अध्यायः 097

दुर्योधनेन धृतराष्ट्रसमीपे अर्जुनप्रभाववर्णनम् ॥ 1 ॥ दुर्योधनदुर्बोधनेन धृतराष्ट्रस्य पुनर्द्यूताय पाण्डवानयनाभ्यनुज्ञा ॥ 2 ॥

दुर्योधन उवाच ॥

शृणु राजन्पुराऽचिन्त्यानर्जुनस्य च साहसान् ।
अर्जुनो धन्विनां श्रेष्ठो दुष्करं कृतवान्पुरा ॥
द्रुपदस्य पुरे राजन्द्रौपद्याश्च स्वयंवर ॥ आबालवृद्धसङ्क्षोभे सर्वक्षत्रसमागमे ।
क्षिप्रकारी जले मत्स्यं दुर्निरीक्ष्यं ससर्ज ह ॥
सर्वैर्नृपैरसाध्यं तत्कार्मुकप्रवरं च वै ।
क्षणेन सज्यमकरोत्सर्वक्षत्रस्य पश्यतः ॥
ततो यन्त्रमयं विध्वा विसारं फल्गुनो बली ।
कृष्णया हेममाल्येन स्कन्धे स परिवेष्टितः ॥
ततस्तया वृतं पार्थं दृष्ट्वा सर्वे नृपास्तदा । रोषात्सर्वायुधान्गृह्य क्रुद्धा वीरा महौजसः ।
वैकर्तनं पुरस्कृत्य सर्वे पार्थमुपाद्रवन् ॥
स सर्वान्पार्थिवान्दृष्ट्वा क्रुद्धान्पार्थो महाबलः ।
वारयित्वा शरैस्तीक्ष्णैरजयत्तत्र स स्वयम् ॥
जित्वा तु तान्महीपालान्सर्वान्कर्णपुरोगमान् ।
लेभे कृष्णां शुभां पार्थो युध्वा वीर्यबलात्तदा ॥
सर्वक्षत्रसमूहेषु अम्बां भीष्मो यथा पुरा ।
ततः कदाचिद्बीभत्सुस्तीर्ययात्रां ययौ स्वयम् ॥
अथोलूपीं शुभां तात नागराजसतां तदा ।
नागेष्वाप वराग्र्येषु प्रार्थितोऽथ यथा तथा ॥
ततो गोदावरीं कृष्णां कावेरीं चावगाहत ।
तत्र पाण्ड्यं समासाद्य तस्य कन्यामवाप सः ॥
लब्ध्वा जिष्णुर्मुदं तत्र ततो याम्यां दिशं ययौ ॥
स दक्षिणं समुद्रान्तं गत्वा चाप्सरसां च वै ।
कुमारतीर्थमासाद्य मोक्षयामास चार्जुनः ॥
ग्राहरूपाश्च ताः पञ्च अतिशौर्येण वै बलात् ।
कन्यातीर्थं समभ्येत्य ततो द्वारवतीं ययौ ॥ ।
तत्र कृष्णनिदेशात्स सुभद्रां प्राप्य फल्गुनः ।
तामारोप्य रथोपस्थे प्रययौ स्वपुरीं प्रति ॥
अथादाय गते पार्थे ते श्रुत्वा सर्वयादवाः ।
तमभ्यधावन्त्सङ्क्रुद्धाः सिंहव्याघ्रगणा इव ॥
प्रद्युम्नः कृतवर्मा च गदः सारणसात्यकी ।
आहुकश्चैव साम्बश्च चारुदेष्णो विदूरथः ॥
अन्ये च यादवाः सर्वे बलदेवपुरोगमाः ।
एकमेव परे कृष्णं गजवाजिरथैर्युताः ॥
अथासाद्य वने यान्तं परिवार्य धनञ्जयम् ।
चक्रुर्युद्धं सुसङ्क्रुद्धा बहुकोट्यश्च यादवाः ॥
एक एव तु पार्थस्तैर्युद्धं चक्रे सुदारुणम् ।
तेन तेषां समं युद्धं मुहूर्तं प्रबभूव ह ॥
ततः पार्थो रणे सर्वान्वारयित्वा शितैः शरैः । बलाद्विजित्य राजेन्द्र वीरस्तान्सर्वयादवान् ।
तां सुभद्रामथादाय शक्रप्रस्थं विवेश ह ॥
भूयः शृणु महाराज फल्गुनस्य च साहसम् ।
ददौ स वह्नेर्बिभत्सुः प्रार्थितं खाण्डवं वनम् ॥
लब्धमात्रे तु तेनाथ भगवान्हव्यवाहनः ।
भक्षितुं खाण्डवं राजंस्तत्रस्थानुपचक्रमे ॥
ततस्तं भक्षयन्तं वै सव्यसाची विभावसुम् । रथा धन्वी शरान्गृह्य स कलापयुतः प्रभुः ।
पालयामास राजेन्द्र स्ववीर्येण महाबलः ॥
ततः श्रुत्वा महेनद्रस्तु मेघांस्तान्सन्दिदेश ह ।
तेनोक्ता मेघसङ्घास्ते ववर्षुरतिवृष्टिभिः ॥
ततो मेघगाणान्पार्थः शरव्रातैः समान्ततः ।
खगमैर्वारयामास तदाश्चर्यमिवाभवत् ॥
