अध्यायः 005

तत्रागतेन युधिष्ठिरपूजितेन नारदेन कुशलप्रश्नव्याजेन राजनीतिकथनम् ॥ 1 ॥

वैशम्पायन उवाच ।

अथ तत्रोपविष्टेषु पाण्डवेषु महात्मसु ।
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ॥
वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः ।
इतिहासपुराणज्ञः क्रियाकल्पविशेषवित् ॥
`स्तुतस्तोमग्रहस्तोभपदक्रमविभागवित् ।
शिक्षाक्षरविभागज्ञः पुराकल्पविशेषवित् ॥
आदिकल्पार्थवेत्ता च कल्पसूत्रार्थतत्त्ववित् ।
ब्रह्मचर्यव्रतपर ऊहापोहविशारदः ॥
नृत्तगान्धर्वसेवी च सर्वत्राप्रतिमस्तथा ।
अष्टादशानां विद्यानां कोशभूतो महाद्युतिः' ॥
न्यायविद्धर्मतत्त्वज्ञः षडङ्गविदनुत्तमः ।
ऐक्यसंयोगनानात्वसमवायविशारदः ॥
वक्ता प्रगल्भो मेधावी स्मृतिमान्नयवित्कविः ।
परापरविभागज्ञः प्रमाणकृतनिश्चयः ॥
पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ।
उत्तरोत्तरवक्ता च वदतोपि बृहस्पतेः ॥
धर्मकामार्थमोक्षेषु यथावत्कृतनिश्चयः ।
तथा भुवनकोशस्य सर्वस्यास्य महामतिः ॥
प्रत्यक्षदर्शी लोकस्य तिर्यगूर्ध्वमधस्तथा ।
साङ्ख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान् ॥
सन्धिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित् ।
षाङ्गुण्यविधियुक्तश्च सर्वशास्त्रविशारदः ॥
युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस्तथा ।
एतैश्चान्यैश्च बहुभिर्युक्तो गुणगणैर्मुनिः ॥
लोकाननुचरन्सर्वानागमत्तां सभां नृप ।
नारदः सुमहातेजा ऋषिभिः सहितस्तदा ॥
पारिजातेन राजेन्द्र पर्वतेन च धीमता ।
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ॥
सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः ।
जयाशीर्भिस्तु तं विप्रो धर्मराजानमार्चयत् ॥
तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् ।
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह ॥
अभ्यवादयत प्रीत्या विनयावनतस्तदा ।
तदर्हमासनं तस्मै सम्प्रदाय यथाविधि ॥
गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च ।
अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् ॥
तुतोष च यथावच्च पूजां प्राप्य युधिष्ठिरात् । सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः ।
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ॥
नारद उवाच ।
कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः ।
सुखानि चानुभूयन्ते मनश्च न विहन्यते ॥
कच्चिदाचरितां पूर्वैर्नरदेवपितामहैः ।
वर्तसे वृत्तिमक्षुद्रां धर्मार्थसहितां त्रिषु ॥
कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा ।
उभौ वा प्रीतिसारेण न कामेन प्रबाधसे ॥
कच्चिदर्थं च धर्मं च कामं च जयतां वर ।
विभज्य काले कालज्ञः सदा वरद सेवसे ॥
कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथाऽनघ ।
बलाबलं तथा सम्यक्वतुर्दश परीक्षसे ॥
कच्चिदात्सानमर्न्वाक्ष्य परांश्च जयतां वर ।
तथा सन्धाय कर्माणि अष्टौ भारत सेवसे ॥
कच्चित्प्रकृतयः सप्त न लुप्ता भरतर्षभ ।
आढ्यास्तथा व्यसनिनः स्वनुरक्ताश्च सर्वशः ॥
कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरिशङ्किताः ।
त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रितं तथा ॥
मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितम् ।
कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे ॥
कच्चिद्वृत्तिमुदासीने मध्यमे चानुमन्यसे ।
कच्चिदात्मसमा वृद्धाः शुद्धाः सम्बोधनक्षमाः ॥
कुलीनाश्चानुरक्ताश्च कृतास्ते वीरमन्त्रिणः ।
विजयो मन्त्रमूलो हि राज्ञो भवति भारत ॥
कच्चित्संवृतमन्त्रैस्ते अमात्यैः शास्त्रकोविदैः ।
राष्ट्रं सुरक्षितं तात शत्रुभिर्न विलुप्यते ॥
कच्चिन्निद्रावशं नैषि कच्चित्काले विबुद्ध्यसे ।
कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् ॥
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।
कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावति ॥
कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् ।
क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् ॥
कच्चिन्न स्रवे कर्मान्ताः परोक्षास्ते विशङ्किताः ।
सर्वे वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम् ॥
आप्तैरलुब्धैः क्रमिकैस्ते च कच्चिदनुष्ठिताः ।
कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः ॥
विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् । कच्चित्कारणिका धर्मे सर्वशास्त्रेषु कोविदाः ।
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ॥
कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् ।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्नः श्रेयसं परम् ॥
कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः ।
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥
एकोप्यमात्यो मेधावी शूरो दान्तो विचक्षणः ।
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥
कच्चिद्द्विषामविदितः प्रतिपन्नश्च सरवदा ।
नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ॥
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः ।
अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः ॥
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।
हुतं च होष्यमाणं च काले वेदयते सदा ॥
कच्चिदङ्गेषु निष्णातो ज्योतिपः प्रतिपादकः ।
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ॥
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ।
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् ।
श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥
कच्चिन्नोग्रेण दण्डेन भृशमुद्विजसे प्रजाः ।
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ॥
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः । कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तथा ।
कच्चिद्बलस्य ते मुख्याः सर्वयुद्धविशारदाः ।
धृष्टावदाता विक्रान्तास्त्वया सत्कृत्य मानिताः ॥
कच्चिद्वलस्य भक्तं च वेतनं च यथोचितम् ।
सम्प्राप्तकाले दातव्यं ददासि न विकर्षसि ॥
कालातिक्रमणादेते भक्तवेतनयोर्भृताः ।
भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ॥
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ।
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि ॥
कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान् ।
अनुशास्ति यथाकामं कामात्मा शासनातिगः ॥
कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् ।
लभते मानमधिकं भूयो वा भक्तवेतनम् ॥
कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् ।
यथार्हं गुणतश्चैव दानेनाभ्युपपद्यसे ॥
कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमीयुषाम् ।
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ॥
कच्चिद्भयादुपगतं क्षीणं वा रिपुमागतम् ।
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि ॥
कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते ।
समश्चानभिशङ्क्यश्च यथा माता यथा पिता ॥
कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ ।
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् ॥
यात्रामारभसे दिष्ट्या प्राप्तकालमरिन्दम ।
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् ॥
बलस्य च महाराज दत्त्वा वेतनमग्रतः । कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप ।
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ॥
कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः ।
पारञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् ॥
कच्चित्ते यास्यतः शत्रून्पर्वं यान्ति स्वनुष्ठिताः ।
साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ॥
तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ॥ कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः ।
बलमुख्यैः सुनीता ते द्विषतां प्रतिवर्धिनी ॥ कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप ।
अविहाय महाराज निहंसि समरे रिपून् ॥ कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव ।
अर्थान्समधितिष्ठन्ति रक्षन्ति च परस्परम् ॥
कच्चिदभ्यवहार्याणि गात्रसंस्पर्शनानि च । घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव ।
कच्चित्कोशश्च कोष्ठं च वाहनं द्वारमायुधम् ॥
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ॥
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते ॥ रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् ।
कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च ।
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ॥
कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः ।
पादभागैस्त्रिभिर्वापि व्ययः संशुद्ध्यते तव ॥
कच्चिज्ज्ञातीन्गुरून्वृद्धा- न्वणिजः शिल्पिनः श्रितान् ।
अभीक्ष्णमनुगृहाणिसि धनधान्येन दुर्गतान् ॥
कच्चिच्चायव्यये युक्ताः सर्वे गणकलेखकाः ।
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायं व्ययं तव ॥
कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान् ।
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् ॥
कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् ।
