अध्यायः 096

दुर्योधनेन धृतराष्ट्रसमीपे कार्तवीर्यार्जुनोपाख्यानकथनम् ॥ 1 ॥

जनमेजय उवाच ॥

अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्जयान् ।
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ॥
वैशम्पायन उवाच ॥
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता ।
राजन्दुः शासनः क्षिप्रं जगाम भ्रातरं प्रति ॥
दुर्योधनं समासाद्य सामात्यं भरतर्षभ ।
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ॥
दुःशासन उवाच ॥
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ ।
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ॥
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः ॥
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् ।
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ॥
दुर्योधन उवाच ॥
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः ।
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ॥
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुसूदन ।
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ॥
ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान् ।
यदि तान्योधयिष्यामः किं वै निः परिहास्यति ॥
अहीनाशीविषान्क्रुद्धान्नाशाय समुपस्थितान् ।
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ॥
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः ।
निःशेषान्नः करिष्यन्ति क्रुद्धा ह्याशीविषा इव ॥
सन्नद्धो ह्यर्जुनो याति विधृत्य परमेषुधी ।
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ॥
गदां गुर्वी समुद्यम्य त्वरितश्च वृकोदरः ।
स्वरथं योजयित्वाऽशु निर्यात इति नः श्रुतम् ॥
नकुलः खह्गमादाय चर्म चाप्यर्धचन्द्रवत् ।
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ॥
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् ।
अभिघ्नान्तो रथव्रातान्सेनायोगाय निर्ययुः ॥
न क्षंस्यन्ते तथाऽस्माभिर्जातु विप्रकृता हि ते ।
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥
` न पश्यामि रणे क्रद्धुं बीभत्सुं प्रतिवारणम् ।
भीष्मो द्रोणश्च कर्णश्च द्रौणिश्च रथिनां वरः ॥
कृपश्च वृषसेनश्च विकर्णश्च जयद्रथः ।
वाह्लीकः सोमदत्तश्च भूरिर्भूरिश्रवाः शलः ॥
शकुनिः ससुतश्चैव नृपाश्चान्ये च कौरवाः ।
नैते सर्वे रणोद्युक्ताः पार्थं सोढुमशक्नुवन् ॥
अर्जुनेन समो लोके नास्ति वीर्ये धनुर्धरः ।
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ॥
धृतराष्ट्र उवाच ॥
कस्त्वयोक्तः पुमान्वीरो बीभत्सुसमविक्रमः ।
तं ये व्रूहि महावीर्यं श्रोतुमिच्छामि पुत्रक ॥
दुर्योधन उवाच ॥
कार्तवीर्यस्य चरितं शृणु राजन्महात्मनः ।
अव्यक्तप्रभवो ब्रह्मा सर्वलोकपितामहः ॥
ब्रह्मणोऽत्रिः सुतो विद्वानत्रेः पुत्रो निशाकरः ।
सोमस्य तदु बुधः पुत्रो बुधस्य तु पुरूरवाः ॥
तस्याप्यध सुतोऽप्यायुरायोस्तु नहुषः सुतः ।
स चार्जुनोऽथ तेजस्वी तपः परमदुश्चरम् ।
------ सोऽर्जुनोऽत्रिसुतं मुनिम् ॥
तस्य दत्तो वरान्प्रादाच्चतुरः पार्थिवस्य वै ।
पूर्वं बाहुसहस्रं तु प्रार्थितः परमो वरः ॥
अधर्मे प्रीयमाणस्य सद्भिस्तत्र निवारणम् ।
धर्मेण पृथिवीं जित्वा धर्मेणैव हि रञ्जनम् ॥
सङ्ग्रामान्सुबहून्कृत्वा हत्वा चारीन्सहस्रशः ।
सङ्ग्रामे यतमानस्य वधश्चैवाधिकाद्रणै ॥
तस्य बाहुसहस्रं तु युध्यतः किल भारत ।
रथो ध्वजश्च सञ्जज्ञ इत्येवं मे श्रुतं परा ॥
तथेयं पृथिवी राजन्त्सप्तद्वीपा सपत्तना ।
ससमुद्राकरा तात विधिनोग्रेण वै जिता ॥
चार्जुनोऽथ तेजस्वी सप्तद्वीपेश्वरोऽभवत् । च राजा महायज्ञानाजहार महाबलः ।
प्रशशास महाबाहुर्महीं स च समा बहूः ॥
ततोऽर्जुनः कदाचिद्वै राजन्माहिष्मतीपतिः ।
नर्मदां भरतश्रेष्ठं तां तु दारैर्ययौ सह ॥
ततस्तां स नदीं गत्वा प्रविश्यन्तर्जले तदा ।