वारितान्मेघसङ्घांश्च श्रुत्वा क्रुद्धः पुरन्दरः । पाण्डरं गजमास्थाय सर्वदेवगणैर्वृतः ।
ययौ पार्थेन संयोद्धुं रक्षार्थं खाण्डवस्य च ॥
रुद्राश्च मरुतश्चैव वसवश्चाश्विनौ तदा । आदित्याश्चैव साध्याश्च निश्वेदेवाश्च भारत ।
गन्धर्वाश्चैव सहिता अन्ये देवगणाश्च ये ॥
ते सर्वे शस्त्रसम्पन्ना दीप्यमानाः स्वतेजसा ।
धनञ्जयं जिघांसन्तः प्रपेतुर्विबुधाधिपाः ॥
युगान्ते यानि दृश्यन्ते निमित्तानि महान्त्यपि ।
सर्वाणि तत्र दृश्यन्ते निमित्तानि महीपते ॥
ततो देवगमाः सर्वे पार्थं समभिदुद्रुवुः ।
असम्भ्रान्तस्तु तान्दृष्ट्वा स तां देवमयीं चमूम् ॥
त्वरितः फल्गुनो गृह्य तीक्ष्णांस्तानाशुगांस्तदा ।
इन्द्रं देवांश्च सम्प्रेक्ष्य तस्थौ काल इवात्यये ॥
ततो देवगणाः सर्वे बीभत्सुं सपुरन्दराः ।
अवाकिरञ्छरव्रातैर्मानुषं तं महीपते ॥
ततः पार्थो महातेजा गाण्डिवं गृह्य सत्वरः ।
वारयामास देवानां शरव्रातैः शरांस्तदा ॥
पुनः क्रुद्धाः सुराः सर्वे मर्त्यं तं सुभहाबलाः ।
नानाशस्त्रैर्ववर्षुस्तं सव्यसाची महीपते ॥
तान्पार्थः शस्त्रवर्षान्वै विसृष्टान्विबुधैस्तदा ।
द्विधा त्रिधा स चिच्छेद स एव निशितैः शरैः ॥
पुनश्च पार्थः सङ्क्रुद्धो मण्डलीकृतकार्मुकः ।
देवसङ्घाञ्छरैस्तीक्ष्णैरर्पयन्वै समन्ततः ॥
ततो देवगणाः सर्वे युध्वा पार्थेन वै मुहुः ।
रणे जेतुमशक्यं तं ज्ञात्वा ते भरतर्षभ ॥
शान्तास्ते विबुधाः सर्वे पार्थबाणाभिपीडिताः ।
सद्विपं वासवं त्यक्त्वा दुद्रुवुः सर्वतो दिशम् ॥
प्राचीं रुद्राः सगन्धर्वा दक्षिणां मरुतो ययुः ।
दिशं प्रतीचीं भीतास्ते वसवश्च तथाऽश्विनौ ॥
आदित्याश्चैव विश्वे च दुद्रुवुर्वा उदङ्मुखाः ।
साध्याश्चोर्ध्वमुखा भीताश्चिन्तयन्तोऽस्य सायकान् ॥
एवं सुरगणाः सर्वे प्राद्रवन्त्सर्वतो दिशम् ।
मुहुर्मुहुः प्रेक्षमाणाः पार्थमेव सकार्मुकम् ॥
विद्रुतान्देवसङ्घांस्तान्रणे दृष्ट्वा पुरन्दरः ।
ततः क्रुद्धो महातेजाः पार्थं बाणैरवाकिरत् ॥
पार्थोऽपि शक्रं विव्याथ मानुषो विबुधाधिपम् ॥
ततः सोऽश्ममयं वर्षं व्यसृजद्विबुधाधिपः ।
तच्छरैरर्जुनो वर्षं प्रतिजाघ्नेऽत्यमर्षणः ॥
अथ संवर्धयामास तद्वर्षं देवराडपि ।
भूय एव महावीर्यं जिज्ञासुः सव्यसाचिनः ॥
सोऽश्मवर्षं महावेगमिषुभिः पाण्डवोऽपि च ।
विलयं गमयामास हर्षयन्पाकशासनम् ॥
उपादाय तु पाणिभ्यामङ्गदं नाम पर्वतम् ।
सद्रुमं व्यसृजच्छक्रो जिघांसुः श्वेतवाहनम् ॥
ततोऽर्जुनो वेगवद्भिर्ज्वलमानैरजिह्यगैः ।
बाणैर्विध्वंसयामास गिरिराजं सहस्रधा ॥
शक्रं च पातयामास शरैः पार्थो महान्युधि ।
ततः शक्रो महाराज रणे वीरं धनञ्जयम् ॥
ज्ञात्वा जेतुमशक्यं तं तेजोबलसमन्वितम् ।
परां प्रीति ययौ तत्र पुत्रशौर्येण वासवः ॥
तदा तत्र न तस्यास्ति दिवि कश्चिन्महायशाः ।
समर्थो निर्जये राजन्नपि साक्षात्प्रजापतिः ॥
ततः पार्थः शरैर्हत्वा यक्षराक्षसपन्नगान् ।
दीप्ते चाग्नौ महातेजाः पातयामास सन्ततम् ॥
प्रतिषेधयितुं पार्थं न शेकुस्तत्र केचन ।
