अध्यायः 103

धृतराष्ट्रसञ्जययोः संवादः ॥ 1 ॥

वैशम्पायन उवाच ॥

वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे ।
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् ॥
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् ।
निः श्वसन्तमनेकाग्रमिति होवाच सञ्जयः ॥
अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप ।
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि ॥
धृतराष्ट्र उवाच ॥
अशोच्यत्वं कुतस्तेषां येषां वैरं भविष्यति ।
पाण्डवैर्युद्धशौण्डैर्हि बलवद्भिर्महारथैः ॥
सञ्जय उवाच ॥
तवेदं सुकृतं राजन्महद्वैरमुपस्थितम् ।
विनाशो येन लोकस्य सानुबन्धो भविष्यति ॥
वार्यमाणो हि भीष्मेण द्रोणेन विदुरेण च । पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् ।
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव ।
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् ॥
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति ॥
बुद्धौ कलुषभूतायां विनाशे समुपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः ।
उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते ॥
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् ।
कालस्य बलमेतार्वाद्वपरीतार्थदर्शनम् ॥
आसादितमिदं घोरं तुमुलं रोमहर्षणम् ।
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् ॥
अयोनिजां रूपवतीं कुले जातां विभावसोः ।
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् ॥
पर्यानयेत्सभामध्ये विना दुर्द्यूतदेविनम् ।
स्त्रीधर्मिणी वरारोहा शोणितेन परिप्लुता ॥
एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवैक्षत ।
हृतस्वान्हृतराज्यांश्च हृतवस्त्रान्हृतश्रियः ॥
विहीनान्सर्वकामेभ्यो दासभावमुपागतान् ।
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे ॥
क्रुद्धां चानर्हतीं कृष्णां दुःखितां कुरुसंसदि ।
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ॥
इति सर्वमिदं राजन्नाकुलं प्रतिभाति मे ।
धृतराष्ट्र उवाच ॥
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी ॥
अपि शेषं भवेदद्य पुत्राणां मम सञ्जय ।
भरतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः ॥
प्राकोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् ।
धर्मिष्टां धर्मपत्नीं च रूपयौवनशालिनीम् ॥
प्रजाभिःसह सङ्गम्य ह्यनुशोचन्ति नित्यशः ।
अग्निहोत्राणि सायाह्ने च चाहूयन्त सर्वशः ॥
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे ।
आसीन्निष्ठानको घोरो निर्घातश्च महानभूत् ॥
दिव उल्काश्चापतन्त राहुश्चार्कमुपाग्रसत् ।
अपर्वणि महाघोरं प्रजानां जयन्भयम् ॥
तथैव रथशालासु प्रादुरासीद्धुताशनः ।
ध्वजाश्चापि व्यशीर्यन्त भरतानामभूतये ॥
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः ।
तास्तदा प्रत्यभाषन्त रासभाः सर्वतो दिशः ॥
प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय ।
कृपश्च सोमदत्तश्च बाह्लीकश्च महामनाः ॥
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः ।
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति ॥
अवृणोत्तत्र पाञ्चाली पाण्डवाना --सताम् ।
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् ॥
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् ।
एतदन्तास्तु भरता यद्व-कृष्णा सभां गता ॥
यैषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा ।
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति ॥
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्ते ह्यमर्षणाः ।
वृष्णयो वा महेष्वासाः पाञ्चाला वा महारथाः ॥
तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः ।
आगमिष्यति बीभत्सुः पञ्चालैः परिवारितः ॥
तेषां मध्ये महेष्वासो भीमसेनो महाबलः ।
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः ॥
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः ।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥
तत्र मे रोचते नित्यं पार्थैः साम न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवान्बलवत्तरान् ॥
तथा हि बलवान्राजा जरासन्धो महाद्युतिः । बाहुप्रहरणेनैव भीमेन निहतो युधि ।
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ ।
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया ॥
एवं कृते महाराज परं श्रेयस्त्वमाप्स्यसि ।
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः ॥
उक्तवान्न गृहीतं वै मया पुत्रहितैषिणा ॥ ॥

इति श्रीमन्महाभारते शतसाहस्रयां संहितायां वैयासिक्यां सभापर्वणि अनुद्यूतपर्वणि व्यधिकशततमोऽध्यायः ॥ 103 ॥ ॥ समाप्तमनुद्यूतपर्व सभापर्व च ॥ इतः परं वनपर्व भविष्यति तस्यायमाद्यः श्लोकः । जनमेजय उवाच ॥ एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥ 1 ॥

2-103-22 निष्ठानकः चण्डवात इत्यर्थः । निर्घातो वज्रशब्दः ॥