अध्यायः 093

कुप्यतोऽर्जुनस्य युधिष्ठिरेण परिसान्त्वनम् ॥ 1 ॥ धृतराष्ट्रेण वरं वरयेति द्रौपदीम्प्रति चोदनम् ॥ 2 ॥ तत्प्रार्थनया धृतराष्ट्रेण युधिष्ठिरादीनामदासत्ववरदानम् ॥ 3 ॥

वैशम्पायन उवाच ॥

द्रौपद्या वचनं श्रुत्वा चुकोपाथ धनञ्जयः ।
स तदा क्रोधताम्राक्ष इदं वचनमब्रवीत् ॥
अयं तु मां वारयते धर्मराजो युधिष्ठिरः ।
इत्युक्त्वा क्रोधताम्राक्षो धनुरादाय वीर्यवान् ॥
सव्यसाची समुत्पत्य ताञ्छत्रून्समुदैक्षत ।
उद्यतं फल्गुनं तत्र ददृशुः सर्वपार्थिवाः ॥
युगान्ते सर्वलोकांस्तु दहन्तमिव पावकम् ।
वीक्षमाणं धनुष्पामिं हन्तुकामं मुहुर्मुहुः ॥
हन्तुकामं पशून्क्रुद्धं रुद्रं दक्षक्रतौ यथा ।
तथाभूतं नरं दृष्ट्वा विषेदुस्तत्र मानवाः ॥
धनञ्जयस्यव वीर्यज्ञा निराशा जीविते तदा ।
मृतभूता भवन्सर्वे नेत्रैरनिमिषैरिव ॥
अर्जुनं धर्मपुत्रं च समुदैक्षन्त पार्थिवाः ।
क्रुद्धं तदाऽर्जुनं दृष्ट्वा पृथिवी च चचाल ह ॥
खेचराणि च भूतानि वित्रेसुर्वै भयार्दिताः । नादित्यो विरराजाथ नापि वान्ति च मारुताः ।
न चन्द्रो न च नक्षत्रं द्यौर्दिशोन न विभान्ति ह ।
सर्वमाविद्धमभवज्जगत्स्थावरजङ्गमम् ॥
उत्पतन्स वभौ पार्तो दिवाकर इवाम्बरे ।
पार्थं दृष्ट्वा क्रुद्धं कालान्तकयमोपमम् ।
भीमसेनो मुदा युक्तो युद्धायैव मनो दधे ॥
पाञ्चाली च ददर्शाथ सुसङ्क्रुद्धं धनञ्जयम् ।
हन्तुकामं रिपून्मर्वान्सुपर्णमिव पन्नगान् ॥
दुष्प्रेक्षः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन् ।
तं दृष्ट्वा तेजसा युक्तं विव्यधुः पुरवासिनः ॥
उत्पतन्तं तु वेगेन ततो दृष्ट्वा धनञ्जयम् ।
जग्राह स तदा राजा पुरुहूतो यथा हरिम् ॥
उवाच स घृणी ज्येष्ठो धर्मराजो युधिष्ठिरः ।
मा पार्थ साहसं कार्षीर्मा विनाशं गमेद्यशः ॥
अहमेतान्पापकृतो द्यूतज्ञान्दग्धुमुत्सहे ।
कन्त्त्वसत्यगतिं दृष्ट्वा क्रोधो नाशमुपैति मे ॥
त्वमिमं जगतोऽर्थे वै कोपं संयच्छ पाण्डव ॥
वैशम्पायन उवाच ॥
एवमुक्तस्तदा राज्ञा पाण्डवोऽथ धनञ्जयः ।
क्रोधं संशमयन्पार्थो धार्तराष्ट्रं प्रति स्थितः ॥
तस्मिन्वीरे प्रशान्ते तु पाण्डवे फल्गुने पुनः ।
सुसम्प्रहृष्टमभवज्जगत्स्थावरजङ्गमम् ॥
वारितं च तथा दृष्ट्वा भ्रात्रा पार्थं वृकोदरः ।
बभूव विमना राजन्नभून्निश्शब्दमत्र वै ॥
ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुरुच्चैर्व्याहरदग्निहोत्रे ।
तं रासभाः प्रत्यभाषन्त राज- न्समन्ततः पक्षिणश्चैव रौद्राः ॥
तं वै शब्दं विदुरस्तत्त्ववेदी शुश्राव घोरं सुबलात्मजा च ।
भीष्मो द्रोणो गौतमश्चापि विद्वान् स्वस्तिस्वस्तीत्यपि चैवाहुरुच्चैः ॥
ततो गान्धारी विदुरश्चापि विद्वां- स्तमुत्पातं घोरमालक्ष्य राज्ञे ।
निवेदयामासतुरार्तवत्तदा ततो राजा वाक्यमिदं बभाषे ॥
धृतराष्ट्र उवाच ॥
हतोऽसि दुर्योधन मन्दबुद्धे यस्त्वं सभायां कुरुपुङ्गवानाम् ।
स्त्रियं समाभाषसि दुर्विनीत विशेषतो द्रौपदीं धर्मपत्नीम् ॥
वैशम्पायन उवाच ॥
एवमुक्त्वा धृतराष्ट्रो मनीषी हितान्वेषी बान्धवानामपायात् ।
कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ॥
धृतराष्ट उवाच ॥
वरं वृणीष्व पाञ्चालि मत्तो यदभिवाञ्छसि ।
वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ॥
द्रौपद्युवाच ॥
ददासि चेद्वरं मह्यंवृणोमि भरतर्षभ ।
सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ॥
मनस्विनमजानन्तो मैवं ब्रूयुः कुमारकाः ।
एतं वै दासपुत्रेति प्रतिविन्ध्यं ममात्मजम् ॥
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् ।
लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ॥
धृतराष्ट्र उवाच ॥
एवं भवतु कल्याणि यथा त्वमभिभाषसे । द्वितीयं ते वरं भद्रे ददानि वरयस्व ह ।
मनो हि मे वितरति नैकं त्वं वरमर्हसि ॥
द्रौपद्युवाच ॥
सरथौ सघनुष्कौ न भीमसेनधनञ्जयौ ।
यमौ च वरये राजन्नदासान्स्ववशानहम् ॥
धृतराष्ट्र उवाच ॥
तथाऽस्तु ते महाभागे यथा त्वं नन्दिनीच्छसि ।
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसंस्कृता ।
त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ॥
द्रौपद्युवाच ।
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे ।
अनर्हा वरमादातुं तृतीयं राजसत्तम ॥
एकामाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रियो वरौ ।
त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ॥
पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम ।
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥

2-93-21 अग्निहोत्रे गृह्याग्निसमीपे ॥