दृष्ट्वा निवारितं शक्रं दिवि देवगणैः सह ॥
यथा सुपर्णः सोमार्थं विबुधानजयत्पुरा ।
तथा जित्वा सुरान्पार्थस्तर्पयामास पावकम् ॥
ततोऽर्जुनः स्ववीर्येण तर्पयित्वा विभावसुम् ।
रथं ध्वजं च सहयं दिव्यानस्त्रांश्च पाण्डवः ॥
गाण्डीवं च धनुः श्रेष्ठं तूणी चाक्षयसायकौ ।
एतान्यपि च बीभत्सुर्लेभे कीर्ति च भारत ॥
भूयोऽपि शृणु राजेन्द्र पार्थो गत्वोत्तरां दिशम् ।
विजित्य नववर्षांश्च सपुरांश्च सपर्वतान् ॥
जम्बुद्वीपं वशे कृत्वा सर्वं तद्भरतर्षभ ।
बलाज्जित्वा नृपान्सर्वान्करे चविनिवेश्य च ॥
रत्नान्यादाय सर्वाणि गत्वा चैव पुनः पुरीम् । ततो ज्येष्ठं महात्मानं धर्मराजं युधिष्ठिरम् ।
राजसूयं क्रतुश्रेष्ठं कारयामास भारत ॥
स तान्यन्यानि कर्माणि कृतवानर्जुनः पुरा ।
अर्जुनेन समो वीर्ये त्रिषु लोकेषु न क्वचित् ॥
देवदानवयक्षाश्च पिशाचोरगराक्षसाः ।
भीष्मद्रोणादयः सर्वे कुरवश्च महारथाः ॥
लोके सर्वनृपाश्चैव वीराश्चान्ये धनुर्धराः ।
एते पार्थं रणे युक्ताः प्रतियोद्धुं न शक्नुयुः ॥
अहं हि नित्यं कौरव्य फल्गुनं हृदि संस्थितम् ।
अपश्यं चिन्तयित्वा तं समुद्विग्नोऽस्मि तद्भयात् ॥
गृहे गृहे च पश्यामि तात पार्थमहं सदा ।
शरगाण्डीवसंयुक्तं पाशहस्तमिवान्तकम् ॥
अपि पार्थसहस्राणि भीतः पश्यामि भारत ।
पार्थभूतमिदं सर्वं नगरं प्रतिभाति मे ॥
पार्थमेव हि पश्यामि रहिते तात भारत ।
दृष्ट्वा स्वप्नगतं पार्थमुद्धमामि विचेतनः ॥
अकारादीनि नामानि अर्जुनग्रस्तचेतसः ।
अश्वाक्षराम्बुजाश्चैव त्रासं सञ्जनयन्ति मे ॥
नास्ति पार्थादृते तात परवीराद्भयं मम ।
प्रह्लादं वा बलिं वापि हन्याद्धि विजयो रणे ॥
तस्मात्तेन महाराज युद्धं नस्तात न क्षमम् ।
अहं तस्य प्रभावज्ञो नित्यं दुःखं वहामि च ॥
पुरा हि दण्डकारण्ये मारीचस्य यथा भयम् ।
भवेद्रामे महावीर्ये तथा पार्थे भयं मम ॥
धृतराष्ट्र उवाच ॥
जानाम्येव महद्वीयं जिष्णोरेतद्दुरासदम् ।
एतद्वीरस्य पार्थस्य कार्षीस्त्वं तु विप्रियम् ॥
द्यूतं वा शस्त्रयुद्धं वा दुवाक्यं वा कथञ्चन ।
एतेष्वेवं कृते तस्य विग्रहश्चैव वो भवेत् ॥
तस्मात्त्वं पुत्र पार्थेन नित्यं स्नेहेन वर्तय ।
यश्च पार्थेन सम्बन्धो वर्तते चेन्नरो भुवि ॥
तस्य नास्ति भयं किञ्चित्रिषु लोकेषु भारत ।
तस्मात्त्वं जिष्णुना वत्स नित्यं स्नेहेन वर्तय ॥
दुर्योधन उवाच ॥
द्यूते पार्थस्य कौरव्य मायया निकृतिः कृता ।
तस्माद्वि नो जयस्तात अन्योपायेन नो भवेत् ॥
धृतराष्ट्र उवाच ॥
उपायश्च न कर्तव्यः पाण्डवान्प्रति भारत ।
पार्थान्प्रति पुरा वत्स बहूपायाः कृतास्त्वया ॥
तानुपायान्हि कौन्तेया बहुशो व्यतिचक्रमुः ।
तस्माद्वितं जीविताय नः कुलस्य जनस्य च ॥
त्वं चिकीर्षसि चेद्वत्स समित्रः सहबान्धवः ।
सभ्रातृकस्त्वं पार्थेन नित्यं स्नेहेन वर्तय ॥
वैशम्पायन उवाच ॥
धृतराष्ट्रवचः श्रुत्वा राजा दुर्योधनस्तदा ।
चिन्तयित्वा मुहूर्तं तु विधिना चोदितोऽब्रवीत्' ॥