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत ॥
कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते ।
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ॥
कच्चिन्न चौरैर्लुब्धैर्वा कुमारैः स्त्रीबलेन वा । त्वया वा पीड्यते राष्ट्रं कच्चित्तुष्टाः कृषीवलाः
कच्चिद्राष्ट्रे तटाकानि पूर्णानि च बृहन्ति च ।
भागशो विनिविष्टानि न कृषिर्देवमातृका ॥
कच्चिन्नं भक्तं बीजं च कर्षकस्यावसीदति ।
प्रत्येकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् ॥
कच्चित्स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः ।
वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते ॥
कच्चिच्छूराः कृतप्रज्ञाः पञ्चपञ्च स्वनुष्ठिताः ।
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव ॥
कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः ।
ग्रामवच्च कृताः प्रान्तास्ते च सर्वे त्वदर्पणाः ॥
कच्चिद्बलेनानुगताः समानि विषमाणि च ।
पुराणि चौरान्निघ्नन्तश्चरन्ति विषये तव ॥
कच्चित्स्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥
कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य च ।
प्रियाण्यनुभवञ्शेषे न त्वमन्तः पुरे नृप ॥
कच्चिद्द्वौ प्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते ।
सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ॥
कच्चिद्दर्शयसे नित्यं मनुष्यान्समलङ्कृतः ।
उत्थाय काले कालज्ञैः सह पाण्डव मन्त्रिभिः ॥
कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः ।
उपासते त्वामभितो रक्षणार्थमरिन्दम ॥
कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशाम्पते ।
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च ॥
कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा ।
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ॥
कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः ।
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ॥
कच्चिन्न लोभान्मोहाद्वा मानाद्वापि विशाम्पते ।
अर्थिप्रत्यर्थिनः प्राप्तान्नापास्यसि कथञ्चन ॥
कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा ।
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणात्सि वै ॥
कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः ।
त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन ॥
कच्चिन्न दुर्बलः शत्रुर्बलेन परिपीडितः ।
मन्त्रेण बलवान्कश्चिदुभाभ्यां च कथञ्चन ॥
कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः ।
कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः ॥
कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते । ब्राह्मणानां च साधूनां तव नैः श्रेयसी शुभा ।
दक्षिणास्त्वं ददास्येषां नित्यं स्वर्गापवर्गदाः ॥
कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः ।
यतमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे ॥
कच्चित्तव गृहेऽन्नानि स्वादून्यश्रन्ति वै द्विजाः ।
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ॥
कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः ।
पौण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ॥
कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि ।
चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि ॥
कच्चिच्छोको न मन्युर्वा त्वया प्रोत्पाद्यतेऽनघ ।
अपि मङ्गलहस्तश्च जनः पार्श्वे न तिष्ठति ॥
कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ ।
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ॥
एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति ।
विजित्य च महीं राजा सोत्यन्तं सुखमेधते ॥
कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि ।
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचि ॥
दुष्टो गृहीतस्तत्कारितज्ज्ञैर्दृष्टः सकारणः ।
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ॥
उत्पन्नानकच्चिदाढ्यस्य दरिद्रस्य च भारत ।
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ॥
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ।
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् ॥
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ।
मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः ॥
कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ।
प्रायशोयैर्विनश्यन्ति कृतमूलापि पार्थिवः ॥
कच्चित्ते सफला वेदाः कच्चित्ते सफळं धनम् ।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥
