अध्यायः 102

धृतराष्ट्रेण विदुरम्प्रति पाण्डवानां वनप्रस्थानसमये चेष्टविशेषप्रश्ने तत ्तच्चेष्टाविशेषकथनपूर्वकं तत्तदभिप्रायाविष्करणम् ॥ 1 ॥ द्रोणेन दुर्योधनाय हितोपदेशः ॥ 2 ॥

वैशम्पायन उवाच ॥

तमागतमथो राजा विदुरं दीर्घदर्शिनम् ।
साशङ्क इव प्रपच्छ धृतराष्टोऽम्बिकासुतः ॥
कथं गच्छति कौन्तेयो धर्मपुत्रो युधिष्ठिरः ।
भीमसेनः सव्यसाची माद्रीपुत्री च पाण्डवौ ॥
धौम्यश्चैव कथं क्षत्तर्द्रौपदी च यशस्विनी ।
श्रोतुमिच्छाम्यहं सर्वं तेषां शंस विचेष्टितम् ॥
विदुर उवाच ॥
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः ।
बाहू विशालौ सम्पश्यन्भीमो गच्छति पाण्डवः ॥
सिकता वपन्सव्यसाची राजानमनुगच्छति ।
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ॥
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः ।
दर्शनीयतमो लोके राजानमनुगच्छति ॥
कृष्णा तु केशैः प्रच्छाद्य मुखमायतलोचना ।
दर्शनीया प्ररुदती राजानमनुगच्छति ॥
धौम्यो रौद्राणि सामानि याम्यानि च विशाम्पते ।
गायन्गच्छति मार्गेषु कुशानादाय पाणिना ॥
धृतराष्ट्र उवाच ॥
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः ।
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ॥
विदुर उवाच ॥
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च ।
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ॥
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत ।
निकृत्या भ्रंशितः क्रोधान्नोन्मीलयति लोचने ॥
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा ।
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ॥
यथा च भीमो व्रजति निगदतः शृणु ।
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ॥
बाहू विशालौ कृत्वाऽसौ तेन भीमोपि गच्छति ।
बाहू विदर्शयन्राजन्बाहुद्रविणदर्पितः ॥
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः ।
प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा ॥
सिकता वपन्सव्यसाची राजानमनुगच्छति । असक्ताः सिकतास्तस्य यथा सम्प्रति भारत ।
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ॥
न मे कश्चिद्विजानीयान्मुखमद्येति भारत ।
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ॥
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो ।
पांसूपलिप्तसर्वाङ्गो नकुलस्तेन गच्छति ॥
एकवस्त्रा प्ररुदती मुक्तकेशी रजस्वला ।
शोणितेनाक्तवसना द्रौपदी वाक्यमब्रवीत् ॥
यत्कृतेऽहमिदं प्राप्ता तेषां वर्षे चतुर्दशे ।
हतपत्यो हतसुता हतबन्धुजनप्रियाः ॥
बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः ।
एवं कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम् ॥
कृत्वा तु नैर्ऋतान्दर्भान्धीरो धौम्यः पुरोहितः ।
सामानि गायन्याम्यानि पुरतो याति भारत ॥
हतेषु भरतेष्वाजौ कुरूणां गुरवस्तदा । एवं सामानि -- न्तीत्युक्त्वा धौम्योपि गच्छति ।
`प्रस्थाप्य पाण्डवाञ्शेषान्निः शेषस्ते भविष्यति ।
इति धौम्यो व्यवसितो रौद्रसामानि गायति ॥
धृतराष्ट्र उवाच ॥
किमब्रुवन्नैकृतिकः किं वा नागरिका जनाः ।
तथ्येन मे समाचक्ष्व क्षत्तः सर्वमशेषतः ॥
विदुर उवाच ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा येऽन्ये वदन्त्यथ ।
तच्छृणुष्व महाराज वक्ष्यते च मया तव ॥
प्रकृतय ऊचुः ।
हाहा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् ।
अहो धिक्कुरुवृद्धानां बालानामिव चेष्टितम् ॥
राष्ट्रेभ्यः पाण्डुदायादाँल्लोभान्निर्वासयन्ति ये ।
अनाथाः स्म वयं सर्वे वियुक्ताः पाण्डुनन्दनैः ॥
