अध्यायः 023

कृष्णजरासन्धयोर्द्वेषकारणकथनम् ॥ 1 ॥

जनमेजय उवाच ।

किमर्थं वैरिणावास्तामुभौ तौ कृष्णमागधौ ।
कथं च निर्जितः सङ्ख्ये जरासन्धेन माधवः ॥
कश्च कंसो मागधस्य यस्य हेतोः स वैरवान् ।
एतदाचक्ष्व मे सर्वं वैशम्पायन तत्वतः ॥
वैशम्पायन उवाच ॥
यादवानामन्ववाये वसुदेवो महामतिः ।
उदपद्यत वार्ष्णेयो ह्युग्रसेनस्य मन्त्रभृत् ॥
उग्रसेनस्य कंसस्तु बभूव बलवान्सुतः ।
ज्येष्ठो बहूनां कौरव्य सर्वशस्त्रविशारदः ॥
जरासन्धस्य दुहिता तस्य भार्याऽतिविश्रुता ।
राज्यशुक्लेन दत्ता सा जरासन्धेन धीमता ॥
तदर्थमुग्रसेनस्य मधुरायां सुतस्तदा ।
अभिषिक्तस्तदाऽमात्यैः स वै तीव्रपराक्रमः ॥
ऐश्वर्यबलमत्तस्तु स तदा बलमोहितः ।
निगृह्य पितरं भुङ्क्ते तद्राज्यं मन्त्रिभिः सह ॥
वसुदेवस्य तत्कृत्यं न शृणोति स मन्दधीः ।
त तेन सह तद्राज्यं धर्मतः पर्यपालयत् ॥
प्रीतिमान्स तु दैत्येन्द्रो वसुदेवस्य देवकीम् ।
उवाह भार्या स तदा दुहिता देवकस्य या ॥
तस्यामुद्वाह्यमानायां रथेन जनमेजय ।
उपारुरोह वार्ष्णेयं कंसो भूमिपतिस्तदा ॥
ततोऽन्तरिक्षे वागासीद्देवदूतस्य कस्यचित् ।
वसुदेवश्च शुश्राव तां वाचं पार्थिवश्च सः ॥
यामेतां वहमानोऽद्य कंसोद्वहसि देवकीम् ।
अस्या यश्चाष्टमो गर्भः स ते मृत्युर्भविष्यति ॥
सोऽवतीर्य ततो राजा खड्गमुद्धृत्य निर्मलम् ।
इयेष तस्या मूर्धानं छेत्तुं परमदुर्मतिः ॥
सान्त्वयन्स तदा कंसं हसन्कोधवशानुगम् ।
राजन्ननुनयामास वसुदेवो महामतिः ॥
अहिंस्यां प्रमदामाहुः सर्वधर्मेषु पार्थिव ।
अकस्मादबलां नारीं हन्तासीमामनागसीम् ॥
यच्च तेऽत्र भयं राजञ्शक्यते बाधितुं त्वया ।
इयं शक्या पालयितुं समयं चैव रक्षितुम् ॥
अस्यास्त्वमष्टमं गर्भं जातमात्रं महीपते ।
विध्वंसय तदा प्राप्तमेवं परिहृतं भवेत् ॥
एवं स राजा कथितो वसुदेवेन भारत ।
तस्य तद्वचनं चके शूरसेनपतिस्तदा ॥
ततस्तस्यां सम्बभूवुः कुमाराः सूर्यवर्चसः ।
जाताञ्चातांस्तु तान्सर्वाञ्जघान मधुरेश्वरः ॥
अथ तस्यां समभवद्बलदेवस्तु सत्तमः ।
याम्यता मायया तं तु यमो राजा विशाम्पते ॥
देवक्या गर्भमतुलं रोहिण्या जठरेऽक्षिपत् ।
आकृष्य कर्षणात्सम्यक्सङ्कर्षणं इति स्मृतः ॥
बलश्रेष्ठतया तस्य बलदेव इति स्मृतः ।
पुनस्तस्यां समभवदष्टमो मधुमूदनः ॥
तस्य गर्भस्य रक्षां तु स चक्रेऽभ्यधिकं नृपः ।
ततः काले रक्षणार्थं वसुदेवस्य तत्वतः ॥
उग्रः प्रयुक्तः कंसेन सचिवः क्रूरकर्मकृत् ॥
जातमात्रं वासुदेवमथाकृष्य पिता ततः ।
उपजह्रे परिक्रीतां सुतां गोपस्य कस्यचित् ॥
अमृष्यमाणस्तं शब्दं देवदूतस्य पार्थिवः ।
वासुदेवं महात्मानमर्पयामास गोकुले ॥
वासुदेवोपि गोपेषु ववृधेऽब्जमिवाम्भसि ।
अज्ञायमानः कंसेन गूढोऽग्निरिव दारुषु ॥
विप्रचके तदा सर्वान्बल्लवान्मधुरेश्वरः ।
वर्धमानो महाबाहुस्तेजोबलसमन्वितः ॥
ततस्ते क्लिश्यमानास्तु पुण्डरीकाक्षमच्युतम् ।
भयेन कामादपरे गणशः पर्यवारयन् ॥
स तु लब्ध्वा बलं राजन्नुग्रसेनस्य संमतः ।
वसुदेवात्मजः सर्वैर्भ्रातृभिः सहितं पुनः ॥
निर्जित्य युधि भोजेन्द्रं हत्वा कंसं महाबलः ।
अभ्यषिञ्चत्ततो राज्य उग्रसेनं विशाम्पते ॥
ततः श्रुत्वा जरासन्धो माधवेन हतं युधि ।
शूरसेनाधिपं चक्रे कंसपुत्रं तदा नृप ॥
ससैन्यं महदुत्थाप्य वासुदेवं तदा नृप ।
अभ्यषिञ्चत्सुतं तत्र सुताया जनमेजय ॥
उग्रसेनं च वृष्णींश्च महाबलसमन्वितः ।
स तत्र विप्रकुरुते जरासन्धः प्रतापवान् ॥
एतद्वैरं कौरवेय जरासन्धस्य माधवे ।
आशासितार्थे राजेन्द्र संरुरोध विनिर्जितान् ॥
पार्थिवैस्तैर्नृपतिभिर्यक्ष्यमाणः समृद्धिमान् ।
देवश्रेष्ठं महादेवं कृत्तिवासं त्रियम्बकम् ॥
एतत्सर्वं यथावृत्तं कथितं भरतर्षभ ।
यथा तु स हतो राजा भीमसेनेन तच्छृणु ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि त्रयोर्विंशोऽध्यायः ॥ 23 ॥