अध्यायः 101

पाण्डवानां वनप्रस्थानेन खिद्यतां पौराणां वचनानि ॥ 1 ॥

वैशम्पायन उवाच ॥

ततः सम्प्रस्थिते तत्र धर्मराजे तदा नृप ।
जनाः समन्ताद्द्रष्टुं तं समारुरुहुरातुराः ॥
ततः प्रासादवर्याणि विमानशिखराणि च ।
गोपुराणि च सर्वाणि वृक्षानन्यांश्च सर्वशः ॥
अथाधिरुह्य सस्त्रीका उदासीना व्यलोकयन् ।
न हि रथ्यास्तदा शक्या गन्तुं ताश्च जनाकुलाः ॥
आरुह्य स्मानतास्तत्र दीनाः पश्यन्ति पाण्डवान् ।
पदातिं वर्जितच्छत्रं चेलभूषणवर्जितम् ॥
वल्कलाजिनसंवीतं पार्थं दृष्ट्वा जनास्तदा ।
ऊचुर्बहुविधा वाचो भृशोपहतचेतसः ॥
जना ऊचुः ।
यं यान्तमनुयाति स्म चतुरङ्गबलं महत् ।
तमेकं कृष्णया सार्धमनुगच्छन्ति पाण्डवाः ॥
चत्वारो भ्रातरश्चैव धौम्यश्चैव पुरोहितः ।
भीमार्जुनौ वारयित्वा निकृत्या बद्धकार्मुकौ ॥
धर्म एवास्थितो येन त्यक्त्वा राज्यं महात्मना ।
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ॥
तामद्य कृष्णां पश्यन्ति राजमार्गगता जनाः ।
अङ्गरागोचितां कृष्णां रक्तचन्दनसेविनीम् ॥
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ।
अद्य नूनं पृथा देवी सत्यमाविश्य भाषते ॥
पुत्रान्स्नुषां च देवी तु द्रष्टुमद्याथ नार्हति ।
निर्गुणस्यापि पुत्रस्य कथं स्याहुः स्वदर्शनम् ॥
किम्पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ।
आनृशंस्यमनुक्रोशो धृतिः शीलं दमः शमः ॥
पाण्डवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् ।
तस्मादस्योपघातेन प्रजाः परमपीडिताः ॥
औदकानीव सत्वानि ग्रीष्मे सलिलसङ्क्षयात् ।
पीडया पीडितं सर्वं जगदस्य जगत्पतेः ॥
मूलस्यैवोपघातेन वृक्षः पुष्पफलोपगः ।
मूलं ह्येष मनुष्याणां धर्मराजो महाद्युतिः ॥
पुष्पं फलं च पत्रं च शाखास्तस्येतरे जनाः ।
ते भ्रातर इव क्षिप्रं सपुत्राः सहबान्धवाः ॥
गच्छन्तमनुगच्छामो येन गच्छति पाण्डवः ।
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ॥
एकदुःखसुखाः पार्थमनुयाम सुधार्मिकम् ।
समुच्छ्रितपताकानि परिध्वस्ताजिराणि च ॥
उपात्तधनधान्यानि हृतसाराणि सर्वशः ।
रजसाऽप्यवकीर्णानि परित्यक्तानि दैवतैः ॥
मूषकैः परिधावद्भिरुद्बलैरावृतानि च ।
अपेतोदकधूमानि हीनसंमार्जनानि च ॥
प्रनष्टबलिकर्मेज्यामन्त्रहोमजपानि च ।
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च ॥
अस्मत्त्यक्तानि वेश्मानि सौबलः प्रतिपद्यताम् ।
वनं नगरमेवास्तु येन गच्छन्ति पाण्डवाः ॥
अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् ।
बिलानि दंष्ट्रिणः सर्वे वानि मृगपक्षिणः ॥
त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि ।
अनाक्रान्तं प्रपद्यन्तः सेवमानं त्यजन्तु च ॥
तृणमांसफलादानां देशांस्त्यक्त्वा मृगद्विजाः ।
वयं पार्थैर्वने सम्यक्सह वत्स्याम निर्वृताः ॥
इत्येवं विविधा वाचो नानाजनसमीरिताः ।
शुश्राव पार्थः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥
ततः प्रासादसंस्थास्तु समन्ताद्वै गृहे गृहे ।
ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषितः ॥
गत्वा स्वगृहजालानि उत्पाट्यावरणानि च ।
ददृशुः पाण्डवान्दीनान्वल्कलाजिनवाससः ॥
कृष्णां त्वदृष्टपूर्वां तां व्रजन्तीं पद्भिरेव च ।
एकवस्त्रां रुदन्तीं तां मुक्तकेशीं रजस्वलाम् ॥
दृष्ट्वा तदा स्त्रियः सर्वा विवर्णवदना भृशम् । विलप्य बहुधा मोहाद्दुःखशोकेन पीडिताः ।
हाहा धिग्धिग्धिगित्युक्त्वा नेत्रैरश्रूण्यवर्तयन् ॥
जनस्याथ वजः श्रुत्वा स राजा भ्रातृभिः सह ।
उद्दिश्य वनावासाय प्रतस्थे कृतनिश्चयः ॥
वैशम्पायन उवाच ॥
तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् ।
अपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः ॥
ततो निनादः सुमहान्पाण्डवान्तः पुरेऽभवत् ॥
कुन्ती च भृशशन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् ।
शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् ॥
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् ।
स्त्रीधर्माणामभिज्ञाऽसि शीलाचारवती तथा ॥