कर्तुं राजञ्जलक्रीडां ततो राजोपचक्रमे ॥
तस्मिन्नेव ततः काले रावमो राक्षसैः सह ।
लङ्काया ईश्वरस्तात तं देशं प्रययौ बली ॥
ततस्तमर्जुनं दृष्ट्वा नर्मदायां दशाननः ।
नित्यं क्रोधपरो धीरो वरदानेन मोहितः ॥
अभ्यघावत्सुसङ्क्रुद्धो महेन्द्रं शम्बरो यथा ।
अर्जुनोऽप्यथ तं दृष्ट्वा रावणं प्रत्यवारयत् ॥
ततस्तौ चक्रतुर्युद्धं रावणश्चार्जुनश्च वै ।
ततस्तु दुर्जयं वीरं वरदानेन दर्पितम् ॥
राक्षसेन्द्रं मनुष्येन्द्रो जित्वा बध्वा रणे बलात् ।
बध्वा धनुर्ज्यया राजन्विवेशाथ पुरीं स्वकाम् ॥
स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा ।
मोक्षयाणास बन्धाद्वै पुरे दृष्ट्वाऽर्जुनं तदा ॥
ततः कदाचित्तेजस्वी कार्तवीर्योर्जुनो बली ।
समुद्रतीरं गत्वाथ विरचन्दर्पमोहितः ॥
अवाकिरच्छितशरैः समुद्रं स तु भारत ।
तं समुद्रो नमस्कृत्य कृताञ्जलिरभाषत ॥
आशुगान्वीर मा मुञ्च ब्रूहि किं करवाणि ते । मदाश्रयाणि सत्वानि त्वद्विसृष्टैर्महेषुभिः ।
बाध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥
अर्जुन उवाच ॥
देहि सिन्धुपते युद्धमद्यैव त्वरया मम ।
अथवा पीडयामि त्वां तस्मात्त्वं कुरु माचिरम् ॥
समुद्र उवाच ॥
लोके राजन्महावीर्या बहवो निवसन्ति ये ।
तेषामेकेन राजेन्द्र कुरु युद्धं महाबल ॥
अर्जुन उवाच ॥
मत्समो यदि सङ्ग्रामे वरायुधधरः क्वचित् ।
विद्यते तं ममाचक्ष्व यः समासेत मा मृधे ॥
समुद्र उवाच ॥
महर्षिर्जमदग्निस्तु यदि राजन्परिश्रुतः ।
तस्य पुत्रो रणं दातुं यथावद्वै तवार्हति ॥
दुर्योधन उवाच ॥
समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः ।
नारदस्य च वै पूर्वं क्रोधेन महता वृतः ॥
ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत ।
स तमाश्रममागत्य काममेवान्वपद्यत ॥
स कामं प्रतिकूलानि चकार सह बन्धुभिः ।
आयासं जनयामास रामस्य स महात्मनः ॥
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः ।
प्रदहन्निव सैन्यानि रश्मिमानिव तेजसा ॥
अथ तौ चक्रतुर्युद्धं वृत्रवासवयोरिव ॥
ततः परशुमादाय नृपं बाहुसहस्रिणम् ।
चिच्छेद सहसा रामो बहुशाखमिव द्रुमम् ॥
तं हतं पतितं दृष्ट्वा समेतास्तस्य बान्धवाः ।
असीनादाय शक्तीश्च रामं ते प्रत्यवारयन् ॥
रामोऽपि रथमास्थाय धनुरायम्य सत्वरः ।
विसृजन्परमास्त्राणि व्यधमत्पार्थिवान्बली ॥
ततस्तु क्षत्रिया राजञ्जामदग्न्यभयार्दिताः ।
विविशुर्गिरिदुर्गाणि मृगाः सिंहभयादिव ॥
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठति ।
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥
तथा च द्रविडाः काचाः पुण्डाश्च शबरैः सह ।
वृषलत्वं परिगता विच्छिन्नाः क्षत्रधर्मिणः ॥
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः ।
द्विजैरभ्युदितं क्षत्रं तानि रामो निहत्य च ॥
ततस्त्रिस्मप्तमे याते रामं वागशरीरिणी ।
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥
रामराम निवर्तस्व स्वगुणं नात्र पश्यसि ।
क्षत्रबन्धूनिमान्प्रामैर्विप्रयुज्य पुनः पुनः ॥
तथैव तं महात्मानमृचीकप्रमुखास्तथा ।
रामराम महावीर्य निवर्तस्वेत्यथाब्रुवन् ॥
पितुर्वधमसमृष्यंस्तु रामः प्रोवाच तानृषीन् ।
नार्हा हन्त भवन्तो मां निवारयितुमित्युत ॥
पितर ऊचुः ।
नार्हसि क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर ।
न हि युक्तं त्वया तात ब्राह्मणेनसता नृपान् ॥
दुर्योधन उवाच ॥
पितॄणां वचनं श्रुत्वा क्रोधं त्यक्त्वा स भार्गवः ।
अश्वमेधसहस्राणि नरमेधशतानि च ॥
इष्ट्वा सागरपर्यन्तां काश्यपाय ददौ महीम् ।
तेन रामेण सङ््ग्रामे तुल्यस्तात दयञ्जयः ॥
कार्तवीर्येण च रणे तुल्यः पार्थो न संशयः ।
रणे विक्रम्य राजेन्द्र पार्थं जेतुं न शक्यते ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि षण्णवतितमोऽध्यायः ॥ 96 ॥

2-96-4 गमयत् अगमयत् ॥ 2-96-9 परिहास्यति नङ्क्ष्यति ॥