दुर्विनीतेषु लुब्धेषु का प्रीतिः कौरवेषु नः ।
इति पौराः सुदुः खार्ताः क्रोशन्ति स्म पुनः पुनः ॥
एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् ।
कथयन्तश्च कौन्तेया वनं जग्मुर्मनस्विनः ॥
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् ।
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ॥
राहुरग्रसदादित्यमपर्वणि विशाम्पते ।
उल्का चाप्यपसव्येन पुरं कृत्वा व्यशीर्यत ॥
प्रत्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः ।
देवायतनचैत्येषु प्राकाराट्टालकेषु च ॥
एवमेते महोत्पाताः प्रादुरासन्दुरासदाः ।
भरतानामभावाय राजन्दुर्मन्त्रिते तव ॥
वैशम्पायन उवाच ॥
एवं प्रवदतोरेव तयोस्तत्र विशाम्पते ।
धृतराष्ट्रस्य राज्ञश्च विदुरस्य च धीमतः ॥
नारदश्च सभामध्ये कुरूणामग्रतः स्थितः ।
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ॥
इतश्चतुर्दशे वर्षे विङ्क्ष्यन्तीह कौरवाः ।
दुर्योधनापराधेन भीमार्जुनबलेन च ॥
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत ।
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ॥
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ॥
अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् ।
दुःशासनं च कर्णं च सर्वानेव च भारतान् ॥
अवध्यान्पाण्डवान्प्राहुर्देवपुत्रान्द्विजातयः ।
अहं चै शरणं प्राप्तान्वर्तमानो यथाबलम् ॥
गन्ता सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् ।
नोत्सहेयं परित्यक्तुं दैवं हि बलवत्तरम् ॥
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः ।
ते च द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवः ॥
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः ।
वैरं निर्यातयिष्यन्ति महद्दुःखाय पाण्डवाः ॥
मया च भ्रंशितो राजन्द्रुपदः सखिविग्रहे ।
पुत्रार्थमयजद्राजा वधाय मम भारत ॥
याजोपयाजतपसा पुत्रं लेभे स पावकात् ।
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ॥
धृष्टद्युम्नस्तु पार्थानां स्यालः सम्बन्धतो मतः ।
पाण्डवानां प्रियरतस्तस्मान्मां भयमाविशत् ॥
ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी ।
मर्त्यधर्मतया तस्मादद्य मे साध्वसो महान् ॥
गतो हि पक्षतां तेषां पार्षतः परवीरहा ।
रथातिरथसङ्ख्यायां योऽग्रणीरर्जुनो युवा ॥
सृष्टप्राणो भृशतरं तेन चेत्सङ्गमो मम ।
किमन्यद्दुःखमधिकं परमं भुवि कौरवाः ॥
धृष्टद्युम्नो द्रोणमृत्युरिति विप्रथितं वचः ।
मद्वधायाश्रितोऽप्येष लोके चाप्यतिविश्रुतः ॥
सोऽयं नूनमनुप्राप्तस्त्वत्कृते कालपर्ययः ।
त्वरितं कुरुत श्रेयो नैतदेतावता कृतम् ॥
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी ।
जयध्वं च महायज्ञैर्भोगानश्नीत दत्त च ॥
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् ।
दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि ॥
शमं वा पाण्डुपुत्रेण प्रयुङ्क्ष्व यदि मन्यसे ।
वैशम्पायन उवाच ॥
द्रोणस्य --चनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् ॥
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् । यदि ते न निवर्तन्ते सत्कृता यान्तु पाण्डवाः ।
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अनुद्यतपर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥

2-102-16 असक्ताः परस्परमलग्नाः ॥ 2-102-39 द्वीपमाश्रयम् ॥ 2-102-48 देवदत्तो देवैर्दत्तः ॥ 2-102-50 सङ्गमः सङ्ग्रामे इति शेषः ॥ 2-102-53 हैमनी हेमन्तसम्बन्धिनी ॥ 2-102-54 वैशसं नाशम् ॥