न त्वां शन्देष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते ।
साध्वी गुणसमापन्ना भूषितं ते कुलद्वयम् ॥
सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयाऽनघे ।
अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता ॥
भाविन्यर्थे हि सत्स्त्रीणां वैकृतं नोपजायते ।
गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवप्स्यसि ॥
सहदेवश्च मे पुत्रः सदाऽवेक्ष्यो वने वसन् ।
यथेदं व्यसनं प्राप्य नायं सीदेन्महामतिः ॥
वैशम्पायन उवाच ॥
तथेन्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला ।
शोणिताक्तैकवसना मुक्तकेशी विनिर्ययौ ॥
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् ।
अथापश्यन्सुतान्सर्वान्हृताभरणवाससः ॥
रुरुचर्मावृततनून्ह्रिया किञ्चिदवाह्मुखान् ।
परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् ॥
तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला ।
स्वजमानाऽवदच्छेकात्तत्तद्विलपती बहु ॥
कुन्त्युवाच ।
कथं सद्धर्मचारित्रान्वृत्तस्थितिविभूषितान् ।
अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा ॥
व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः ।
कस्यापध्यानजं चेदमागः पश्यामि वो धिया ॥
स्यात्तु मद्भाग्यदोषोऽयं याऽहं युष्मानजीजनम् ।
दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः ॥
कथं वत्स्यथ दुर्गेषु वने ऋद्धिविनाकृताः ।
वीर्यसत्वबलोत्साहतेजोभिरकृशाः कृशाः ॥
यद्येवमहमज्ञास्यं वने वासं हि वो ध्रुवम् ।
शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ॥
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा ।
यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम् ॥
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् ।
मन्ये तु माद्रीं धर्मज्ञां कल्याणीं सर्वथैव तु ॥
रत्या मत्या च गत्या च ययाऽहमभिसन्धिता ।
जीवितप्रियतां मह्यं धिङ्मां सङ्क्लेशभागिनीम् ॥
पुत्रका न विहास्ये वः कृच्छ्रलब्धान्प्रियान्सतः । साऽहं यास्यामि हि वनं हा कृष्णे किं जहासि माम् ।
अन्तवत्यसुधर्मेऽस्मिन्धात्रा किं नु प्रमादतः ।
ममान्तो नैव विहितस्तेनायुर्न जहाति माम् ॥
हा कृष्ण द्वारकावासिन्क्वासि सङ्कर्षणानुज ।
कस्मान्न त्रायसे दुःखान्मां चेमांश्च नरोत्तमान् ॥
अनादिनिधनं ये त्वामनुध्यायन्ति वै नराः ।
तांस्त्वं पासीत्ययं वादः स गतो व्यर्थतां कथम् ॥
इमे सद्धर्ममाहात्म्ययशोवीर्यानुवर्तिनः ।
नार्हन्ति व्यसनं भोक्तुं नन्वेषां क्रियतां दया ॥
सेयं नीत्यर्थविज्ञेषु कथमापदुपागता ॥
स्थितेषु कुलनाथेषु कथमापदुपागता ॥
हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे ।
पुत्रान्विवास्यतः साधूनरिभिर्द्यूतनिर्जितान् ॥
सहदेव निवर्तस्व ननु त्वमसि मे प्रियः ।
शरीरादपि माद्रेय मां मा त्याक्षीः कुपुत्रवत् ॥
व्रजन्तु ब्रातरस्तेऽमी यदि सत्याभिसन्धिनः ।
मत्परित्राणजं धर्ममिहैव त्वमवाप्नुहि ॥
वैशम्पायन उवाच ॥
एवं विपलतीं कुन्तीमभिवाद्य प्रणम्य च ।
पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः ॥
विदुरश्चापि तामार्तां कुन्तीमाश्वास्य हेतुभिः ।
प्रावेशयद्गृहं क्षत्ता स्वयमार्ततरः शनैः ॥
धार्तराष्ट्रस्त्रिस्ताश्च निखिलेनोपलभ्य तत् ।
गमनं परिकर्षं च कृष्णाया द्यूतमण्डले ॥
रुरुदुः सुस्वनं सर्वा विनिन्दन्त्यः कुरून्भृशम् ।
दध्युश्च सुचिरं कालं करासक्तमुखाम्बुजाः ॥
राजा च धृतराष्ट्रस्तु पुत्राणामनयं तदा ।
ध्यायन्नुद्विग्नहृदयो न शान्तिमधिजग्मिवान् ॥
स चिन्तयन्ननेकाग्रः शोकव्याकुलचेतनः ।
क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति ॥
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् ।
तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो जनाधिपः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि एकोत्तरशततमोऽध्यायः ॥ 101 ॥

2-101-40 शोणिताक्तैकवसना रजस्वला ॥ 2-101-51 मह्यं मम ॥ 2-101-53 असुधर्मे प्राणधारणे । अन्तवति विनाशवति ॥