अध्यायः 011

ब्रह्मसभावर्णनम् ॥ 1 ॥

नारद उवाच ॥

पितामहसभां तात कथ्यमानां निबोध मे ।
शक्यते या न निर्देष्टुमेवंरूपेति भारत ॥
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः ।
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ॥
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः ।
स तामकथयन्मह्यं दृष्ट्वा तत्त्वेन पाण्डव ॥
अप्रमेयां सभां दिव्यां मानसीं भरतर्षभ ।
अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम् ॥
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डवर्षभ । दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रुवम् ।
भगवन्द्रष्टुमिच्छामि पितामहसभां शुभाम् ।
येन वा तपसा शक्या कर्मणा वाऽपि गोपते ॥
औषधैर्या तथा युक्तैरुत्तमा पापनाशिनी ।
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां यथा ॥
स तन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः ।
प्रोवाच भारतश्रेष्ठ व्रतं वर्षसहस्रकम् ॥
ब्रह्मव्रतमुपास्स्व त्वं प्रयतेनान्तरात्मना ।
ततोऽहं हिमवत्पृष्ठे समारब्दो महाव्रतम् ॥
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् । आगच्छत्तां सभां ब्राह्मीं विपाप्मा विगतक्लमः ?
एवंरूपेति सा शक्या न निर्देष्टुं नराधिप ।
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा ॥
न वेद परिमाणं वा संस्थानं चापि भारत ।
न च रूपं मया तादृक् दृष्टपूर्वं कदाचन ॥
सुसुखा सा सदा राजन्न शीता न च घर्मदा ।
न क्षुत्पिपासे न ग्लानिं प्राप्यतां प्राप्तुवन्त्युत ॥
नानारूपैरिव कृता मणिभिः सा सुभास्वरैः ।
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ॥
दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभैः ॥
अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा ।
दीप्यते नाकपृष्ठस्था भर्त्सयन्वीव भास्करम् ॥
तस्यां स भगवानास्ते विदधद्देवमायया ।
स्वयमेकोऽनिशं राजन्सर्वलोकपितामहः ॥
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् ।
दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः ॥
भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाङ्गिराः । पुलस्त्यश्च कतुश्चैव प्रह्लादः कर्दमस्तथा ।
अथर्वाङ्गिरसश्चैव वालखिल्या सरीचिपाः ।
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही ॥
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च भारत ।
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः ॥
अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान् ।
जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा ॥
दुर्वासाश्च महाभाग ऋष्णशृङ्गश्च धार्मिकः ।
सनत्कुमारो भगवान्योगाचार्यो महातपाः ॥
असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित् ।
ऋषभो जितशत्रुश्च महावीर्यस्तथा मणिः ॥
आयुर्वेदस्तथाऽष्टाङ्गो देहवांस्तत्र भारत ।
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् ॥
वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च ।
मूर्तिमन्तो महात्मानो महाव्रतपरायणाः ॥
एते चान्ये च बहवो ब्रह्माणं समुपस्थिताः ।
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ॥
आयान्ति तस्यां सहिता गन्धर्वाप्सरसां गणाः ।
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ॥
शुक्रो बृहस्पतिश्चैव बुधोऽङ्कारक एव च ।
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ॥
मन्त्रो रथन्तरं चैव हरिमान्वसुमानपि ।
आदित्याः साधिराजानो नामद्वन्द्वैरुदाहृताः ॥
मरुतो विश्वकर्मा च वसवश्चैव भारत ।
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ॥
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव ।
अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह ॥