युधिष्ठिर उवाच ।
कथं वै सफला वेदाः कथं वै सफलं धनम् ।
कथं वै सफला दाराः कथं वै सफलं श्रुतम् ॥
नारद उवाच ।
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् ।
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥
वैशम्पायन उवाच ।
एतदाख्याय स मुनिर्नारदो वै महातपाः ।
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् ॥
नारद उवाच ।
कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् ।
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः ॥
कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः ।
उपानयन्ति पण्यानि उपाधाभिरवञ्चिताः ॥
कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः ।
नित्यमर्थविदां तात यथाधर्मार्थदर्शिनाम् ॥
कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च ।
धर्मार्थं च द्विजातिभ्यो दीयेते मधुसर्पिषी ॥
द्रव्योपकरणं किञ्चित्सर्वदा सर्वशिल्पिनाम् ।
चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि ॥
कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि ।
सतां मध्ये महाराज सत्करोषि च पूजयन् ॥
कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ ।
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो ॥
कच्चिदभ्यस्यते सम्यग्गृहे ते भरतर्षभ ।
धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रं च नागरम् ॥
कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ ।
विषयोगास्तथा सर्वे विदिताः शत्रुनाशनाः ॥
कच्चिदग्निभयाच्चैव सर्वं व्यालभयात्तथा ।
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षशि ॥
कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान् ।
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि ॥
षडवर्था महाराज कच्चित्ते पृष्ठतः कृताः ।
निद्राऽऽलस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता ॥
वैशम्पायन उवाच ।
ततः कुरूणामृषभो महात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्य ।
प्रणम्य पादावभिवाद्य तुष्टो राजाऽब्रवीन्नारदं देवरूपम् ॥
एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा ।
उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलां च ॥
नारद उवाच ।
एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे ।
स विहृत्येह सुसुखी शुक्रस्यैति सलोकताम् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

2-5-24 षड्गुणाः सन्धिविग्रहादयः । सप्तोपायाः मन्त्रौषधेन्द्रजालसहिताः सामादयः । स ्वपरपक्षबलावलसहिता एतएव चतुर्दश ॥ 2-5-25 अष्टौ कर्माणि- कृषिर्वणिक्पतो दुर्ग सेतुः कुञ्जरबन्धनम् । खन्याकरकरादानं शून्यानां च निवेशनमित्युक्तानि ॥ 2-5-26 सप्तप्रकृतयः स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलाख्याः ॥ 2-5-27 कच्चिन्न तर्कैर्दूतैर्वा इति ख-पाठः ॥ 2-5-28 शुचयो जीवितक्षमाः इति ख-पाठः ॥ 2-5-35 कर्मान्ताः कृष्यादयः ॥ 2-5-37 कारणिकाः युद्धोपकरणयुक्ताः ॥ 2-5-41 मन्त्री पुरोहितश्चैव युवराजश्चमूपतिः । पञ्चमो द्वारपालश्च षष्ठोऽन्तर्वेश िकस्तथा 1, कारागाराधिकारी च द्रव्यसञ्चयकृत्तथा । कृत्याकृत्येषु चार्थानां नवमो विनियोजकः 2, प्रेदेष्टा नगराध्यक्षः कार्यानिर्माणकृत्तथा । धर्माध्य क्षः सभाध्यक्षो दण्डपालस्त्रिपञ्चमः 3, षोडशो दुर्गपालश्च तथा राष्ट्रान्त पालकः अटवीपालकान्तानि तीर्थान्यष्टादशैव तु 4, चारान्विचारयेत्तीर्थेष्वात ्मनश्च परस्य च । पाखण्डादीनविज्ञातानन्योन्यमितरेष्वपि 5, मन्त्रिणं युवरा जं च हित्वा स्वेषु पुरोहितमिति ॥ 2-5-67 अष्टाङ्गसंयुक्ता-रथा नागा हया योधाः पत्तयः कर्मकारकाः । चारा दैशिकमुख्याश ्च ध्वजिन्यष्टाङ्गिका मता । चतुर्विधबला मौलमैत्रमृत्याटविकैर्बलैर्युक्ता । बलमुख्यैः सेनापतिभिः प्रतिवर्धिनी प्रातिकूल्येन च्छेदिनी ॥ 2-5-68 लवः सस्यच्छेदनकालः । मुष्टिः सस्यानां गोपनकालः ॥ 2-5-71 कोष्ठं धान्यस्थानम् ॥ 2-5-73 कच्चिन्नेति पानादिव्यसनजं व्ययं तव पूर्वाह्णे धर्माचरणकाले भृत्या न प्रत िजानन्ति नावेदयन्ति ॥ 2-5-76 अनुतिष्ठन्ति निवेदयन्ति ॥ 2-5-79 अप्राप्तव्यवहारा अप्रौढाः ॥ 2-5-84 प्रतिग्रामं पञ्चपञ्चेति । तेच-प्रशास्ता समाहर्ता संविधाता लेखकः साक्षी चे ति ॥ 2-5-88 आत्ययिकमकल्याणम् ॥ 2-5-93 आबाधं दुःखम् । नियमेन पथ्याशनादिना ॥ 2-5-94 निदानं पूर्वलिङ्गानि रूपाण्युपशयस्तथा । सम्प्राप्तिरौषधी रोगी परिचारक एवं चेत्यष्टाङ्गानि ॥ 2-5-102 तवाध्यक्षं त्वत्समक्षण् ॥ 2-5-108 क्षारितः मिथ्यापवादैः पातितः ॥ 2-5-113 कृतमूलाः अपीति छेदः ॥ 2-5-126 ब्रह्मदण्डः अभिचारः ॥