अध्यायः 090

भौमवचनम् ॥ 1 ॥ विकर्णवचनम् ॥ 2 ॥ दुःशासनेन द्रौपदीवस्त्रापहारः ॥ 3 ॥ श्रीकृष्णप्रसादात् द्रौपद्यः वस्त्रराशिप्रादुर्भावः ॥ 4 ॥ विदुरवचनम् ॥ 5 ॥

भीम उवाच ।

भवन्ति गेहे बन्धक्यः कितवानां युधिष्ठिर ।
भवन्ति दीव्यन्ति दया चैवास्ति तावस्वपि ॥
काश्यो यद्धनमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् ।
तथाऽन्ये पृथिवीपाला यानि रत्नान्युपाहरन् ॥
वाहनानि धनं चैव कवचान्यायुधानि च ।
राज्यमात्मा वयं चैव कैतवेन हृतं परैः ॥
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् ।
इमं त्वतिक्रमं मन्यो द्रौपदी यत्र पण्यते ॥
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः ।
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैरकृतात्मभिः ॥
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते ।
बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानयः ॥
अर्जुन उवाच ।
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः ।
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ॥
न सकामाः परो कार्या धर्ममेवाचरोत्तमम् ।
भ्रातरं धार्मिकं ज्येष्ठं कोऽतिवर्तितुमर्हति ॥
आहूतो हि परै राजा क्षात्रं व्रतमनुस्मरन् ।
दीव्यते परकामेन तन्नः कीर्तिकरं महत् ॥
भीमसेन उवाच ॥
एवमस्मिन्कृतं विद्यां यदि नाहं धनञ्जय ।
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ॥
वैशम्पायन उवाच ॥
तथा तान्दुः खितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः ।
कृष्यमाणां च पाञ्चालीं विकर्ण इदमब्रवीत् ॥
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः ।
अविवेकेन वाक्यस्य नरकः सद्य एव नः ॥
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ ।
समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः ॥
भारद्वाजश्च सर्वेषामाचार्यः कृप एव च ।
कुत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ॥
ये त्वन्ये पृथिवीपालाः समेताः सर्वतोदिशम् ।
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ॥
यदितं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा ।
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ॥
वाशम्पायन उवाच ॥
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः ।
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ॥
उक्त्वाऽसकृत्तथा सर्वान्विकर्णः पृथिवीपतीन् ।
पाणौ पाणिं विनिष्पिष्य निःश्वसन्निदमब्रवीत् ॥
विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चनि ।
मन्ये न्याय्यं यदत्राहं तद्वि वक्ष्यामि कौरवाः ॥
चत्वार्याहुर्नश्रेष्ठा व्यसनानि महीक्षिताम् ।
मृगयां पानमक्षांश्च ग्राम्ये चैवातिरक्तताम् ॥
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते ।
यथाऽयुक्तेन च कृतां क्रियां लोको न मन्यते ॥
तथेयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् ।
समाहूतेन कितवैरास्थितो द्रौपदीपणः ॥
साधारणी च सर्वेषां पाण्डवानामनिन्दिता ।
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ॥
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना ।
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ॥
वैशम्पायन उवाच ॥
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत ।
विकर्णं शंसमानानां सौबलं चापि निन्दताम् ॥
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः ।
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ॥
कर्ण उवाच ॥
दृश्यन्ते वै विकर्णेह वैकृतानि बहून्यपि ।
तज्जातस्तद्विनाशाय यथाऽग्निररणिप्रजः ॥
एते न किञ्चिदप्याहुश्चोदिता ह्यपि कृष्णया ।
धर्मेण विजितामेतां मन्यन्ते द्रपदात्मजाम् ॥
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे ।
यद्ब्रवीषि सभाम्ध्ये बालः स्थविरभाषितम् ॥
न च धर्म यथावत्त्वं कृष्णां च जितेति सुमन्दधीः ।
यद्ब्रवीषि जितां कृष्णां न जितेति सुमन्दधीः ॥
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज ।
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ॥
अभ्यन्तर च सर्वस्वे द्रौपदी भरतर्षभ ।
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ॥
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः ।
भवत्यविजिता केन हेतुनैषा मता तव ॥
मन्यसे वा सभामेतामानीतामेकवाससम् ।
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तमम् ॥
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन ।
इयं त्वनेकवशगा बन्धकीति विनिश्चिता ॥
अस्याः सभामानयनं न चित्रमिति मे मतिः ।
एकाम्बरधरत्वं वाऽप्यथवाऽपि विवस्त्रता ॥
यच्चैषां द्रविणं किञ्चिद्य चैषा ये च पाण्डवाः ।
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ॥
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः ।
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ॥
वैशम्पायन उवाच ॥
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत ।
अवकीर्योत्तरीयाणि सभायां समुपाविशन् ॥
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् ।
सभामध्ये सभाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे ॥
`आकृष्यमाणे वसने विललाप सुदुःखिता ।
ज्ञातं मया विसिष्ठेन पुरा गीतं महात्मना ॥
महत्यापदि सम्प्राप्ते स्मर्तव्यो भगवान्हरिः । इति निश्चित्य मनसा शरणागतवत्सलम् ।
आकृष्यमाणे वसने द्रौपदी कृष्णमस्तरत् ॥
शङ्खचक्रगदापाणे द्वारकानिलयाच्युत ।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम् ॥
हा कृष्ण द्वारकावासिन्क्वासि यादवन्दन ।
इमामवस्थां सम्प्राप्तामनाथां किमुपेक्षसे ॥
गोविन्द द्वारकावासिन्कृष्ण गोपीजनप्रिय ।
कौरवैः परिभूतां मां किं न जानासि केशव' ॥
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।
कौरवार्णवग्नां मामुद्धरस्व जनार्दन ॥
कृष्णकृष्ण महायोगिन्विश्वात्मन्विश्व्भावन ।
