिरुवाच ।
एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान् ।
आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्वविद् ॥
वैशम्पायन उवाच ॥
एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान् ।
आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्ववित् ॥
विदुरस्य मतिं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः ।
दुर्योधनमिदं वाक्यमुवाच विजने पुनः ॥
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति ।
न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ॥
हितं हि परमं मन्ये विदुरो यत्प्रभाषते ।
क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ॥
देवर्षिर्वासवागुरुर्देवराजाय धीमते । यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः ।
तद्दे विदुरः सर्वं सरहस्यं महाकविः ॥
स्थितस्तु वचने तस्य सदाऽहमपि पुत्रक ।
विदुरो वापि मेधावी कुरूणां प्रवरो मतः ॥
उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप ।
तदलं पुत्र द्यूतेन द्यूते भेदो हि दृश्यते ॥
भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ॥
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् ।
प्राप्तस्त्वमसि तन्नाम पितृपैतामहं पदम् ॥
अधीतवान्कृती शास्त्रे लालितः सततं गृहे ।
भ्रातृज्येष्ठः स्थितो राज्ये विन्दसरे किं न शोभनम् ॥
पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् ।
तत्प्राप्तोसि महाबाहो कस्माच्छोनसि पुत्रक ॥
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् ।
नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ॥
`यादृशं च तवैश्वर्यं तदन्येषां सुदुर्लभम् ।
ये चोपभोगास्ते राजन्मया ते परिकीर्तिताः' ॥
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् ।
समुत्थितं दुःखकरं तन्मे शंसितुमर्हसि ॥
दुर्योधन उवाच ॥
अश्नाम्याच्छादयामीति प्रपश्यन्हीनपौरुषः ।
नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणी विभो ।
ज्वलितामेव कौन्येये श्रियं दृष्ट्वा च विव्यथे ॥
सर्वां च पृथिवीं चैव युधिष्ठिरवशानुगाम् । स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते ।
आवर्जिता इवाभान्ति नीपाश्चित्रककौकुराः ।
कारस्कारा लोहजङ्घा युधिष्ठिरनिवेशने ॥
हिमवत्सागरानुपाः सर्वे रत्नाकरास्तथा ।
अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने ॥
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशाम्पते ।
युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ॥
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम् ।
नादृश्यत परः पारो नापरस्तत्र भारत ॥
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः ।
अतिष्ठन्त मयि श्रान्ते गृग्य दूराहृतं वसु ॥
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् ।
अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः ।
शत्रोर्ऋद्धिविशेषेण विमूढ रत्तवर्जितम् ॥
तत्र स्म यदि शक्तः स्यं पातयेऽहं वृकोदरम् ।
यदि कुर्यां समारम्भं भीमं हन्तुं नराधिप ॥
शिशुपाल इवास्माकं गतिः स्यान्नात्र संशयः ।
सपत्नेनावहासो मे स मां दहति भारत ॥
पुनश्च तादृशीमेव वापीं जलजशालिनीम् ।
मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ॥
तत्र मां प्राहसत्कृष्णः पार्थेन सह सुस्वरम् ।
द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ॥
क्लिन्नवस्त्रस्य तु जले किङ्करा राजनोदिताः ।
ददुर्वासांसि मेऽन्यानि तच्च दुःखं परं मम ॥
प्रलम्भं च शृणुष्वान्यद्वदतो मे नराधिप । अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा ।
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥
तत्र मां यमजौ दूरादालोक्याभिहतं तदा ।
बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ॥
उवाच सहदेवस्तु तत्र मां विस्मयन्निव ।
इद द्वारं धार्तराष्ट्र मा गच्छेति पुनः पुनः ॥
भीमसेनेन तत्रोक्तो धृतराष्ट्रात्मजेति च ।
सम्बोध्य प्रहसित्वा च इतो द्वारं नराधिप ॥
नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे ।
यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

2-77-22 नीपादयो राजानः । आवर्जिता दासवद्वशगाः ॥ 2-77-23 पर्युदस्ता दूरक्षिप्ताः ॥ 2-77-26 न समभवत् समर्थो नाभवत् ॥