अध्यायः 099

वनाय प्रस्थितान्पाण्डवान्प्रति दुश्शासनकृतापहासः ॥ 1 ॥ पाण्डवानां बहुप्रतिज्ञाकरणपूर्वकं धृतराष्ट्रसमीपगमनम् ॥ 2 ॥

वैशम्पायन उवाच ॥

ततः पराजिताः पार्था वनावासाय दीक्षिताः ।
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान् ।
प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ॥
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः ।
पराजिताः पाण्डवेया विपत्तिं परमां गताः ॥
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः ।
गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद्वयं परैः ॥
नरकं पातिताः पार्था दीर्घकालमनन्तकम् ।
मुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ॥
धनेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः ।
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवः ॥
चित्रान्सन्नाहानवमुञ्चन्तु चैषां वासांसि दिव्यानि च भानुमन्ति ॥
विवास्यन्तां रुरुचर्माणि सर्वे यथा ग्लहं सौबलस्याभ्युपेताः ॥
न सन्ति लोकेषु पुमांस ईदृशा इत्येव ये भावितबुद्धयः सदा ।
ज्ञास्यन्ति तेत्मानमिमेऽद्य पाण्डवा विपर्यये पाण्ढतिला इवाफलाः ॥
इदं हि वासो यदि वेदृशानां मनस्विनां रौरवमाहवेषु ॥
आदीक्षितानामजिनानि यद्व- द्वलीयसां पश्यत पाण्डवानाम् ॥
महाप्राज्ञः सौमकिर्यज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय ।
अकार्षिद्वै सुकृतं नेह किञ्चित् क्लीबाः पार्थाः पतयो याज्ञसेन्याः ॥
सूक्ष्मप्रावारानजिनोत्तरीयान् दृष्ट्वाऽरण्ये निर्धनानप्रतिष्ठान् ।
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि पतिं वृणीष्वेह यमन्यमिच्छसि ॥
एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सुद्रविणोपपन्नाः ।
एषां वृणीष्वैकतमं पतित्वे न त्वां नयेत्कालविपर्ययोऽयम् ॥
यथाऽफलाः षण्ढतिला यथा चर्ममया मृगाः ।
तथैव पाण्डवाः सर्वे यथा काकयवा अपि ॥
किं पाण्डवांस्ते पतितानुपास्य मोघः श्रमः षण्ढतिलानुपास्य ।
एवं नृशंसः परुषाणि पार्था- नश्रावयद्धृतराष्ट्रस्य पुत्रः ॥
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भर्त्स्योच्चैः सन्निगृह्यैव रोषात् ।
उवाच चैनं सहसैवोपगम्य सिंहो यथा हैमवतः शृगालम् ॥
भीमसेन उवाच ॥
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे ।
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ॥
यथा तुदसि मर्माणि वाक्छरैरिह नो भृशम् ।
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ॥
ये च त्वामनुवर्तन्ते क्रोधलोभवशानुगाः ।
गोप्तारः सानुबन्धांस्तान्नेताऽस्मि यमसादनम् ॥
वैशम्पायन उवाच ॥
एवं ब्रुवाणमजिनैर्विवासितं दुःशासनस्तं परिनृत्यति स्म ।
मध्ये कुरूणां धर्मनिबद्धमार्गं गौर्गौरिति स्माह्वयन्मुक्तलज्जः ॥
भीमसेन उवाच ॥
नृशंस परुषं वक्तुं दुःशासन त्वया ।
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ॥
मैव स्म सुकृतां लोकान्गच्छेत्पार्थो वृकोदरः ।
यदि वक्षो हि ते भित्त्वा न पिबेच्छोणितं रणे ॥
धार्तराष्ट्रान्रणे हत्त्वा मिषतां सर्वधन्विनाम् ।
शमं गन्ताऽस्मि नचिरात्सत्यमेतद्ब्रवीमि ते ॥
वैशम्पायन उवाच ॥
तस्य राजा सिंहगतेः सखेलं दुर्योधनो भीमसेनस्य हर्षात् ।
गतिं स्वगत्याऽनुचकार मन्दो निर्गच्छतां पाण्डवानां सभायाः ॥
नैतावता कृतमित्यब्रवीत्तं वृकोदरः सन्निवृत्तार्धकायः ।
शीघ्रं हि त्वां निहतं सानुबन्धं संस्मार्याहं प्रतिवक्ष्यामि मूढ ॥
एवं समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान्स मानी ।
राजानुगः संसदि कौरवाणां विनिष्कामन्वाक्यमुवाच भीमः ॥
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः ।
शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः ।
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि ।
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः ।
दुःशासनस्य रुधिरं पाताऽस्मि मृगराडिव ॥
अर्जुन उवाच ॥
`भीमसेन न ते सन्ति येषां वैरं त्वया त्विह ।
मत्ता मृगेषु सुखिनो न बुद्ध्यन्ते महद्भयम्' ॥
नैवं वाचा व्यवसितं भीम विज्ञायते सताम् ।
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ॥
भीमसेन उवाच ॥
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥
अर्जुन उवाच ॥
असूयितारं द्रष्टारं प्रवक्तारं विकत्थनम् ।
भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ॥
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया ।
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः ॥
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः ।
तांश्च सर्वानहं बाणैर्नेताऽस्मि यमसादनम् ॥
चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः ।
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे ।
दुर्योधनोऽभिसत्कृत्य सत्यमेतद्भविष्यति ॥
वैशम्पायन उवाच ॥
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः ।
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् ।
क्रोधसंरक्तनयनो निः श्वसन्निव पन्नगः ॥
सहदेव उवाच ॥
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर ।
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ॥
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् ।
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ॥
हन्ताऽस्मि तरसा युद्धे त्वामेवहे सबान्धवम् ।
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते ।
दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः ।
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ॥
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालनोदितान् ।
गमयिष्यामि भूयिष्ठानहं वैवस्वतक्षयम् ॥
`उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम् ।
क्रूरं हन्ताऽस्मि समरे तं वै क्रूरं नराधमम्' ॥
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् ।
निर्धार्तराष्ट्रां पृथिवीं कर्ताऽस्मि नचिरादिव ॥
वैशम्पायन उवाच ॥
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः ।
प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥

2-99-13 काकयवा निस्तण्डुलं तृणधान्यम् ॥ 2-99-17 स्मरयिता स्मारयिष्यामि ॥