अध्यायः 015

राजसूयविषये श्रीकृष्णयुधिष्ठिरभीमानां संवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति ।
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ॥
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः । न च साम्राज्यमाप्तास्ते सम्रादशब्दो हि कृच्छ्रभाक् ।
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति ।
परेण समवेतस्तु यः प्रशस्यः स पूज्यते ॥
विशाला बहुला भूमिर्बहुरत्नसमाचिता ।
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह ॥
शममेव परं मन्ये शमात्क्षेमं भवेन्मम ।
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ॥
एवमेते हि जानन्ति कुले जाता मनस्विनः । कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन ।
वयं यैव महाभाग जरासन्धभयात्तदा ।
शङ्किताः स्म महाभाग द्वौरात्म्यात्तस्य चानघ ॥
अहं हि तव दुर्धर्ष भुजवीर्याश्रयः प्रभो ।
नात्मानं बलिनं मन्ये त्वयि तस्माद्विशङ्किते ॥
त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव । अर्जुनाद्वा महाबाहो हन्तुं शक्यो नवेति वै ।
एवं जानन्हि वार्ष्णेय विमृशामि पुनः पुनः ॥
त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव ।
तच्छ्रुत्वा चाब्रवीद्भीमो वाक्यं वाक्यविशारदः ॥
भीम उवाच ॥
अनारम्भपरो राजा वल्मीक इव सीदति ।
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति ॥
अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम् ।
जयेत्सम्यक्प्रयोगेण नीत्याऽर्थानात्मनो हितान् ॥
कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये ।
मागधं साधयिष्याम इष्टिं त्रय इवाग्रयः ॥
`त्वद्बुद्धिबलमाश्रित्य सर्वं प्राप्स्यति धर्मराद ।
जयोऽस्माकं हि गोविन्द येषां नाथो भवान्सदा' ॥
कृष्ण उवाच ।
अर्थानारभते बालो नानुबन्धमवेक्षते ।
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् ॥
जित्वा जय्यान्यौवनाश्विः पालनाच्च भगीरथः ।
कार्तवीर्यस्तपोवीर्याद्बलात्तु भरतो विभुः ॥
ऋद्ध्या मरुत्तस्तान्पश्च सम्राजस्त्वनुशुश्रुम ।
`सर्वान्वंश्याननुमृशन्नैते सन्ति युगे युगे' ॥
साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर ।
निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनयलक्षणैः ॥
बार्हद्रथो नरासन्धस्तद्विद्धि भरतर्षभ ।
न चैनं प्रत्यत्युद्ध्यन्त कुलान्येकशतं नृपाः ॥
तस्मादिह बलादेव साम्राज्यं कुरुते हि सः ॥
रत्नभाजो हि राजानो जरासन्धमुपासते ।
न च तुष्यति तेनापि बाल्यादनयमास्थितः ॥
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषो बलात् ।
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् ॥
एवं सर्वान्वशे चक्रे जरासन्धः शतावरान् ।
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति ॥
`तण्डुलप्रस्थके राजा कपर्दिनमुपासते' । प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे ।
पशूनामिव प्रमृष्टानां राज्ञां पशुपतेर्गृहे ।
क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः ।
ततः स्म मागधं सङ्ख्ये प्रतिबाधेम यद्वयम् ॥
षडशीतिः समानीताः शेषा राजंश्चतुर्दश ।
जरासन्धेन राजानस्ततः क्रूरं प्रवर्त्स्यते ॥
प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् ।
जयेद्यश्च जरासन्धं स सम्राण्णियतं भवेत् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि पञ्चदशोऽध्यायः ॥ 25 ॥

2-15-18 युधिष्ठिर धर्मार्थनयलक्षणैः सहिता प्राप्तिः पालनं निग्राह्यलक्षणं साम्रा ज्यं च तेऽस्ति ॥ 2-15-19 बार्हद्रथं जरासन्धं तं विद्धि इति क. घ.पाठः ॥ 2-15-22 बलात्प्रधानपुरुषः जरासन्धः पुरुषतः पुरुषेषु अभागः अस्वीकृतः ॥