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः ।
ग्रहा यज्ञाश्च सोमश्च देवताश्चापि सर्वशः ॥
सावित्री दुर्गतरणी वाणी सप्तविधा तथा ।
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ॥
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा ।
भाष्याणि तर्कयुक्तानि देहवन्ति विशाम्पते ॥
नाटका विविधाः काव्याः कथाख्यायिकारिकाः ।
तत्रतिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः ॥
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च ।
अर्धमासाश्च मासाश्च ऋतवः षट् च भारत ॥
संवत्सराः पञ्ययुगमहोरात्रश्चतुर्विधः ।
कालचक्रं च तद्दिव्यं नित्यमक्षयमव्ययम् ॥
धर्मचक्रं तथा चापि नित्यमास्ते युधिष्ठिर ।
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा ॥
कालिका सुरभी देवी सरमा चाथ गौतमी ॥
प्रभा कद्रूश्च वै देव्यौ देवतानां च मातरः ।
रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथाऽपरा ॥
पृथिवी गां गता देवी ह्रीः स्वाहा कीर्तिरेव च ।
सुरा देवी शची चैव तथा पुष्टिररुन्धती ॥
संवृत्तिराशा नियतिः सृष्टिर्देवी रतिस्तथा ।
एताश्चान्याश्चवै देव्य उपतस्थुः प्रजापतिम् ॥
आदित्या वसवो रुद्रा मरुतश्चास्विनावपि ।
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः ॥
पितृणां च गणान्विद्धि सप्तैव पुरुषर्षभ ।
मूर्तिमन्तो वै चत्वारस्त्रयश्चापि शरीरिणः ॥
वैराजश्च महाभागा अग्निष्वात्ताश्च भारत ।
गार्हपत्या नाकचराः पितरो लोकविश्रुताः ॥
सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा ।
एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप ॥
एतैराप्यायितैः पुर्वं सोमश्चाप्याय्यते पुनः ।
त एते पितरः सर्वे प्रजापतिमुपस्थिताः ॥
उपासते च संहृष्टा ब्रह्माणममितौजसम् ।
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा ॥
नागाः सुपर्णाः पशवः पितामहमुपासते ।
स्थावरा जङ्गमाश्चैव महाभूतास्तथाऽपरे ॥
पुरन्दरश्च देवेन्द्रो वरुणो धनदो यमः ।
महादेवः सहोमोऽत्र सदा गच्छति सर्वशः ॥
महासेनश्च राजेन्द्र सदोपास्ते पितामहम् ।
देवो नारायणस्तस्यां तथा देवर्षयश्च ये ॥
ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा । यच्च किञ्चित्रिलोकेऽस्मिन्दृश्यते स्थाणु जङ्गमम् ।
सर्वं तस्यां मया दृष्टमिति विद्धि नराधिप ॥
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ।
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ॥
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः ।
प्रणम्य शिरसा तस्मै सर्वे यान्ति यथागमम् ॥
अतिथीनागतान्देवान्दैत्यान्नागांस्तथा द्विजान् ।
यक्षान्मुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा ॥
महाभागानमितधीर्ब्रह्मा लोकपितामहः ।
दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते ॥
प्रतिगृह्य तु विश्वात्मा स्वयं स्वयम्भूरमितद्युतिः ।
सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप ॥
तथा तैरुपयातैश्च प्रतियद्भिश्च भारत ।
आकुला सा सभातात भवति स्म सुखप्रदा ॥
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता ।
ब्राहया श्रिया दीप्यमाना शुशुभे विगतक्लमा ॥
सा सभा तादृशी दृष्टा मया लोकेषु दुर्लभा ।
सभेयं राजशार्दूल मनुष्येषु यथा तव ॥
एता मया दृष्टपूर्वाः सभा देवेषु भारत ।
सभेयं मानुषे लोके सर्वश्रेष्ठतमा तव ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि एकादशोऽध्यायः ॥ 11 ॥

2-11-2 देवयुगे कृतयुगे ॥ 2-11-30 मामद्वन्द्वैरग्नीषोमेन्द्राभ्यादिभिः ॥ 2-11-38 संवत्सराः षष्टिः प्रभवादयः । तेच पञ्चपञ्च एकैकं युगम् । चतुर्विधो मानुषोऽ होरात्रः षष्टिघटिकाभिः । पैत्रो मासेन । दैवो वत्सरेण । ब्राह्मः कल्पेनेति । कालचक्रं द्वादशराश्यात्मकम् ॥