अध्यायः 003
सभानिर्माणसामग्र्यानयनाय बिन्दुसरः प्रति मयस्य गमनम् ॥ 1 ॥ गदाशङ्खाभ्यां सह सामग्रीं गृहीत्वा मयस्य खाण्डवप्रस्थागमनम् ॥ 2 ॥ भीमार्जुनयोः गदाशङ्खदानं सभानिर्माणं च ॥ 3 ॥
वैशम्पायन उवाच ।
अथाब्रवीन्मयः पार्थमर्युनं जयतां वरम् ।
आपृच्छे त्वां गमिष्यामि पुनरेष्यामि चाप्यहम् ॥
`विश्रुतां त्रिषु लोकेषु पार्थ दिव्यां सभां तव ।
प्राणिनां विस्मयकरीं तव प्रियविवर्धिनीम् ।
पाण्डवानां च सर्वेषां करिष्यामि धनञ्जय' ॥
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति ।
यियक्षमाणेषु पुरा दानवेषु मया कृतम् ॥
चित्रं मणिमयं भाण्डं रम्यं बिन्दुसारः प्रति ।
सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः ॥
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ।
ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम् ॥
मनः प्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् ।
अस्ति बिन्दुसारस्युग्रा गदा च कुरुनन्दन ॥
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् ।
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ॥
सा वै शतसहस्रस्य सम्मिता शत्रुघातिनी ।
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ॥
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् ।
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः ॥
वैशम्पायन उवाच ।
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीं दिशं गतः ।
अथोत्तरेण कैलासान्मैनाकं पर्वतं प्रति ॥
हिरण्यशृङ्गः सुमहान्महामणिमयो गिरिः ।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥
द्रुष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः ।
यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना ॥
आहृताः क्रतवो मुख्याः शतं भरतसत्तम ।
यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः ॥
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः ।
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः ॥
यत्र भूतपतिः सृष्ट्वा सर्वाँल्लोकान्सनातनः ।
अपस्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः ॥
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः ।
उपासते यत्र परं सहस्रयुगपर्यये ॥
यत्रेष्टं वासुदेवेन सत्त्रैर्वर्षगणान्बहून् ।
श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये ॥
सुवर्णमालिनो यूपाश्चैत्याश्चाप्यतिभास्वराः ।
ददौ यत्र सहस्राणि प्रयुतानि च केशवः ॥
तत्र गत्वा स जग्राह गदां शङ्खं च भारत ।
`तस्माद्गिरेरुपादाय शिलाः सुरुचिरावहाः' ।
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः ॥
किङ्करैः सह रक्षोभिर्यदरक्षन्महद्धनम् ।
तदगृह्णान्मयस्तत्र गत्वा सर्वं महाऽसुरः ॥
तदाहृत्य च तां चक्रे सोऽसुरोऽप्रतिमां सभाम् ।
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ॥
गदां च भीमसेनाय प्रवरां प्रददौ तदा ।
देवदत्तं चार्जुनाय शङ्खप्रवरमुत्तमम् ॥
यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे ।
`स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य च ॥
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् ।
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः ॥
सर्वर्तुगुणसम्पन्नां दिव्यरूपामलङ्कृताम् ।
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः ।
सभा च सा महाराज शातकुम्भमयद्रुमा ॥
दशकिष्कुसहस्राणि समन्तादायताभवत् ।
यथा वह्नेर्यथार्कस्य सोमस्य च यथा सभा ॥
भ्राजमाना तथाऽत्यर्थं दधार परमं वपुः ।
अभिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् ॥
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ।
नवमेघप्रतीकाशा दिवमाकृत्य विष्ठिता ।
आयता विपुला रम्या विपाप्मा विगतक्लमा ॥
उत्तमद्रव्यसम्पन्ना रत्नप्राकारतोरणा ।
बहुचित्रा बहुधना सुकृता विश्वकर्मणा ॥
न दाशार्ही सुधर्मा वा ब्रह्मणो वाथ तादृशी ।
सभा रूपेण सम्पन्ना यां चक्रे मतिमान्मयः ॥
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च ।
सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः ॥
अन्तरिक्षचरा घोरा महाकाया महाबलाः ।
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ॥
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः ।
वैदूर्यपत्रविततां मणिनालमयाम्बुजाम् ॥
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् ।
पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च काञ्चनैः ।
चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम् ॥
मन्दानिलसमुद्धूतां मुक्ताबिन्दुभिराचिताम् ।
महामणिशिलापट्टबद्धपर्यन्तवेदिकाम् ॥
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः ।
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः ।
आसन्नानाविधा लोलाः शीतच्छाया मनोरमाः ॥
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः ।
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः ॥
जलजानां च पद्मानां स्थलजानां च सर्वशः ।
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ॥
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः ।
निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत् ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि तृतीयोऽध्यायः ॥ 3 ॥