अध्यायः 088

सपत्नीभ्रातृकस्य युधिष्ठिरस्य शकुनिना पराजयः ॥ 1 ॥

शकुनिरुवाच ॥

बहुवित्तं पराजैषीः पाण्डवानां युधिष्ठिर ।
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥
युधिष्ठिर उवाच ॥
मम वित्तमसङ्ख्येयं यदहं वेद सौबल ।
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ॥
अयुतं प्रयुतं चैव शङ्कुं पद्मं तथार्बुदम् ।
खर्वं शङ्खं निखर्वं च महापद्मं च कोटयः ॥
मध्यं चैव परार्धं च सपरं चात्र पण्यताम् ।
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥
गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम् । यत्किञ्चिदनु पर्णाशां प्राक् सिन्धोरपि सौबल ।
एतन्मम धनं सर्वं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥
पुरं जनपदो भूमिरब्राह्मणधनैः सह । अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥
राजपुत्रा इमे राजञ्छोमन्ते यैर्विभूषिताः । कुम्डलानि च निष्काश्च सर्वं राजविभूषणम् ।
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः ।
नकुलो ग्लह एवैकी विद्ध्येतन्मम तद्धनम् ॥
शकुनिरुवाच ।
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर ।
अस्माकं वशतां प्राप्तो भूयः केनेह दीव्यसे ॥
वैशम्पायन उवाच ॥
एवमुक्त्वा तु तानक्षाञ्शकुनिः प्रत्यदीव्यत ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥
अयं धर्मान्सहदेवोऽनुशास्ति लोके ह्यस्मिन्पण्डिताख्यां गतश्च ।
अनर्हता राजपुत्रेण तेन दीव्याम्यहं चाप्रियवत्प्रियेण ॥
वैशम्पायन उवाच ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
शकुनिरुवाच ॥
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया ।
गरीयांसौ तु मन्ये भीमसेनधनञ्जयौ ॥
युधिष्ठिर उवाच ।
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् ।
यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ॥
शकुनिरुवाच ॥
गर्ते मत्तः प्रपतते प्रमत्तः स्थाणुमृच्छति ।
ज्येष्ठो राजन्व्ररिष्ठोऽसि नमस्ते भरतर्षभ ॥
स्वप्ने तानि न दृश्यन्ते जाग्रतो वा युधिष्ठिर ।
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ॥
युधिष्ठिर उवाच ॥
यो नः सङ्ख्ये नौरिव पारनेता जेता रिपूणां राजपुत्रस्तरस्वी ।
अनर्हता लोकवीरेण तेन दीव्याम्यहं शकुने फाल्गुनेन ॥
वैशम्पायन उवाच ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
शकुनिरुवाच ।
अयं मया पाण्डवानां धनिर्धरः पराजितः पाण्डवः सव्यसाची ।
भीमेन राजन्दयितेन दीव्य यत्कैतवं पाण्डव तेऽवशिष्टम् ॥
युधिष्ठिर उवाच ॥
यो नो नेता यो युधि नः प्रणेता यथा वज्री दानवशत्रुरेकः ।
तिर्यक्प्रेक्षी सन्नतभ्रूर्महात्मा सिंहस्कन्धो यश्च सदाऽत्यमर्षी ॥
बलेन तुल्यो यस्यप पुमान्न विद्यते गदाभृतामग्र्य इहारिमर्दनः ।
अनर्हता राजपुत्रेण तेन
दीव्याम्यहं भीमसेनेन राजन् ॥
वैशम्पायन उवाच ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
शकुनिरुवाच ।
बहुवित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् ।
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥
युधिष्ठिर उवाच ॥
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा ।
कुर्यामहं जितः कर्म स्वयमात्मन्युपल्पुते ॥
वैशम्पायन उवाच ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
शकुनिरुवाच ।
एतत्पापिष्ठमकरोर्यदात्मानं पराजयेः ।
शिष्टे सति धने राजन्पाप आत्मपराजयः ॥
वैशम्पायन उवाच ॥
एवमुक्त्वा मताक्षस्तान् ग्लहे सर्वानवस्थितान् ।
पराजयल्लोकवीरानुक्त्वा राज्ञां पृथक् पृथक् ॥
शकुनिरुवाच ॥
अस्ति ते वै प्रिया राजन् ग्लह एकोऽपराजितः ।
पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय ॥
युधिष्ठिर उवाच ॥
नैव ह्रस्वा न महती न कृशा नातिरोहिणी ।
नीलकुञ्चितकशी च तया दीव्याम्यहं त्वया ॥
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया ।
शारदोत्पलसेविन्या रूपेण श्रीसमानया ॥
तथैव स्यादानुशंस्यात्तथ स्याद्रूपसम्पदा ।
तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम् ॥
सर्वैर्गुणैर्हि सम्पन्नामनुकूलां प्रियंवदाम् ।
यादृशीं धर्मकामार्थसिद्धिमिच्छेन्नरः स्त्रियम् ॥
चरमं संविशति या प्रथमं प्रतिबुध्यते ।
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च ।
वेदीमध्या दीर्घकेशी ताम्रास्या नातिलोमशा ॥
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यमा ।
ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल ॥
वैशम्पायन उवाच ॥
एवमुक्ते तु वचने धर्मराजेन धीमता ।
धिग्धिगित्येव वृद्धानां सभ्यानां निः सृता गिरः ॥
चुक्षुभे सा सभा राजन्राज्ञां सञ्जत्रिरे शुचः ।
भीष्मद्रोणकृपादीनां स्वेदश्च समजायत ॥
शिरो गृहीत्वा विदुरो गतसत्व इवाभवत् ।
आस्ते ध्यायन्नधोवक्त्रो निः श्वसन्निव पन्नगः ॥
`बाह्लीकः सोमदत्तश्च प्रातिपेयश्च सञ्जयः । द्रौणिर्भूरिश्रवाश्चैव युयुत्सुर्धृतराष्ट्रजः ।
आसुर्वीक्ष्य त्वधोवक्त्रा निश्वसन्त इवोरगाः' ॥
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः ।
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत ॥
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः ।
इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतञ्जलम् ॥
सौबलस्त्वभिघायैव जितकाशी मदोत्कटः ।
जितमित्येव तानक्षान्पुररेवान्वपद्यत ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अष्टाशीतितमोऽध्यायः ॥ 88 ॥

2-88-6 पर्णाशा नदी ॥ 2-88-23 कैतव कितवेभ्य आहर्तव्यं धनम् ॥ 2-88-46 जितकाशी जयशोभी ॥