प्रपन्नां पाहि गोविन्द कुरमध्येऽवसीदतीम् ॥
इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम् ।
प्रारुदद्दुः खिता राजन्मुखमाच्छाद्य भामिनी ॥
तस्य प्रसाद्द्रौपद्याः कृष्णमाणेऽम्बरे तदा ।
तद्रूपमपरे वस्त्रं प्रादुरासीदनेकशः ॥
नानारागविरागाणि वसनान्यथ वै प्रभो ।
प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात् ॥
ततो हलहलाशब्दस्तत्रासीद्घोरदर्शनः ।
तदद्भुततमं लोके वीक्ष्य सर्वे महीभृतः ॥
शशंसुर्द्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम् ।
`धिग्धिगित्यशिवां वाचमुत्सृजन्कौरवान्प्रति' ॥
यदा तु वाससां राशिः सभामध्ये समाचितः' । तदा दुःशासनः श्रान्तो व्रीडितः समुपाविशत्
शशाप तत्र भीमस्तु राजमध्ये बृहत्स्वनः ।
क्रोधाद्विस्फुरमाणौष्ठो विनिष्पिष्य करे करम् ॥
भीम उवाच ॥
इदं मे वाक्यमादध्वं क्षत्रिया लोकवासिनः ।
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ॥
यद्येतदेवमुक्त्वाऽहं न कुर्यां पृथिवीश्वराः ।
पितामहानां पूर्वेषां नाहं गतिमवाप्नुयाम् ॥
अस्य पापस्य दुर्बुद्धेर्भारतापसदस्य च ।
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ॥
वैशम्पायन उवाच ॥
तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम् ॥
प्रचक्रुर्बहुलां पूजां कुसन्तो धृतराष्ट्रजम् ॥
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह ।
सुजनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ॥
विदुर उवाच । द्रौपदी प्रश्नमुक्त्वैवं रोरवीति त्वनाथवत् ।
वैशम्पायन उवाच ॥
तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम् ।
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ॥
सभां प्रपद्यते प्रश्नः प्रज्वलन्निव हव्यवाद् ।
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥
धर्म्यं प्रश्नमतो ब्रूयादार्यः सत्येन मानवः ।
विब्रूयुस्तत्र तं प्रश्नं कामक्रोधबलातिगाः ॥
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः ।
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ॥
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः ।
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ॥
यः पुनर्वितथं ब्रूयाद्धर्मदशीं सभां गतः ।
अनृतस्य फलं कृत्स्नं स प्राप्नोतीति निश्चयः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ॥
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः ।
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ॥
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा ।
तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ॥
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् ।
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ॥
स वै विवदनाद्भीतः सुधन्वानं विलोकयन् ।
तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदम्ड इव ज्वलन् ॥
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि ॥
शतघा ते शिरो वज्री वज्रेण प्रहरिष्यति ॥
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् ।
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ॥
प्रह्लाद उवाच ॥
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च ।
ब्राह्मणस्य महाभाग धर्मकृच्छ्रमिदं शृणु ॥
यो वै प्रश्नं न विब्रूयाद्वितथं चैव निर्दिशेत् ।
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ॥
कश्यप उवाच ॥
जानन्नविब्रुवन्प्रश्नान्कामात्क्रोधाद्भयात्तथा ।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥
साक्षी वा विब्रुवन्साक्ष्यं गोकर्णशिथिलश्वरन् ।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्जति ॥
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते ।
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमुञ्जसा ॥
विद्धो धर्मो ह्यधर्मेण सभां यत्रोपपद्यते ।
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु ।
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ॥
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते ।
इष्टापूर्तं च ते घ्न्ति सप्तसप्त परावरान् ॥
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चैव यत् ।
ऋणिनः प्रति यच्चैव स्वार्थाद्धष्टस्य चैव यत् ॥
स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत् ।
अपुत्रायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत् ॥
अध्यूढायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत् ॥
एतानि वै समान्याहुर्दुःखानि त्रिदिवेश्वराः ॥
तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् ।
समक्षदर्शनात्साक्षी श्रवणाच्चेति धारणात् ॥
तस्मात्सत्यं ब्रुवत्साक्षी धर्मार्थाभ्यां न हीयते ।
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् ॥
श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः ।
माता सुधन्वाऽयं प्राणानामीश्वरस्तव ॥
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव ॥
सुधन्वोवाच ।
पुत्रस्नेहं पिरत्यज्य यस्त्वं धर्मे व्यवस्थितः ।
अनुजानामि ते पुत्रं जीवत्वेव शतं समाः ॥
विदुर उवाच ।
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः ।
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ॥
वैशम्पायन उवाच ॥
विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः ।
कर्णो दुःशासनं त्वाह कृष्णं दासीं गृहान्नय ॥
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् ।
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि नवतितमोऽध्यायः ॥ 90 ॥

2-90-20 ग्राम्ये स्त्रीभोगी ॥ 2-90-41 आकृष्यमाणे वसने द्रौपद्या चिन्तितो हरिः । गोविन्द द्वारकान्वासिन्कृष्ण गो पीजनप्रिय । कौरवैः परिभूतां मां किं ज जानासि केशव । इति झ.पाठः ॥ 2-90-77 गोकर्णशिथिल उभयक्षस्पर्शी ॥