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः । एवमेतान्वशे कर्तुं शक्ष्यामः पुरुषर्षभ ॥ष
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः ।
प्रविशेम महारण्यमजिनैः प्रतिवासिताः ॥
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम् ।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् ।
अक्षानुप्त्वा पुनर्द्यूतमिदं कुर्वन्तु पाण्डवः ॥
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ ।
अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम् ॥
दृढमूलं वयं राज्ये मित्राणि परिगृह्य च ।
सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ॥
ते च त्रयोदशं वर्षं पारयिष्यन्ति चेद्व्रतम् ।
जेष्यामस्तान्वयं राजत्रोचतां ते परन्तप ॥
धृतराष्ट्र उवाच ॥
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि ।
आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवः ॥
वैशम्पायन उवाच ॥
ततो द्रोणः सोमदत्तो बाह्लीकश्चैव गौतमः ।
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ॥
भूरिश्रवाः शान्तनवो विकर्णश्च महारथः ।
मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ॥
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् ।
अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ॥
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् ।
पुत्रहार्दाद्धर्मयुक्ता गान्धारी शोककर्शिता ॥
जाते दुर्योधने क्षत्ता महामतिरभाषत ।
नीयतां परलोकाय साध्वयं कुलपांसनः ॥
व्यनदज्जातमात्रो हि गोमायुरिव भारत ।
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ॥
मा निमज्जीः स्वदोषेण महाप्सु त्वं हि भारत ।
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो ॥
मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि ।
बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् ॥
शमे स्थितान्को नु पार्थान्कोपयेद्भरतर्षभ ।
स्मरन्तं त्वामाजमीढं स्मारयिष्याम्यहं पुनः ॥
शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च ।
न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन ॥
त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः ।
तस्मादयं मद्वचनात्त्यज्यतां कुलपांसनः ॥
तथा ते न कृतं राजन्पुत्रस्नेहान्नराधिप ।
तस्य प्राप्तं फलं विद्धि कुलान्तकरणाय यत् ॥
शमेन धर्मेण नयेन युक्ता या ते बुद्धिः साऽस्तु ते मा प्रमादीः ।
प्रध्वंसिनी क्रूरसमाहिता श्री- र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् ।
अन्तः कामं कुलस्यास्तु न शक्नोमि निवारितुम् ॥
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः ।
पुनर्द्यूतं च कुर्वन्तु मामकाः पाण्डवैः सह ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥

2-97-90 अकामानां द्यूतमनिच्छतां सताम् ॥ 2-97-98 त्वन्नेत्रास्त्वमेव नेता येषां ते त्वन्नेत्राः । दीर्णास्त्वत्तो भिन्नर्म यादाः ॥