अध्यायः 091

द्रौपदीवचनम् ॥ 1 ॥ युधिष्ठिरेणैव द्रौपदीप्रश्नस्योत्तरं वक्तव्यमिति भीष्मवचनम् ॥ 2 ॥

द्रौपद्युवाच ॥

पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् ।
विह्वलाऽस्मि कृताऽनेन कर्षता बलिना बलात् ॥
अभिवादं करोम्येषां कुरूणां कुरुसंसदि ।
न मे स्यादपराधोऽयं तदिदं न कृतं मया ॥
वैशम्पायन उवाच ॥
सा तेन च समाधूता दुःखेन च तपस्विनी ।
पतिता विललापेदं सभायामतथोचिता ॥
द्रौपद्युवाच ।
स्वयंवरे यास्मि नृपैदृष्टा रङ्गे समागतैः ।
न दृष्टपूर्वा चान्यत्र साऽहमद्य सभां गता ॥
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे ।
साऽहमद्य सभामध्ये दृष्टास्मि जनसंसदि ॥
यां न मृष्यन्ति वातेन स्पृश्यमानां गृहे पुरा ।
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दूरात्मना ॥
मृष्यन्ति कुरवश्चेमे मन्ये कालस्य पर्ययम् ।
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ॥
किंन्वतः कृपणं भूयो यदहं स्त्री सती शुभा ।
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ॥
धर्म्यं स्त्रियं सभां पूर्वे न नयन्तीति नः श्रुतम् ।
स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ॥
कथं हि भार्या पाण्डुनां पार्षतस्य स्वसा सती ।
वासुदेवस्य च सखी पार्थिवानां सभामियाम् ॥
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् । ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः ।
अयं मां सुदृढं क्षुद्रः कौरवाणां यशोहरः. क्लिश्नाति नाहं तत्सोढुं क्षुद्रः कौरवाणां यशोहरः ।
जितां वाऽप्यजितां वापि मन्यध्वं मां यथा नृपाः ।
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ॥
भीष्म उवाच ॥
उक्तवानस्मि कल्याणि धर्मस्य परमा गतिः ।
लोके न शक्यते ज्ञातुमपि विज्ञैर्महात्मभिः ॥
बलवांश्च यथा धर्मं लोके पश्यति पुरुषः ॥
स धर्मो धर्मवेलायां भवत्यभिहतः परः ॥
न विवेक्तुं च ते प्रश्नमिमं शक्नोमि निश्चयात् ।
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ॥
नूनमन्तः कुलस्यास्य भविता न चिरादिव ।
तथा हि कुरवः सर्वे लोभमोहपरायणाः ॥
कुलेषु जाताः कल्याणि व्यसनैराहता भृशम् ।
धर्म्यान्मार्गान्न च्यवन्ते येषां नस्त्वं बधूः स्थिता ॥
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् ।
यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे ॥
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः ।
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ॥
युधिष्ठिरस्तु प्रश्नोऽस्मिन्प्रमाणमिति मे मतिः ।
अजितां वा जितां वेति स्वयं व्याख्यातुमर्हति ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